मार्कण्डेय उवाच
अतः परं प्रवक्ष्यामि प्रादुर्भावद्वयं शुभम् ।
तृतीयस्य तु रामस्य कृष्णस्य तु समासतः ॥१॥
पुरा ह्यसुरभारार्ता मही प्राह नृपोत्तम ।
आसीनं देवमध्ये तु ब्रह्माणं कमलासनम् ॥२॥
देवासुरे हता ये तु विष्णुना दैत्यदानवाः ।
ते सर्वे क्षत्रिया जाताः कंसाद्याः कमलोद्भवः ॥३॥
तद्भुरिभारसम्प्राप्ता सीदन्ती चतुरानन ।
मम तद्भारहानिः स्याद्यथा देव तथा कुरु ॥४॥
तयैवमुक्तो ब्रह्माथ देवैः सह जगाम ह ।
क्षीरोदस्योत्तरं कूलं विष्णुं भक्तिविबोधितम् ॥५॥
तत्र गत्वा जगत्स्रष्टा देवैः सार्धं जनार्दनम् ।
नरसिंहं महादेवं गन्धपुष्पादिभिः क्रमात् ॥६॥
अभ्यर्च्य भक्त्या गोविन्दं वाक्पुष्पेण च केशवम् ।
पूजयामास राजेन्द्र तेन तुष्टो जगत्पतिः ॥७॥
राजोवाच
वाक्पुष्पेण कथं ब्रह्मन् ब्रह्माप्यर्चितवान् हरिम् ।
तन्मे कथय विप्रेन्द्र ब्रह्मोक्तं स्तोत्रमुत्तमम् ॥८॥
मार्कण्डेय उवाच
श्रृणु राजन् प्रवक्ष्यामि स्तोत्रं ब्रह्ममुखेरितम् ।
सर्वपापहरं पुण्यं विष्णुतुष्टिकरं परम् ॥९॥
तमाराध्य जगन्नाथमूर्ध्वबाहुः पितामहः ।
भूत्वैकाग्रमना राजन्निदं स्तोत्रमुदीरयत् ॥१०॥
ब्रह्मोवाच
नमामि देवं नरनाथमच्युतं नारायणं लोकगुरुं सनातनम् ।
अनादिमव्यक मचिन्त्यमव्ययं वेदान्तवेद्यं पुरुषोत्तमं हरिम् ॥११॥
आनन्दरुपं परमं परात्परं चिदात्मकं ज्ञानवतां परां गतिम् ।
सर्वात्मकं सर्वगतैकरुपं ध्येयस्वरुपं प्रणमामि माधवम् ॥१२॥
भक्तप्रियं कान्तमतीव निर्मलं सुराधिपं सूरिजनैरभिष्टुतम् ।
चतुर्भुजं नीरजवर्णमीश्वरं रथाङ्गपाणिं प्रणतोऽस्मि केशवम् ॥१३॥
गदासिशङ्खाब्जकरं श्रियः पतिं सदाशिवं शार्ङ्गधरं रविप्रभम् ।
पीताम्बरं हारविराजितोदरं नमामि विष्णुं सततं किरीटिनम् ॥१४॥
गण्डस्थलासक्तसुरक्तकुण्डलं सुदीपिताशेषदिशं निजत्विषा ।
गन्धर्वसिद्धैरुपगीतमृग्ध्वनिं जनार्दनं भूतपतिं नमामि तम् ॥१५॥
हत्वासुरान् पाति युगे युगे सुरान् स्वधर्मसंस्थान भुवि संस्थितो हरिः ।
करोति सृष्टिं जगतः क्षयं यस्तं वासुदेवं प्रणतोऽस्मि केशवम् ॥१६॥
यो मत्स्यरुपेण रसातलस्थितान् वेदान् समाहत्य मम प्रदत्तवान् ।
निहत्य युद्धे मधुकैटभावुभौ तं वेदवेद्यं प्रणतोऽस्म्यहं सदा ॥१७॥
देवासुरैः क्षीरसमुद्रमध्यतो न्यस्तो गिरिर्येन धृतः पुरा महान् ।
हिताय कौर्मं वपुरास्थितो यस्तं विष्णुमाद्यं प्रणतोऽस्मि भास्करम् ॥१८॥
हत्वा हिरण्याक्षमतीव दर्पितं वराहरुपी भगवान् सनातनः ।
