॥ श्रीलक्ष्मीनृसिंहाय नमः ॥ श्रीवेदव्यासाय नमः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥१॥
तप्तहाटककेशान्तज्वलत्पावकलोचन ।
वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥२॥
पान्तु वो नरसिंहस्य नखलाङ्गूलकोटयः ।
हिरण्यकशिपोर्वक्षः क्षेत्रासृककर्दमारुणाः ॥३॥
हिमवद्वासिनः सर्वे मुनयो वेदपारगाः ।
त्रिकालज्ञा महात्मानो नैमिषारण्यवासिनः ॥४॥
येऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः ।
महेन्द्राद्रिरता ये च ये च विन्ध्यनिवासिनः ॥५॥
धर्मारण्यरता ये च दण्डकारण्यवासिनः ।
श्रीशैलनिरता ये च कुरुक्षेत्रनिवासिनः ॥६॥
कौमारपर्वते ये च ये च पम्पानिवासिनः ।
एते चान्ये च बहवः सशिष्या मुनयोऽमलाः ॥७॥
माघमासे प्रयागं तु स्नातुं तीर्थं समागताः ।
तत्र स्रात्वा यथान्यायं कृत्वा कर्म जपादिकम् ॥८॥
नत्वा तु माधवं देवं कृत्वा च पितृतर्पणम् ।
दृष्ट्वा तत्र भरद्वाजं पुण्यतीर्थनिवासिनम् ॥९॥
तं पूजयित्वा विधिवत्तेनैव च सुपूजिताः ।
आसनेषु विचित्रेषु वृष्यादिषु यथाक्रमम् ॥१०॥
भरद्वाजेन दत्तेषु आसीनास्ते तपोधनाः ।
कृष्णाश्रिताः कथाः सर्वे परस्परमथाबुवन् ॥११॥
कथान्तेषु ततस्तेषां मुनीनां भावितात्मनाम् ।
आजगाम महातेजास्तत्र सूतो महामतिः ॥१२॥
व्यासशिष्यः पुराणज्ञो लोमहर्षणसंज्ञकः ।
तान् प्रणम्य यथान्यायं स च तैश्चाभिपूजितः ॥१३॥
उपविष्टो यथायोग्यं भरद्वाजमतेन सः ।
व्यासशिष्यं सुखासीनं ततस्तं लोमहर्षणम् ।
स पप्रच्छ भरद्वाजो मुनीनामग्रतस्तदा ॥१४॥
भरद्वाज उवाच
शौनकस्य महासत्रे वाराहाख्या तु संहिता ।
त्वत्तः श्रुता पुरा सूत एतैरस्माभिरेव च ॥१५॥
साम्प्रतं नारसिंहाख्यां त्वत्तः पौराणसंहिताम् ।
श्रोतुमिच्छाम्यहं सूत श्रोतुकामा इमे स्थिताः ॥१६॥
अतस्त्वां परिपृच्छामि प्रश्नमेतं महामुने ।
ऋषीणामग्रतः सूत प्रातर्ह्येषां महात्मनाम् ॥१७॥
कुत एतत् समुत्पन्नं केन वा परिपाल्यते ।
कस्मिन् वा लयमभ्येति जगदेतच्चराचरम् ॥१८॥
किं प्रमाणं च वै भूमेर्नृसिंहः केन तुष्यति ।
कर्मणा तु महाभाग तन्मे ब्रूहि महामते ॥१९॥
कथं च सृष्टेरादिः स्यादवसानं कथं भवेत् ।
कथं युगस्य गणना किं वा स्यात्तु चतुर्युगम् ॥२०॥
को वा विशेषस्तेष्वत्र का वावस्था कलौ युगे ।
कथमाराध्यते देवो नरसिंहोऽप्यमानुषैः ॥२१॥
क्षेत्राणि कानि पुण्यानि के च पुण्याः शिलोच्चयाः ।
नद्यश्च काः पराः पुण्या नृणां पापहराः शुभाः ॥२२॥
देवादीनां कथं सृष्टिर्मनोर्मन्वन्तरस्य तु ।
तथा विद्याधरादीनां सृष्टिरादौ कथं भवेत् ॥२३॥
यज्वानः के च राजानः के च सिद्धिं परां गताः ।
