मार्कण्डेय उवाच
स तु रावणनीतायाः सीतायाः परिमार्गणम् ।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥१॥
अञ्जलिं प्राङ्मुखं कृत्वा सगणायात्मयोनये ।
मनसाऽऽवन्द्य रामं च लक्ष्मणं च महारथम् ॥२॥
सागरं सरितश्चैव प्रणम्य शिरसा कपिः ।
ज्ञातीश्चैव परिष्वज्य कृत्वा चैव प्रदक्षिणाम् ॥३॥
अरिष्टं गच्छ पन्थानं पुण्यवायुनिषेवितम् ।
पुनरागमनायेति वानरैरभिपूजितः ॥४॥
अञ्जसा स्वं तथा वीर्यमाविवेशाथ वीर्यवान् ।
मार्गमालोकयन् दूरादूर्ध्वं प्रणिहितेक्षणः ॥५॥
सम्पूर्णमिव चात्मानं भावयित्वा महाबलः ।
उत्पपात गिरेः श्रृङ्गान्निष्पीड्य गिरिमम्बरम् ॥६॥
पितुर्मार्गेण यातस्य वायुपुत्रस्य धीमतः ।
रामकार्यपरस्यास्य सागरेण प्रचोदितः ॥७॥
विश्रामार्थं समुत्तस्थौ मैनाको लवणोदधेः ।
तं निरीक्ष्य निपीड्याथ रयात्सम्भाष्य सादरम् ॥८॥
उत्पतंश्च वने वीरः सिंहिकास्यं महाकपिः ।
आस्यप्रान्तं प्रविश्याथ वेगेनान्तर्विनिस्सृतः ॥९॥
निस्सृत्य गतवाञ्शीघ्रं वायुपुत्रः प्रतापवान् ।
लङ्घयित्वा तु तं देशं सागरं पवनात्मजः ॥१०॥
त्रिकूटशिखरे रम्ये वृक्षाग्रे निपपात ह ।
तस्मिन् स पर्वतश्रेष्ठे दिनं नीत्वा दिनक्षये ॥११॥
संध्यामुपास्य हनुमान् रात्रौ लङ्कां शनैर्निशि ।
लङ्काभिधां विनिर्जित्य देवतां प्रविवेश ह ॥१२॥
लङ्कामनेकरत्नाढ्यां बह्वाश्चर्यसमन्विताम् ।
राक्षसेषु प्रसुप्तेषु नीतिमान् पवनात्मजः ॥१३॥
रावणस्य ततो वेश्म प्रविवेशाथ ऋद्धिमत् ।
शयानं रावणं दृष्ट्वा तल्पे महति वानरः ॥१४॥
नासापुटैर्घोरकारैर्विशद्भिर्वायुमोचकैः ।
तथैव दशभिर्वक्त्रैर्दंष्टोपेतैस्तु संयुतम् ॥१५॥
स्त्रीसहस्थैस्तु दृष्ट्वा तं नानाभरणभूषितम् ।
तस्मिन् सीतामदृष्ट्वा तु रावणस्य गृहे शुभे ॥१६॥
तथा शयानं स्वगृहे राक्षसानां च नायकम् ।
दुःखितो वायुपुत्रस्तु सम्पातेर्वचनं स्मरन् ॥१७॥
अशोकवनिकां प्राप्तो नानापुष्पसमन्विताम् ।
जुष्टां मलयजातेन चन्दनेन सुगन्धिना ॥१८॥
प्रविश्य शिंशपावृक्षमाश्रितां जनकात्मजाम् ।
रामपत्नीं समद्राक्षीद राक्षसीभिः सुरक्षिताम् ॥१९॥
अशोकवृक्षमारुह्य पुष्पितं मधुपल्लवम् ।
आसांचक्रे हरिस्तत्र सेयं सीतेति संस्मरन् ॥२०॥
सीतां निरीक्ष्य वृक्षाग्रे यावदास्तेऽनिलात्मजः ।
स्त्रीभिः परिवृतस्तत्र रावणस्तावदागतः ॥२१॥
आगत्य सीतां प्राहाथ प्रिये मां भज कामुकम् ।
भूषिता भव वैदेहि त्यज रामगतं मनः ॥२२॥
इत्येवं भाषमाणं तमन्तर्धाय तृणं ततः ।
प्राह वाक्यं शनैः सीता कम्पमानाथ रावणम् ॥२३॥
गच्छ रावण दुष्ट त्वं परदारपरायण ।
अचिराद्रामबाणास्ते पिबन्तु रुधिरं रणे ॥२४॥
तथेत्यक्तो भर्त्सितश्च राक्षसीराह राक्षसः ।
द्विमासाभ्यन्तरे चैनां वशीकुरुत मानुषीम् ॥२५॥
यदि नेच्छति मां सीता ततः खादत मानुषीम् ।
इत्युक्त्वा गतवान् दुष्टो रावणः स्वं निकेतनम् ॥२६॥
ततो भयेन तां प्राहू राक्षस्यो जनकात्मजाम् ।
रावणं भज कल्याणी सधनं सुखिनी भव ॥२७॥
इत्युक्ता प्राह ताः सीता राघवोऽलघुविक्रमः ।
निहत्य रावणं युद्धे सगणं मां नयिष्यति ॥२८॥
नाहमन्यस्य भार्या स्यामृते रामं रघूत्तमम् ।
स ह्यागत्य दशग्रीवं हत्वा मां पालयिष्यति ॥२९॥
इत्याकर्ण्य वचस्तस्या राक्षस्यो ददृशुर्भयम् ।
हन्यतां हन्यतामेषा भक्ष्यतां भक्ष्यतामियम् ॥३०॥