यो भूमिमेतां सकलां समुद्धरंस्तं वेदमूर्ति प्रणमामि सूकरम् ॥१९॥
कृत्वा नृसिंहं वपुरात्मनः परं हिताय लोकस्य सनातनो हरिः
जघान यस्तीक्ष्णनखैर्दितेः सुतं तं नारसिंहं पुरुषं नमामि ॥२०॥
यो वामनोऽसौ भगवाञ्जनार्दनो बलिं बबन्ध त्रिभिरुर्जितैः पदैः ।
जगत्रयं क्रम्य ददौ पुरंदरे तदेवमाद्यं प्रणतोऽस्मि वामनम् ॥२१॥
यः कार्तवीर्यं निजघान रोषात् त्रिस्सप्तकृत्वः क्षितिपात्मजानपि ।
तं जामदग्न्यं क्षितिभारनाशकं नतोऽस्मि विष्णुं पुरुषोत्तमं सदा ॥२२॥
सेतुं महान्तं जलधौ बबन्ध यः सम्प्राप्य लङ्कां सगणं दशाननम् ।
जघान भृत्यै जगतां सनातनं तं रामदेवं सततं नतोऽस्मि ॥२३॥
यथा तु वाराहनृसिंहरुपैः कृतं त्वया देव हितं सुराणाम् ।
तथाद्य भूमेः कुरु भारहानिं प्रसीद विष्णो भगवन्नमस्ते ॥२४॥
श्रीमार्कण्डेय उवाच
इति स्तुतो जगन्नाथः श्रीधरः पद्मयोनिना ।
आविर्बभूव भगवाञ्शङ्खचक्रगदाधरः ॥२५॥
उवाच च हषीकेशः पद्मयोनिं सुरानपि ।
स्तुत्यानयाहं संतुष्टः पितामह दिवौकसः ॥२६॥
पठतां पापनाशाय नृणां भक्तिमतामपि ।
यतोऽस्मि प्रकटीभूतो दुर्लभोऽपि हरिः सुराः ॥२७॥
देवैः सेन्द्रैः सरुद्रैस्तु पृथ्व्या च प्रार्थितो ह्यहम् ।
पद्मयोने वदाद्य त्वं श्रुत्वा तत्करवाणि ते ॥२८॥
इत्युक्ते विष्णुना प्राह ब्रह्मा लोकपितामहः ।
दैत्यानां गुरुभारेण पीडितेयं मही भृशम् ॥२९॥
लघ्वीमिमां कारयितुं त्वयाहं पुरुषोत्तम् ।
तेनागतः सुरैः सार्धं नान्यदस्तीति कारणम् ॥३०॥
इत्युक्तो भगवान् प्राह गच्छध्वममराः स्वकम् ।
स्थानं निरामयाः सर्वे पद्मयोनिस्तु गच्छतु ॥३१॥
देवक्यां वसुदेवाच्च अवतीर्य महीतले ।
सितकृष्णे च मच्छक्ती कंसादीन् घातयिष्यतः ॥३२॥
इत्याकर्ण्य हरेर्वाक्यं हरि नत्वा ययुः सुरा ।
गतेषु त्रिदिवौकः सु देवदेवो जनार्दनः ॥३३॥
शिष्टानां पालनार्थाय दुष्टनिग्रहणाय च ।
प्रेषयामास ते शक्ती सितकृष्णे स्वके नृप ॥३४॥
तयोः सिता च रोहिण्यां वसुदेवाद्वभूव ह ।
तद्वत्कृष्णा च देवक्यां वसुदेवाद्वभूव ह ॥३५॥
रौहिणेयोऽथ पुण्यात्मा रामनामाश्रितो महान् ।
देवकीनन्दनः कृष्णस्तयोः कर्म श्रृणुष्व मे ॥३६॥
गोकुले बालकाले तु राक्षसी शकुनी निशि ।
रामेण निहता राजन् तथा कृष्णेन पूतना ॥३७॥
धेनुकः सगणस्तालवने रामेण घातितः ।
शकटश्चार्जुनौ वृक्षौ तद्वत्कृष्णेन घातितौ ॥३८॥
प्रलम्बो निधनं नीतो दैत्यो रामेण मुष्टिना ।
कालियो दमितस्तोये कालिन्द्यां विषपन्नगः ॥३९॥
गोवर्धनश्च कृष्णेन धृतो वर्षति वासवे ।
गोकुलं रक्षता तेन अरिष्टश्च निपातितः ॥४०॥