एतत्सर्व महाभाग कथयस्व यथाक्रमम् ॥२४॥
सूत उवाच
व्यासप्रसादाज्जानामि पुराणानि तपोधनाः ।
तं प्रणम्य प्रवक्ष्यामि पुराणं नारसिंहकम् ॥२५॥
पाराशर्यं परमपुरुषं विश्वदेवैकयोनिं
विद्यावन्तं विपुलमतिदं वेदवेदाङ्गवेद्यम् ।
शश्चच्छान्तं शमितविषयं शुद्धतेजो विशालं
वेदव्यासं विगतशमलं सर्वदाहं नमामि ॥२६॥
नमो भगवते तस्मै व्यासायामिततेजसे ।
यस्य प्रसादाद्वक्ष्यामि वासुदेवकथामिमाम् ॥२७॥
सुनिर्णीतो महान् प्रश्नस्त्वया यः परिकीर्तितः ।
विष्णुप्रसादेन विना वक्तुं केनापि शक्यते ॥२८॥
तथापि नरसिंहस्य प्रसादादेव तेऽधुना ।
प्रवक्ष्यामि महापुण्यं भारद्वाज श्रृणुष्व मे ॥२९॥
श्रृण्वन्तु मुनयः सर्वे सशिष्यास्त्वत्र ये स्थिताः ।
पुराणं नरसिंहस्य प्रवक्ष्यामि यथातथा ॥३०॥
नारायणादिदं सर्वं समुत्पन्नं चराचरम् ।
तेनैव पाल्यते सर्वं नरसिंहादिमूर्तिभिः ॥३१॥
तथैव लीयते चान्ते हरौ ज्योतिः स्वरुपिणि ।
यथैव देवः सृजति तथा वक्ष्यामि तच्छृणु ॥३२॥
पुराणानां हि सर्वेषामयं साधारणः स्मृतः ।
श्लोको यस्तं मुने श्रुत्वा निः शेषं त्वं ततः श्रृणु ॥३३॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥३४॥
आदिसर्गोऽनुसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव वक्ष्याम्यनुसमासतः ॥३५॥
आदिसर्गो महांस्तावत् कथयिष्यामि वै द्विजाः ।
यस्मादारभ्य देवानां राज्ञां चरितमेव च ॥३६॥
ज्ञायते सरहस्यं च परमात्मा सनातनः ।
प्राक्सृष्टेः प्रलयादूर्ध्वं नासीत् किंचिदद्विजोत्तम ॥३७॥
ब्रह्मसंज्ञमभूदेकं ज्योतिष्मत्सर्वंकारणम् ।
नित्यं निरञ्ञनं शान्तं निर्गुणं नित्यनिर्मलम् ॥३८॥
आनन्दसागरं स्वच्छं यं काडक्षन्ति मुमुक्षवः ।
सर्वज्ञं ज्ञानरुपत्वादनन्तमजमव्ययम् ॥३९॥
सर्गकाले तु सम्प्राप्ते ज्ञात्वाऽसौ ज्ञातृनायकः ।
अन्तर्लीनं विकारं च तत्स्त्रष्टुमुपचक्रमे ॥४०॥
तस्मात् प्रधानमुद्भूतं ततश्चापि महानभूत् ।
सात्त्विको राजसश्चैव तामसश्च त्रिधा महान् ॥४१॥
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।
त्रिविधोऽयमहंकारो महत्तत्त्वादजायत ॥४२॥
यथा प्रधानं हि महान् महता स तथाऽऽवृतः ।
भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ॥४३॥
ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ।
शब्दमात्रं तथाऽऽकाशं भूतादिः स समावृणोत् ॥४४॥
आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ।
बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः ॥४५॥
आकाशं शब्दतन्मात्रं स्पर्शमात्रं तथाऽऽवृणोत् ।
ततो वायुर्विकुर्वाणो रुपमात्रं ससर्ज ह ॥४६॥
