मार्कण्डेय उवाच
अतः परं प्रवक्ष्यामि श्रृणु राजन् समाहितः ।
प्रादुर्भावं हरेः पुण्यं कल्क्याख्यं पापनाशनम् ॥१॥
कलिकालेन राजेन्द्र नष्टे धर्मे महीतले ।
वृद्धिगते तथा पापे व्याधिसम्पीडिते जने ॥२॥
देवैः सम्प्रार्थितो विष्णुः क्षीराब्धौ स्तुतिपूर्वकम् ।
साम्भलाख्ये महाग्रामे नानाजनसमाकुले ॥३॥
नाम्ना विष्णुयशः पुत्रः कल्की राजा भविष्यति ।
अश्वमारुह्य खङ्गेन म्लेच्छानुत्सादयिष्यति ॥४॥
म्लेच्छान् समस्तान् क्षितिनाशभूतान हत्वा स कल्की पुरुषोत्तमांशः ।
कृत्वा च यागं बहुकाञ्चनाख्यं संस्थाप्य धर्मे दिवमारुरोह ॥५॥
दशावताराः कथितास्तवैव हरेर्मया पार्थिव पापहन्तुः ।
इमं सदा यस्तु नृसिंहभक्तः श्रृणोति नित्यं स तु याति विष्णुम् ॥६॥
राजोवाच
तव प्रसादाद्विप्रेन्द्र प्रादुर्भावाः श्रुता मया ।
नारायणस्य देवस्य श्रृण्वतां कल्मषापहाः ॥७॥
कलिं विस्तरतो ब्रूहि त्वं हि सर्वविदां वरः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम ॥८॥
किमाहाराः किमाचारा भविष्यन्ति कलौ युगे ।
सूत उवाच
श्रृणुध्वमृषयः सर्वे भरद्वाजेन संयुताः ॥९॥
सर्वे धर्मा विनश्यन्ति कृष्णे कृष्णत्वमागते ।
तस्मात् कलिर्महाघोरः सर्वपापस्य साधकः ॥१०॥
ब्राह्यणाः क्षत्रिया वैश्याः शूद्रा धर्मपराङ्मुखाः ।
घोरे कलियुगे प्राप्ते द्विजदेवपराङ्मुखा ॥११॥
व्याजधर्मरताः सर्वे दम्भाचारपरायणाः ।
असूयानिरताश्चैव वृथाहंकारदूषिताः ॥१२॥
सर्वैः संक्षिप्यते सत्यं नरैः पण्डितगर्वितैः ।
अहमेवाधिक इति सर्व एव वदन्ति वै ॥१३॥
अधर्मलोलुपाः सर्वे तथान्येषां च निन्दकाः ।
अतः स्वल्पायुषः सर्व भविष्यन्ति कलौ युगे ॥१४॥
अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं द्विजाः ।
विद्याग्रहणशून्यत्वादधर्मो वर्तते पुनः ॥१५॥
ब्राह्मणाद्यास्तथा वर्णाः संकीर्यन्ते परस्परम् ।
कामक्रोधपरा मूढा वृथा संतापपीडिताः ॥१६॥
बद्धवैरा भविष्यन्ति परस्परधेप्सवः ।
ब्राह्मणाः क्षत्रिया वैश्याः सर्वे धर्मपराङ्मुखाः ॥१७॥
शूद्रतुल्या भविष्यन्ति तपः सत्यविवर्जिताः ।
उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा ॥१८॥
राजानो द्रव्यनिरतास्तथा लोभपरायणाः ।
धर्मकञ्चुकसंवीता धर्मविध्वंसकारिणः ॥१९॥
घोरे कलियुगे प्राप्ते सर्वाधर्मसमन्विते ।
यो योऽश्वरथनागाढ्यः स स राजा भविष्यति ॥२०॥
पितृन् पुत्रान् वञ्चयित्वा गमिष्यन्ति स्त्रियोऽन्यतः ॥२१॥
पुरुषाल्पं बहुस्त्रीकं श्वबाहुल्यं गवां क्षयः ।
धनानि श्लाघनीयानि सतां वृत्तमपूजितम् ।
खण्डवर्षी च पर्जन्यः पन्थानस्तस्करावृताः ।
सर्वः सर्वं च जानाति वृद्धाननुपसेव्य च ॥२२॥
न कश्चिदकविर्नाम सुरापा ब्रह्मवादिनः ।
किंकराश्च भविष्यन्ति शूद्राणां च द्विजातयः ॥२३॥
द्विषन्ति पितरं पुत्रा गुरुं शिष्या द्विषन्ति च ।
पति च वनिता द्वेष्टि कलौ घोरे समागते ॥२४॥
लोभाभिभूतमनसः सर्वे दुष्कर्मशीलिनः ।
परान्नलोलुपा नित्यं भविष्यन्ति द्विजातयः ॥२५॥
परस्त्रीनिरताः सर्वे परद्रव्यपरायणाः ।
घोरे कलियुगे प्राप्ते नरं धर्मपरायणम् ॥२६॥
असूयानिरताः सर्व उपहासं प्रकुर्वते ।
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः ॥२७॥
न यक्ष्यन्ति न होष्यन्ति हेतुवादैर्विकुत्सिताः ।
द्विजाः कुर्वन्ति दम्भार्थं पितृयज्ञादिकाः क्रियाः ॥२८॥
न पात्रेष्वेव दानानि कुर्वन्ति च नरास्तथा ।
क्षीरोपाधिनिमित्तेन गोषु प्रीतिं प्रकुर्वते ॥२९॥
बध्नन्ति च द्विजानेव धनार्थं राजकिंकराः ।