केशी च निधनं नीतो दुष्टवाजी महासुरः ।
अक्रूरेण च तौ नीतौ मथुरायां महात्मनाः ॥४१॥
ददर्श तु निमग्नश्च रामकृष्णौ महामते ।
स्वं स्वं रुपं जले तस्य अक्रूरस्य विभूतिदम् ॥४२॥
अनयोर्भावमतुलं ज्ञात्वा दृष्टवा च यादवाः ।
बभूवुः प्रीतमनसो ह्यक्रूरश्च नृपात्मज ॥४३॥
दुर्वचश्च प्रजल्पन्तं कंसस्य रजकं ततः ।
कृष्णो जघान रामश्च तद्वस्त्रं ब्रह्मणे ददौ ॥४४॥
मालाकारेण भक्त्या तु सुमनोभिः प्रपूजितौ ।
ततस्तस्य वरान्दत्त्वा दुर्लभान् रामकेशवौ ॥४५॥
गच्छन्तौ राजमार्गं तु कुब्जया पूजितौ ततः ।
तत्कौटिल्यमपानीय विरुपं कार्मुकं ततः ॥४६॥
बभञ्ज कृष्णो बलवान् कंसस्याकृष्य तत्क्षणात् ।
रक्षपालान् जघानाथ रामस्तत्र खलान् बहून् ।
हत्वा कुवलयाख्यं च गजं रामजनार्दनौ ॥४७॥
प्रविश्य रङ्गं गजदन्तपाणी मदानुलिप्तौ वसुदेवपुत्रौ ।
युद्धे तु रामो निजघान मल्लं शैलोपमं मुष्टिकमव्ययात्मा ॥४८॥
कृष्णोऽपि चाणूरमतिप्रसिद्धं बलेन वीर्येण च कंसमल्लकम् ।
युदद्ध्वा तु तेनाथ चिरं जघान तं दैत्यमल्लं जनसंसदीशः ॥४९॥
प्रलम्बो निधनं नीतो दैत्यो रामेण मुष्टिना ।
कालियो दमितस्तोये कालिन्द्यां विषपन्नगः ॥३९॥
गोवर्धनश्च कृष्णेन धृतो वर्षति वासवे ।
गोकुलं रक्षता तेन अरिष्टश्च निपातितः ॥४०॥
केशी च निधनं नीतो दुष्टवाजी महासुरः ।
अक्रूरेण च तौ नीतौ मथुरायां महात्मना ॥४१॥
ददर्श तु निमग्नश्च रामकृष्णौ महामते ।
स्वं स्वं रुपं जले तस्य अक्रूरस्य विभूतिदम् ॥४२॥
अनयोर्भावमतुलं ज्ञात्वा दृष्ट्वा च यादवाः ।
बभूवुः प्रीतमनसो ह्यक्रूरश्च नृपात्मज ॥४३॥
दुर्वचश्च प्रजल्पन्तं कंसस्य रजकं ततः ।
कृष्णो जघान रामश्च तद्वस्त्रं ब्रह्मणे ददौ ॥४४॥
मालाकारेण भक्त्या तु सुमनोभिः प्रपूजितौ ।
ततस्तस्य वरान्दत्त्वा दुर्लभान् रामकेशवौ ॥४५॥
गच्छन्तौ राजमार्गं तु कुब्जया पूजितौ ततः ।
तत्कौटिल्यमपानीय विरुपं कार्मुकं ततः ॥४६॥
बभञ्ज कृष्णो बलवान् कंसस्याकृष्य तत्क्षणात् ।
रक्षपालान् जघानाथ रामस्तत्र खलान् बहून् ।
हत्वा कुवलयाख्यं च गजं रामजनार्दनौ ॥४७॥
प्रविश्य रङ्गं गजदन्तपाणी मदानुलिप्तौ वसुदेवपुत्रौ ।
युद्धे तु रामो निजघान मल्लं शैलोपमं मुष्टिकमव्ययात्मा ॥४८॥
कृष्णोऽपि चाणूरमतिप्रसिद्धं बलेन वीर्येण च कंसमल्लकम् ।
युद्धा तु तेनाथ चिरं जघान तं दैत्यमल्लं जनसंसदीशः ॥४९॥
मृतस्य मल्लस्य च मुष्टिकस्य मित्रं पुनः पुष्करकं स रामः ।
युद्धार्थमुत्थाय कृतक्षणं तं मुष्टिप्रहारेण जघान वीरः ॥५०॥