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ।
स्पर्शमात्रं तु वै वायू रुपमात्रं समावृणोत् ॥४७॥
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ।
सम्भवन्ति ततोऽम्भांसि रसाधाराणि तानि तु ॥४८॥
रसमात्राणि चाम्भांसि रुपमात्रं समावृणोत् ।
विकुर्णावानि चाम्भांसि गन्धमात्रं ससर्जिरे ॥४९॥
तस्मज्जाता मही चेयं सर्वभूतगुणाधिका ।
संघातो जायते तस्मात्तस्य गन्धगुणो मतः ॥५०॥
तस्मिंस्तस्मिंस्तु तन्मात्रा तेन तन्मात्रता स्मृता ।
तन्मात्राण्यविशेषाणि विशेषाः क्रमशोपराः ॥५१॥
भूततन्मात्रसर्गोऽयमहंकारात्तु तामसात् ।
कीर्तितस्ते समासेन भरद्वाज मया तव ॥५२॥
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ।
एकादशं मनश्चात्र कीर्तितं तत्र चिन्तकैः ॥५३॥
बुद्धीन्द्रियाणि पञ्चात्र पञ्च कर्मेन्द्रियाणि च ।
तानि वक्ष्यामि तेषां च कर्माणि कुलपावन ॥५४॥
श्रवणे च दृशौ जिह्वा नासिका त्वक् च पञ्चमी ।
शब्दादिज्ञानसिद्धर्यं बुद्धियुक्तानि पञ्च वै ॥५५॥
पायूपस्थे हस्तपादौ वाग् भरद्वाज पञ्चमी ।
विसर्गानन्दशिल्पी च गत्युक्ती कर्म तत्स्मृतम् ॥५६॥
आकाशवायुतेजांसि सलिलं पृथिवी तथा ।
शब्दादिभिर्गुणैर्विप्र संयुक्तान्युत्तरोत्तरैः ॥५७॥
नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना ।
नाशक्नुवन् प्रजां स्त्रष्टुमसमागम्य कृत्स्त्रशः ॥५८॥
समेत्यान्योन्यसंयोगं परस्परसमाश्रयात् ।
एकसंघातलक्ष्याश्च सम्प्राप्यैक्यमशेषतः ॥५९॥
पुरुषाधिष्ठितत्त्वाच्च प्रधानानुग्रहेण च ।
महदाद्या विशेषान्तास्त्वण्डमुत्पादयन्ति ते ॥६०॥
तत्क्रमेण विवृद्धं तु जलबुदबुदवत् स्थितम् ।
भूतेभ्योऽण्डं महाबुद्धे बृहत्तदुदकेशयम् ॥६१॥
प्राकृतं ब्रह्मरुपस्य विष्णोः स्थानमनुत्तमम् ।
तत्राव्यक्तस्वरुपोऽसौ विष्णुर्विश्वश्वरः प्रभुः ॥६२॥
ब्रह्मस्वरुपमास्थाय स्वयमेव व्यवस्थितः ।
मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः ।
गर्भोदकं समुद्राश्च तस्याभूवन् महात्मनः ॥६३॥
अद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः ।
तस्मिन्नण्डेऽभवत्सर्वं सदेवासुरमानुषम् ॥६४॥
रजोगुणयुतो देवः स्वयमेव हरिः परः ।
ब्रह्मरुपं समास्थाय गजत्सृष्टौ प्रवर्तते ॥६५॥
सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना ।
नरसिंहादिरुपेण रुद्ररुपेण संहरेत् ॥६६॥
ब्राह्मेण रुपेण सृजत्यनन्तो
जगत्समस्तं परिपातुमिच्छन् ।
रामादिरुपं स तु गृह्य पाति
भूत्वाथ रुद्रः प्रकरोति नाशम् ॥६७॥
इति श्रीनरसिंहपुराणे ' सर्गानिरुपणं ' नाम प्रथमोऽध्यायः ॥१॥