हारीत उवाच
अत ऊर्ध्वं प्रवक्ष्यामि यतिधर्ममनुत्तमम् ।
श्रद्धया यदनुष्ठाय यतिर्मुच्येत बन्धनात् ॥१॥
एवं वनाश्रमे तिष्ठंस्तपसा दग्धकिल्बिषः ।
चतुर्थमाश्रमं गच्छेत् संन्यस्य विधिना द्विजः ॥२॥
दिव्यं ऋषिभ्यो देवेभ्यः स्वपितृभ्यश्च यत्नतः ।
दत्त्वा श्राद्धमृषिभ्यश्च मनुजेभ्यस्तथाऽऽत्मने ॥३॥
इष्टिं वैश्वानरीं कृत्वा प्राजापत्यमथापि वा ।
अग्निं स्वात्मनि संस्थाप्य मन्त्रवत्पव्रजेत् पुनः ॥४॥
ततः प्रभृति पुत्रादौ सुखलोभादि वर्जयेत् ।
दद्याच्च भूमावुदकं सर्वभूताभयंकरम् ॥५॥
त्रिदण्डं वैणवं सौम्यं सत्वचं समपर्वकम् ।
वेष्टितं कृष्णगोवालरज्ज्वा च चतुरङ्गुलम् ॥६॥
ग्रन्थिभिर्वा त्रिभिर्युक्तं जलपूतं च धारयेत् ।
गृह्णीयाद्दक्षिणे हस्ते मन्त्रेणैव तु मन्त्रवित् ॥७॥
कौपीनाच्छादनं वासः कुथां शीतनिवारिणीम् ।
पादुके चापि गृह्णीयात्कुर्यान्नान्यस्य संग्रहम् ॥८॥
एतानि तस्य लिङ्गानि यतेः प्रोक्तानि धर्मतः ।
संगृह्य कृतसंन्यासो गत्वा तीर्थमनुत्तमम् ॥९॥
स्त्रात्वा ह्याचम्य विधिवज्जलयुक्तांशुकेन वै ।
वारिणा तर्पयित्वा तु मन्त्रवद्भास्करं नमेत् ॥१०॥
आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत् ।
गायत्रीं च यथाशक्ति जप्त्वा ध्यायेत्परं पदम् ॥११॥
स्थित्यर्थमात्मनो नित्यं भिक्षाटनमथाचरेत् ।
सायाह्नकाले विप्राणां गृहाणि विचरेद्यतिः ॥१२॥
स्यादर्थी यावतान्नेन तावद्भैक्षं समाचरेत् ।
ततो निवृत्त्य तत्पात्रमभ्युक्ष्याचम्य संयमी ॥१३॥
सूर्यादिदैवतेभ्यो हि दत्त्वान्नं प्रोक्ष्य वारिणा ।
भुञ्जीत पर्णपुटके पात्रे वा वाग्यतो यतिः ॥१४॥
वटकाश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः ।
कोविदारकरञ्जेषु न भुञ्जीत कदाचन ॥१५॥
भुक्त्वाऽऽचम्य निरुद्धासुरुपतिष्ठेत भास्करम् ।
जपध्यानेतिहासैस्तु दिनशेषं नयेद्यतिः ॥१६॥
पलाशाः सर्व उच्यन्ते यतयः कांस्यभोजिनः ।
कांस्यस्येव तु यत्पात्रं गृहस्थस्य तथैव च ।
कांस्यभोजी यतिः सर्वं प्राप्नुयात्किल्बिषं पुनः ।
भुक्तपात्रे यतिर्नित्यं भक्षयेन्मन्त्रपूर्वकम् ।
न दुष्येत्तस्य तत्पात्रं यज्ञेषु चमसा इव ।
कृतसंध्यस्ततो रात्रिं नयेद्देवगृहादिषु ।
हत्पुण्डरीकनिलये ध्यायन्नारायणं हरिम् ।
तत्पदं समवाप्नोति यत्प्राप्य न निवर्तते ॥१७॥
इति श्रीनरसिंहपुराणे यतिधर्मो नाम षष्टितमोऽध्यायः ॥६०॥