कृष्णः पुनस्तान् सकलान्निहत्य निगृह्य कंसं विनिपात्य भूमौ ।
स्वयं च देहे विनिपत्य तस्य हत्वा तथोर्व्यां निचकर्ष कृष्णः ॥५१॥
हते तु कंसे हरिणातिक्रुद्धो भ्रातापि तस्यातिरुषेण चोत्थितः ।
सुनाभसंज्ञो बलवीर्ययुक्तो रामेण नीतो यमसादनं क्षणात् ॥५२॥
तौ वन्द्य मातापितरौ सुहष्टौ जनैः समस्तैर्यदुभिः सुसंवृतौ ।
कृत्वा नृपं चोग्रसेनं यदूनां सभां सुधर्मां ददतुर्महेन्द्रीम् ॥५३॥
सर्वज्ञभावावपि रामकृष्णौ सम्प्राप्य सांदीपनितोऽस्त्रविद्याम् ।
गुरोः कृते पञ्चजनं निहत्य यमं च जित्वा गुरवे सुतं ददौ ॥५४॥
निहत्य रामो मगधेश्वरस्य बलं समस्तं बहुशः समागतम् ।
दिव्यास्त्रपूरैरमराविमावुभौ शुभां पुरीं चक्रतुः सागरान्ते ॥५५॥
तस्यां विधायाथ जनस्य वासं हत्वा श्रृगालं हरिरव्ययात्मा ।
दग्ध्वा महान्तं यवनं ह्युपायाद्वरं च दत्त्वा नृपतेर्जगाम ॥५६॥
रामोऽथ संशान्तसमस्तविग्रहः सम्प्राप्य नन्दस्य पुनः स गोकुलम् ।
वृन्दावने गोपजनैः सुभाषितः सीरेण रामो यमुनां चकर्ष ॥५७॥
सम्प्राप्य भार्यामथ रेवतीं च रेमे तया द्वारवतीं स लाङ्गली ।
क्षात्रेण सम्प्राप्य तदा स रुक्मिणीं कृष्णोऽपि रेमे पुरुषः पुराणः ॥५८॥
द्यूते कलिङ्गराजस्य दन्तानुत्पाट्य लाङ्गली ।
जघानाष्टपदेनैव रुक्मिणं चानृतान्वितम् ॥५९॥
कृष्णः प्राग्ज्योतिषो दैत्यान् हयग्रीवादिकान् बहुन् ।
हत्वा तु नरकं चापि जग्राह च महद्धनम् ॥६०॥
अदित्यै कुण्डले दत्त्वा जित्वेन्द्रं दैवतैः सह ।
गृहीत्वा पारिजातं तु ततो द्वारावतीं पुरीम् ॥६१॥
कुरुभिश्च धृतं साम्बं राम एको महाबलः ।
कुरुणां भयमुत्पाद्य मोचयामास वीर्यवान् ॥६२॥
बाणबाहुवनं छिन्नं कृष्णेन युधि धीमता ।
रामेण तद्वलं नीतं क्षयं कोटिगुणं क्षणात् ॥६३॥
देवापकारी रामेण निहतो वानरो महान् ।
ततोऽर्जुनस्य साहाय्यं कुर्वता कंसशत्रुणा ॥६४॥
सर्वभूतवधाद्राजन् भुवो भारोऽवरोपितः ।
तीर्थयात्रा कृता तद्वद्रामेण जगतः कृते ॥६५॥
रामेण निहता ये तु तान्न संख्यातुमुत्सहे ।
एवं तौ रामकृष्णौ तु कृत्वा दुष्टवधं नृप ॥६६॥
अवतार्य भुवो भारं जग्मतुः स्वेच्छया दिवम् ।
इत्येतौ कथितौ दिव्यौ प्रादुर्बावौ मया तव ।
संक्षेपाद्रामकृष्णस्य काल्क्यं श्रृणु ममाधुना ॥६७॥
इत्थं हि शक्ती सितकृष्णरुपे हरेरनन्तस्य महाबलाढ्ये ।
कृत्व तु भूमेर्नृप भारहानिं पुनश्च विष्णुं प्रतिजग्मतुस्ते ॥६८॥
इति श्रीनरसिंहपुराणे कृष्णाप्रादुर्भावो नाम त्रिपञ्चाशोऽध्यायः ॥५३॥