श्रीसूत उवाच
इक्ष्वाकोर्विकुक्षिनामपुत्रः ।
स तु सिद्धे पितरि महर्षिभिरभिषिक्तो धर्मेण पृथिवीं पालयन् विमानस्थमनन्तभोगशायिनमच्युतमाराध्य
यागैरपि देवानिष्ट्वा स्वपुत्रं राजे सुबाहुमभिषिच्य दिवमारुरोह ।
सुबाहोर्भ्राजमानादुद्योतोऽभिगीयते ।
स तु सप्तद्वीपां पृथ्वी धर्मेण पालयित्वा भक्तिं परां नारायणे पितामहवत् कृत्वा क्रतुभिर्भूरिदक्षिणैर्यज्ञेश्वरं
निष्कामेन मनसेष्ट्वा नित्यं निरञ्जनं निर्विकल्पं परं
ज्योतिरमृताक्षरं परमात्मरुपं ध्यात्वा हरिमनन्तं च परमाराध्य स्वर्गलोकं गतः ॥१॥
तस्य युवनाश्वो युवनाश्वस्य च मांधाता पुत्रोऽभवत् ।
स चाभिषिक्तो महर्षिभिर्निसर्गादेव विष्णुभक्तोऽनन्तशयनमच्युतं भक्त्याऽऽराधयन्
यागैश्च विविधैरिष्ट्वा सप्तद्वीपवतीं पृथिवीं परिपाल्य दिवं गतः ॥२॥
यस्यैष श्लोको गीयते ।
यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।
सर्वं तद्यौवनाश्वस्य मांधातुः क्षेत्रमुच्यते ॥३॥
तस्य पुरुकुश्योऽभवद् येन देवा ब्राह्मणाश्च यागदानैः संतुष्टाः ॥४॥
पुरुकुश्याद् दृषदो दृषदादभिशम्भुः । अभिशम्भोर्दारुणो दारुणात्सगरः ॥५॥
सगराद्धर्यश्वो हर्यश्वाद्धरितो हारीताद्रोहिताश्वः । रोहिताश्वादंशुमान् ॥६॥
अंशुमतो भगीरथः । येन महता तपसा पुरा दिवो गङ्गा अशेषकल्मषनाशिनी चतुर्विधपुरुषार्थदायिनी भुवमानीता ।
अस्थिशर्कराभूताः कपिलमहर्षिनिर्दग्धाश्च गुरवः सगराख्या गङ्गातोयसंस्पृष्टा दिवमारोपिताः । भगीरथात् सौदासः सौदासात् सत्रसवः ॥७॥
सत्रसवादनरण्योऽनरण्याद्दीर्घबाहुः ॥८॥
दीर्घबाहोरजोऽजाद्दशरथः । तस्य गृहे रावणविनाशार्थं साक्षान्नारायणोऽवतीर्णो रामः ॥९॥
स तु पितृवचनाद भ्रातृभार्यासहितो दण्डकारण्यं प्राप्य तपश्चचार ।
वने रावणापहतभार्यो भ्रात्रा सह दुःखितोऽनेककोटिवानरनायक सुग्रीवसहायो मदोदधौ
सेतुं निबध्य तैर्गत्वा लङ्कां रावणं देवकण्टकं सबान्धवं हत्वा सीतामादाय पुनरयोध्यां
प्राप्य भरताभिषिक्तो विभीषणाय लङ्काराज्यं विमानं वा दत्त्वा तं प्रेषयामास ।
स तु परमेश्वरो विमानस्थो विभीषणेन नीयमानो लङ्कायामपि राक्षसपुर्यां वस्तुमनिच्छन् पुण्यारण्यं तत्र स्थापितवान् ॥१०॥
तन्निरीक्ष्य तत्रैव महाहिभोगशयने भगवान् शेते । सोऽपि विभीषणस्ततस्तद्विमानं नेतुमसमर्थः, तद्वचनात् स्वां पुरीं जगाम ॥११॥
नारायणसंनिधानान्महद्वैष्णवं क्षेत्रमभवदद्यापि दृश्यते । रामाल्लवो लवात्पद्यः पद्मादृतुपर्ण ऋतुपर्णादस्त्रपाणिः ।
अस्त्रपाणेः शुद्धोदनः शुद्धोदनाद्वुधः । बुधाद्वंशो निवर्तते ॥१२॥
एते महीपा रविवंशजास्तव प्राधान्यतस्ते कथिता महाबलाः ।
पुरातनैर्यैर्वसुधा प्रपालिता यज्ञक्रियाभिश्च दिवौकसैर्नृपैः ॥१३॥
इति श्रीनरसिंहपुराणे सूर्यवंशानुचरितं नाम षडविंशोऽध्यायः ॥२६॥