श्रीसूत उवाच
अतः परं प्रवक्ष्यामि वंशानुचरितं शुभम् ।
श्रृण्वतामपि पापघ्नं सूर्यसोमनृपात्मकम् ॥१॥
सूर्यवंशोद्भवो यो वै मनुपुत्रः पुरोदितः ।
इक्ष्वाकुर्नाम भूपालश्चरितं तस्य मे श्रृणु ॥२॥
आसीद् भूमौ महाभाग पुरी दिव्या सुशोभना ।
सरयूतीरमासाद्य अयोध्या नाम नामतः ॥३॥
अमरावत्यतिशया त्रिंशद्योजनजालिनी ।
हस्त्यश्वरथपत्त्योघैर्द्रुमैः कल्पद्रुमप्रभैः ॥४॥
प्राकाराट्टप्रतोलीभिस्तोरणैः काञ्चनप्रभैः ।
विराजमाना सर्वत्र सुविभक्तचतुष्पथा ॥५॥
अनेकभूमिप्रासादा बहुभाण्डसुविक्रया ।
पद्मोत्पलशुभैस्तोयैर्वापीभिरुपशोभिता ॥६॥
देवतायतनैर्दिव्यैर्वेदघोषैश्च शोभिता ।
वीणावेणुमृदङ्गैश्च शब्दैरुत्कृष्टकैर्युता ॥७॥
शालैस्तालैर्नालिकेरैः पनसामलजम्बुकैः ।
तथैवाम्रकपित्थाद्यैरशोकैरुपशोभिता ॥८॥
आरामैर्विविधैर्युक्ता सर्वत्र फलपादपैः ।
मल्लिकामालतीजातिपाटलानागचम्पकैः ॥९॥
करवीरैः कर्णिकारैः केतकीभिरलङ्कृता ।
कदलीलवलीजातिमातुलुङ्गमहाफलैः ।
क्वचिच्चन्दनगन्धाद्यैर्नारङ्गैश्च सुशोभिता ॥१०॥
नित्योत्सवप्रमुदिता गीतवाद्यविचक्षणैः ।
नरनारीभिराढ्याभी रुपद्रविणप्रेक्षणैः ॥११॥
नानाजनपदाकीर्णा पताकाध्वजशोभिता ।
देवतुल्यप्रभायुक्तैर्नृपपुत्रैश्च संयुता ॥१२॥
सुरुपाभिर्वरस्त्रीभिर्देवस्त्रीभिरिवावृता ।
विप्रैः सत्कविभिर्युक्ता बृहस्पतिसमप्रभैः ॥१३॥
वणिग्जनैस्तथा पौरैः कल्पवृक्षवरैर्युता ।
अश्वैरुच्चैः श्रवस्तुल्यैर्दन्तिभिर्दिग्गजैरिव ॥१४॥
इति नानाविधैर्भावैरयोध्येन्द्रपुरीसमा ।
तां दृष्ट्वा नारदः श्लोकं सभामध्ये पुरोक्तवान् ॥१५॥
स्वर्गं वै सृजमानस्य व्यर्थं स्यात् पद्मजन्मनः ।
जातायोध्याधिका स्वर्गात कामभोगसमन्विता ॥१६॥
तामावसदयोध्यां तु स्वाभिषिक्तो महीपतिः ।
जितवान् सर्वभूपालान् धर्मेण स महाबलः ॥१७॥
माणिक्यमुकुटैर्युक्तै राजभिर्मण्डलाधिपैः ।
नमद्भिर्भक्तिभीतिभ्यां पादौ तस्य किणीकृतौ ॥१८॥
इक्ष्वाकुरक्षतबलः सर्वशास्त्रविशारदः ।
तेजसेन्द्रेण सदृशो मनोः सूनुः प्रतापवान् ॥१९॥
धर्मतो न्यायतश्चैव वेदज्ञैर्ब्राह्मणैर्युतः ।
पालयामास धर्मात्मा आसमुद्रां महीमिमाम् ॥२०॥
अस्त्रैर्जिगाय सकलान् संयुगे भूपतीन् बली ।
अवजित्य सुतीक्ष्णैस्तु तन्मण्डलमथाहरत् ॥२१॥
जितवान् परलोकांश्च क्रतुभिर्भूरिदक्षिणैः ।
दानैश्च विविधैर्ब्रह्मन् राजेक्ष्वाकुः प्रतापवान् ॥२२॥
बाहुद्वयेन वसुधां जिह्वाग्रेण सरस्वतीम् ।
बभार पद्मामुरसा भक्तिं चित्तेन माधवे ॥२३॥
