सूत उवाच
तीर्थानि कथितान्येवं भौमानि द्विजसत्तम ।
मानसानि हि तीर्थानि फलदानि विशेषतः ॥१॥
मनोनिर्मलता तीर्थं रागादिभिरनाकुला ।
सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः ॥२॥
गुरुशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा ।
स्वधर्माचरणं तीर्थं तीर्थमग्नेरुपासनम् ॥३॥
एतानि पुण्यतीर्थानि व्रतानि श्रृणु मेऽधुना ।
एकभुक्तं तथा नक्तमुपवासं च वै मुने ॥४॥
पूर्णमास्याममावास्यामेकभुक्तं समाचरेत् ।
तत्रैकभुक्तं कुर्वाणः पुण्यां गतिमवप्नुयात् ॥५॥
चतुर्थ्यां तु चतुर्दश्यां सप्तम्यां नक्तमाचरेत् ।
अष्टम्यां तु त्रयोदश्यां स प्राप्नोत्यभिवाञ्छितम् ॥६॥
उपवासो मुनिश्रेष्ठ एकादश्यां विधीयते ।
नरसिंह समभ्यर्च्य सर्वपापैः प्रमुच्यते ॥७॥
हस्तयुक्तेऽर्कदिवसे सौरनक्तं समाचरेत् ।
स्नात्वार्कमध्ये विष्णुं च ध्यात्वा रोगात्प्रमुच्यते ॥८॥
आत्मनो द्विगुणां छायां यदा संतिष्ठते रविः ।
सौरनक्तं विजानीयान्न नक्तं निशि भोजनम् ॥९॥
गुरुवारे त्रयोदश्यामपराह्णे जले ततः ।
तर्पयित्वा पितृन्देवानृषींश्च तिलतन्दुलैः ॥१०॥
नरसिंहं समभ्यर्च्य यः करोत्युपवासकम् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥११॥
यदागस्त्योदये प्राप्ते तदा सप्तसु रात्रिषु ।
अर्घ्यं दद्यात् समभ्यर्च्य अगस्त्याय महामुने ॥१२॥
शङ्खे तोयं विनिक्षिप्य सितपुष्पाक्षतैर्युतम् ।
मन्त्रेणानेन वै दद्याच्छितपुष्पादिनार्चिते ॥१३॥
काशपुष्पप्रतीकाश अग्निमारुतसम्भव ।
मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते ॥१४॥
आतापी भक्षितो येन वातापी च महासुरः ।
समुद्रः शोषितो येन सोऽगस्त्यः प्रीयतां मम ॥१५॥
एवं तु दद्याद्यो सर्वमगस्त्ये वै दिशं प्रति ।
सर्वपापविनिर्मुक्तमस्तरति दुस्तरम् ॥१६॥
एवं ते कथितं सर्वं भरद्वाज महामुने ।
पुराणं नारसिंहं च मुनीनां संनिधौ मया ॥१७॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव सर्वमेव प्रकीर्तितम् ॥१८॥
ब्रह्मणैव पुरा प्रोक्तं मरीच्यादिषु वै मुने ।
तेभ्यश्च भृगुणा प्रोक्तं राज्ञो नागकुलस्य ह ।
प्रसादान्नरसिंहस्य प्राप्तं व्यासेन धीमता ॥२०॥
तत्प्रसादान्मया प्राप्तं सर्वपापप्रणाशनम् ।
पुराणं नरसिंहस्य मया च कथितं तव ॥२१॥
मुनीनां संनिधौ पुण्यं स्वस्ति तेऽस्तु व्रजाम्यहम् ।
यः श्रृणोति शुचिर्भूत्वा पुराणं ह्येतदुत्तमम् ॥२२॥
माघे मासि प्रयागे तु स स्नानफलमाप्नुयात् ।
यो भक्त्या श्रावयेद्भक्तानित्यं नरहरेरिदम् ॥२३॥
सर्वतीर्थफलं प्राप्य विष्णुलोके महीयते ।
श्रुत्वैवं स्नातकेः सार्धं भरद्वाजो महामतिः ॥२४॥
सूतमभ्यर्च्य तत्रैव स्थितवान् मुनयो गताः ।
सर्वपापहरं पुण्यं पुराणं नृसिंहात्मकम् ॥२५॥
पठतां श्रृण्वतां नृणां नरसिंहः प्रसीदति ।
प्रसन्ने देवदेवेशे सर्वपापक्षयो भवेत् ॥२६॥
प्रक्षीणपापबन्धास्ते मुक्तिं यान्ति नरा इति ॥२७॥
इति श्रीनरसिंहपुराणे मानसतीर्थव्रतं नाम सप्तषष्टितमोऽध्यायः ॥६७॥