ततस्तास्त्रिजटा प्राह स्वप्ने दृष्टमनिन्दिता ।
श्रृणुध्वं दुष्टराक्षस्यो रावणस्य विनाशनः ॥३१॥
रक्षोभिः सह सर्वेस्तु रावणस्य मृतिप्रदः ।
लक्ष्मणेन सह भ्रात्रा रामस्य विजयप्रदः ॥३२॥
स्वप्नः शुभो मया दृष्टः सीतायाश्च पतिप्रदः ।
त्रिजटावाक्यमाकर्ण्य सीतापार्श्वं विसृज्य ताः ॥३३॥
राक्षस्यस्ता ययुः सर्वाः सीतामाहाञ्जनीसुतः ।
कीर्तयन् रामवृत्तान्तं सकलं पवनात्मजः ॥३४॥
तस्यां विश्वासमानीय दत्त्वा रामाङ्गुलीयकम् ।
सम्भाष्य लक्षणं सर्वं रामलक्ष्मणयोस्ततः ॥३५॥
महत्या सेनया युक्तः सुग्रीवः कपिनायकः ।
तेन सार्धमिहागत्य रामस्तव पतिः प्रभुः ॥३६॥
लक्ष्मणश्च महावीरो देवरस्ते शुभानने ।
रावणं सगणं हत्वा त्वामितोऽऽदाय गच्छति ॥३७॥
इत्युक्ते सा तु विश्वस्ता वायुपुत्रमथाब्रवीत् ।
कथमत्रागतो वीर त्वमुत्तीर्य महोदधितम् ॥३८॥
इत्याकर्ण्य वचस्तस्याः पुनस्तामाह वानरः ।
गोष्पदवन्मयोत्तीर्णः समुद्रोऽयं वरानने ॥३९॥
जपतो रामरामेति सागरो गोष्पदायते ।
दुःखमग्नासि वैदेहि स्थिरा भव शुभानने ॥४०॥
क्षिप्रं पश्यसि रामं त्वं सत्यमेतदब्रवीमि ते ।
इत्याश्वास्य सतीं सीतां दुःखितां जनकात्मजाम् ॥४१॥
ततश्चूडामणिं प्राप्य श्रुत्वा काकपराभवम् ।
नत्वा तां प्रस्थितो वीरो गन्तुं कृतमतिः कपिः ॥४२॥
ततो विमृश्य तद्भड्क्त्वा क्रीडावनमशेषतः ।
तोरणस्थो ननादोच्चै रामो जयति वीर्यवान् ॥४३॥
अनेकान् राक्षसान् हत्वा सेनाः सेनापतींश्च सः ।
तदा त्वक्षकुमारं तु हत्वा रावणसैनिकम् ॥४४॥
साश्वं ससारथिं हत्वा इन्द्रजित्तं गृहीतवान् ।
रावणस्य पुरः स्थित्वा रामं संकीर्त्य लक्ष्मणम् ॥४५॥
सुग्रीवं च महावीर्यं दग्ध्वा लङ्कामशेषतः ।
निर्भर्त्य्स्य रावण दुष्टं पुनः सम्भाष्य जानकीम् ॥४६॥
भूयः सागरमुत्तीर्य ज्ञातीनासाद्य वीर्यवान् ।
सीतादर्शनमावेद्य हनूमांश्चैव पूजितः ॥४७॥
वानरैः सार्धमागत्य हनुमान्मधुवनं महत् ।
निहत्य रक्षपालांस्तु पाययित्वा च तन्मधु ॥४८॥
सर्वे दधिमुखं पात्य हर्षितो हरिभिः सह ।
खमुत्पत्य च सम्प्राप्य रामलक्ष्मणपादयोः ॥४९॥
नत्वा तु हनुमांस्तत्र सुग्रीवं च विशेषतः ।
आदितः सर्वमावेद्य समुद्रतरणादिकम् ॥५०॥
कथयामास रामाय सीता द्रुष्टा मयेति वै ।
अशोकवनिकामध्ये सीता देवी सुदुःखिता ॥५१॥
राक्षसीभिः परिवृत्ता त्वां स्मरन्ती च सर्वदा ।
अश्रुपूर्णमुखी दीना तव पत्नी वरानना ॥५२॥
शीलवृत्तसमायुक्ता तत्रापि जनकात्मजा ।
सर्वत्रान्वेषमाणेन मया दुष्टा पतिव्रता ॥५३॥
मया सम्भाषिता सीता विश्वस्ता रघुनन्दन ।
अलङ्कारश्च सुमणिस्तया ते प्रेषितः प्रभो ॥५४॥
इत्युक्त्वा दत्तवांस्तस्मै चूडामणिमनुत्तमम् ।
इदं च वचनं तुभ्यं पल्या सम्प्रेषितं श्रृणु ॥५५॥
चित्रकूटे मदङ्के तु सुप्ते त्वयि महाव्रत ।
वायसाभिभवं राजंस्तत्किल स्मर्तुमर्हसि ॥५६॥
अल्पापराधे राजेन्द्र त्वया बलिभुजि प्रभो ।
यत्कृतं तन्न कर्तुं च शक्यं देवासुरैरपि ॥५७॥
ब्रह्मास्त्रं तु तदोत्सृष्टं रावणं किं न जेष्यसि ।
इत्येवमादि बहुशः प्रोक्त्वा सीता रुरोद ह ।
एवं तु दुःखिता सीता तां मोक्तुं यत्नमाचर ॥५८॥
इत्येवमुक्ते पवनात्मजेन सीतावचस्तच्छुभभूषणं च ।
श्रुत्वा च दृष्ट्वा च रुरोद रामः कपिं समालिङ्य शनैः प्रतस्थे ॥५९॥
इति श्रीनरसिंहपुराणे रामप्रादुर्भावे एकपञ्चाशत्तमोऽध्यायः ॥५१॥