संतिष्ठतो हरे रुपमुपविष्टं च माधवम् ।
शयानमप्यनन्तं तु कारयित्वा पटेऽमलम् ॥२४॥
त्रिकालं त्रयमाराध्य रुपं विष्णोर्महात्मनः ।
गन्धपुष्पादिभिर्नित्यं रेमे दृष्ट्वा पटे हरिम् ॥२५॥
कृष्णं तं कृष्णमेघाभं भुजगेन्द्रनिवासिनम् ।
पद्माक्षं पीतवासं च स्वप्नेष्वपि स दृष्टवान् ॥२६॥
चकार मेघे तद्वर्णे बहुमानमतिं नृपः ।
पक्षपातं च तन्नाम्नि मृगे पद्मे च तादृशे ॥२७॥
दिव्याकृतिं हरेः साक्षाद् द्रष्टुं तस्य महीभृतः ।
अतीव तृष्णा संजाता अपूर्वै हि सत्तम ॥२८॥
तृष्णायां तु प्रवृद्धायां मनसैव हि पार्थिवः ।
चिन्तयामास मतिमान् राज्यभोगमसारवत् ॥२९॥
वेश्मदारसुतक्षेत्रं संन्यस्तं येन दुःखदम् ।
वैराग्यज्ञानपूर्वेण लोकेऽस्मिन् नास्ति तत्समः ॥३०॥
इत्येवं चिन्तयित्वा तु तपस्यासक्तचेतनः ।
वसिष्ठं परिपप्रच्छ तत्रोपायं पुरोहितम् ॥३१॥
तपोबलेन देवेशं नारायणमजं मुने ।
द्रष्टुमिच्छाम्यहं तत्र उपायं तं वदस्व मे ॥३२॥
इत्युक्तः प्राह राजानं तपस्यासक्तमानसम् ।
वसिष्ठः सर्वधर्मज्ञः सदा तस्य हिते रतः ॥३३॥
यदीच्छसि महाराज द्रष्टुं नारायणं परम् ।
तपसा सुकृतेनेह आराधय जनार्दनम् ॥३४॥
केनाप्यप्ततपसा देवदेवो जनार्दनः ।
द्रष्टुं न शक्यते जातु तस्मात् तं तपसार्चय ॥३५॥
पूर्वदक्षिणदिग्भागे सरयूतीरगे नृप ।
गालवप्रमुखानां च ऋषीणामस्ति चाश्रमः ॥३६॥
पञ्चयोजनमध्वानं स्थानमस्मात्तु पावनम् ।
नानाद्रुमलताकीर्णं नानापुष्पसमाकुलम् ॥३७॥
स्वमन्त्रिणि महाप्राज्ञे नीतिमत्यर्जुने नृप ।
स्वराज्यभारं विन्यस्य कर्मकाण्डमपि द्विज ॥३८॥
स्तुत्वाऽऽराध्य गणाध्यक्षमितो व्रज विनायकम् ।
तपः सिद्ध्यर्थमन्विच्छंस्तस्मात् तत्र तपः कुरु ॥३९॥
तापसं वेषमास्थाय शाकमूलफलाशनः ।
ध्यायन् नारायणं देवमिमं मन्त्रं सदा जप ॥४०॥
ॐ नमो भगवते वासुदेवाय ।
एष सिद्धिकरो मन्त्रो द्वादशाक्षरसंज्ञितः ।
जप्त्वैनं मुनयः सिद्धिं परां प्राप्ताः पुरातनाः ॥४१॥
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥४२॥
बाह्येन्द्रियं हदि स्थाप्य मनः सूक्ष्मे परात्मनि ।
नृप संजय तन्मन्त्रं द्रष्टव्यो मधुसूदनः ॥४३॥
इति ते कथितोपायो हरिप्राप्तेस्तपः कृतौ ।
पृच्छतः साम्प्रतं भूयो यदीच्छसि कुरुष्व तत् ॥४४॥
इत्येवमुक्तो मुनिना स राजा राज्यं भुवो मन्त्रिवरे समर्प्य ।
स्तुत्वा गणेशं सुमनोभिरर्च्य गतः पुरान् स्वात् तपसे धृतात्मा ॥४५॥
इति श्रीनरसिंहपुराणे इक्ष्वाकुचरित्रे चतुर्विशोऽध्यायः ॥२४॥