दानयज्ञजपादीनां विक्रीणन्ते फलं द्विजाः ॥३०॥
प्रतिग्रहं प्रकुर्वन्ति चण्डालादेरपि द्विजाः ।
कलेः प्रथमपादेऽपि विनिन्दन्ति हरिं नराः ॥३१॥
युगान्ते च हरेर्नाम नैव कश्चित् स्मरिष्यति ।
शूद्रस्त्रीसङ्गनिरता विधवासंगलोलुपाः ॥३२॥
शूद्रान्नभोगनिरत भविष्यन्ति कलौ द्विजाः ।
न च द्विजातिशुश्रूषां न स्वधर्मप्रवर्त्तनम् ॥३३॥
करिष्यन्ति तदा शूद्राः प्रव्रज्यालिङ्गिनोऽधमाः ।
सुखाय परिवीताश्च जटिला भस्मधूर्धराः ॥३४॥
शूद्रा धर्मान् प्रवक्ष्यन्ति कूटबुद्धिविशारदाः ।
एते चान्ये च बहवः पाषण्डा विप्रसत्तमाः ॥३५॥
ब्राह्मणाः क्षत्रिया वैश्या भविष्यन्ति कलौ युगे ।
गीतवाद्यरता विप्रा वेदवादपराङ्मुखाः ॥३६॥
भविष्यन्ति कलौ प्राप्ते शूद्रमार्गप्रवर्तिनः ।
अल्पद्रव्या वृथालिङ्गा वृथाहंकारदूषिताः ॥३७॥
हर्तारो न च दातारो भविष्यन्ति कलौ युगे ।
प्रतिग्रहपरा नित्यं द्विजाः सन्मार्गशीलिनः ॥३८॥
आत्मस्तुतिपराः सर्वे परनिन्दापरास्तथा ।
विश्वासहीनाः पुरुषा देववेदद्विजातिषु ॥३९॥
असंश्रुतोक्तिवक्तारो द्विजद्वेषरतास्तथा ।
स्वधर्मत्यागिनः सर्वे कृतघ्ना भिन्नवृत्तयः ॥४०॥
याचकाः पिशुनाश्चैव भविष्यन्ति कलौ युगे ।
परापवादनिरता आत्मस्तुतिपरायणाः ॥४१॥
परस्वरहणोपायचिन्तकाः सर्वदा जनाः ।
अत्याह्वादपरास्त्र भुञ्जानाः परवेश्मनि ॥४२॥
तस्मिन्नेव दिने प्रायो देवतार्चनतत्पराः ।
तत्रैव निन्दानिरता भुक्त्वा चैकत्र संस्थिताः ॥४३॥
द्विजाश्च क्षत्रिया वैश्याः शूद्राश्चान्ये च जातयः ।
अत्यन्तकामिनश्चैव संकीर्यन्ते परस्परम् ॥४४॥
न शिष्यो न गुरुः कश्चिन्न पुत्रो न पिता तथा ।
न भार्या न पतिश्चैव भविता तत्र संकरे ॥४५॥
शूद्रवृत्त्यैव जीवन्ति द्विजा नरकभोगिनः ।
अनावृष्टिभयप्राया गगनासक्तदृष्टयः ॥४६॥
भविष्यन्ति जनाः सर्वे तदा क्षुद्भयकातराः ।
अन्नोपाधिनिमित्तेन शिष्यान् गृह्णन्ति भिक्षवः ॥४७॥
उभाभ्यामपि पाणिभ्यां शिरः कण्डूयनं स्त्रियः ।
कुर्वन्त्यो गुरुभर्तृणामाज्ञा भेत्स्यन्ति ता हिताः ॥४८॥
यदा यदा न यक्ष्यन्ति न होष्यन्ति द्विजातयः ।
तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥४९॥
सर्वधर्मेषु नष्टेषु याति निः श्रीकतां जगत् ।
सूत उवाच
एवं कलेः स्वरुपं तत्कथितं विप्रसत्तमाः ॥५०॥
हरिभक्तिपरानेव न कलिर्बाधते द्विजाः ।
तपः परं कृतयुगे त्रेतायां ध्यानमेव हि ॥५१॥
द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ।
यतते दशभिर्वर्षैस्त्रेतायां हायनेन तत् ॥५२॥
द्वापरे तच्च मासेन अहोरात्रेण तत्कलौ ।
ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ॥५३॥
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ।
समस्तजगदाधारं परमार्थस्वरुपिणम् ॥५४॥
घोरे कलियुगे प्राप्ते विष्णुं ध्यायन् न सीदति ।
अहोऽतीव महाभाग्याः सकृद्ये केशवार्चकाः ॥५५॥
घोरे कलियुगे प्राप्ते सर्वकर्मबहिष्कृते ।
न्यूनातिरिक्तता न स्यात्कलौ वेदोक्तकर्मणाम् ॥५६॥
हरिस्मरणमेवात्र सम्पूर्णफलदायकम् ।
हरे केशव गोविन्द वासुदेव जगन्मय ॥५७॥
जनार्दन जगद्धाम पीताम्बरधराच्युत ।
इतीरयन्ति ये नित्यं न हि तान् बाधते कलिः ॥५८॥
अहो हरिपरा ये तु कलौ सर्वभयंकरे ।
ते सभाग्या महात्मानस्तत्संगतिरता अपि ॥५९॥
हरिनामपरा ये च हरिकीर्तनतत्पराः ।
हरिपूजारता ये च ते कृतार्था न संशयः ॥६०॥
इत्येतद्वः समाख्यातं सर्वदुःखनिवारणम् ।
समस्तपुण्यफलदं कलौ विष्णोः प्रकीर्तनम् ॥६१॥
इति श्रीनरसिंहपुराणे कलिलक्षणकीर्तनं नाम चतुः पञ्चाशोऽध्यायः ॥५४॥