मार्कण्डेय उवाच
अतः परं हरेः पुण्यं प्रादुर्भावं नराधिप ।
वाराहं ते प्रवक्ष्यामि समाहितमनाः श्रृणु ॥१॥
अवान्तरलये प्राप्ते ब्रह्मणस्तु दिनक्षये ।
त्रैलोक्यमखिलं व्याप्य तिष्ठन्त्यम्भांसि सत्तम ॥२॥
त्रैलोक्येऽखिलसत्त्वानि यानि राजेन्द्र तानि वै ।
ग्रस्त्वा विष्णुस्ततः शेते तस्मिन्नेकार्णवे जले ॥३॥
अनन्तभोगशयने सहस्त्रफणशोभिते ।
रात्रिं युगसहस्त्रान्तां ब्रह्मरुपी जगत्पतिः ॥४॥
दितेः पुत्रो महानासीत् कश्यपादिति नः श्रुतम् ।
हिरण्याक्ष इति ख्यातो महाबलपराक्रमः ॥५॥
पाताले निवसन् दैत्यो देवानुपरुरोध सः ।
यज्विनामपकाराय यतते स तु भूतले ॥६॥
अथ भूम्युपरि स्थित्वा मर्त्या यक्ष्यन्ति देवताः ।
तेन तेषां बलं वीर्यं तेजश्चापि भविष्यति ॥७॥
इति मत्वा हिरण्याक्षः कृते सर्गे तु ब्रह्मणा ।
भूमेर्या धारणाशक्तिस्तां नीत्वा स महासुरः ॥८॥
विवेश तोयमध्ये तु रसातलतलं नृप ।
विना शक्त्या च जगती प्रविवेश रसातलम् ॥९॥
निद्रावसाने सर्वात्मा क्व स्थिता मेदिनीति वै ।
संचिन्त्य ज्ञात्वा योगेन रसातलतलं गताम् ॥१०॥
अथ वेदमयं रुपं वाराहं वपुरास्थितम् ।
वेदपादं यूपदंष्ट्रं चितिवक्त्रं नराधिप ॥११॥
व्यूढोरस्कं महाबाहुं पृथुवक्त्रं नराधिप ।
अग्निजिह्वं स्रुचं तुण्डं चन्द्रार्कनयनं महत् ॥१२॥
पूर्तेष्टिधर्मश्रवणं दिव्यं तं सामानिः स्वनम् ।
प्राग्वंशकायं हविर्नासं कुशदर्भतनूरुहम् ॥१३॥
सर्वं वेदमयं तच्च पुण्यसूक्तमहासटम् ।
नक्षत्रताराहरं च प्रलयावर्तभूषणम् ॥१४॥
इत्थं कृत्वा तु वाराहं प्रविवेश वृषाकपिः ।
रसातलं नृपश्रेष्ठ सनकाद्यैरभिष्टुतः ॥१५॥
प्रविश्य च हिरण्याक्षं युद्धे जित्वा वृषाकपिः ।
दंष्टाग्रेण ततः पृथ्वीं समुद्धत्य रसातलात् ॥१६॥
स्तूयमानोऽमरगणैः स्थापयामास पूर्ववत् ।
संस्थाप्य पर्वतान् सर्वान् यथास्थानमकल्पयत् ॥१७॥
विहाय रुपं वाराहं तीर्थे कोकेतिविश्रुते ।
वैष्णवानां हितार्थाय क्षेत्रं तदगुप्तमुत्तमम् ॥१८॥
ब्रह्मरुपं समास्थाय पुनः सृष्टिं चकार सः ।
विष्णुः पाति जगत्सर्वमेवम्भूतो युगे युगे ।
हन्ति चान्ते जगत्सर्वं रुद्ररुपी जनार्दनः ॥१९॥
वेदान्तवेद्यस्य हरेर्वृषाकपेः कथामिमां यश्च श्रृणोति मानवः ।
दृढां मतिं यज्ञतनौ विवेश्य वै विहाय पापं च नरो हरिं व्रजेत् ॥२०॥
इति श्रीनरसिंहपुराणमें ' वाराहप्रादुर्भावो नाम एकोनचत्वारिंशोऽध्यायः ॥३९॥