मार्कण्डेय उवाच
श्रुणु राजन् प्रवक्ष्यामि प्रादुर्भावं हरेः शुभम् ।
निहतो रावणो येन सगणो देवकण्टकः ॥१॥
ब्रह्मणो मानसः पुत्रः पुनस्त्योऽभून्महामुनिः ।
तस्य वै विश्रवा नाम पुत्रोऽभूत्तस्य राक्षसः ॥२॥
तस्माज्जातो महावीरो रावणो लोकरावणः ।
तपसा महता युक्तः स तु लोकानुपाद्रवत् ॥३॥
सेन्द्रा देवा जितास्तेन गन्धर्वाः किंनरास्तथा ।
यक्षाश्च दानवाश्चैव तेन राजन् विनिर्जिताः ॥४॥
स्त्रियश्चैव सुरुपिण्यो हतास्तेन दुरात्मना ।
देवादीनां नृपश्रेष्ठ रत्नानि विविधानि च ॥५॥
रणे कुबेरं निर्जित्य रावणो बलदर्पितः ।
तत्पुरीं जगृहे लङ्कां विमानं चापि पुष्पकम् ॥६॥
तस्यां पुर्यां दशग्रीवो रक्षसामधिपोऽभवत् ।
पुत्राश्च बहवस्तस्य बभूवुरमितौजसः ॥७॥
राक्षसाश्च तमाश्रित्य महाबलपराक्रमाः ।
अनेककोटयो राजन् लङ्कायां निवसन्ति ये ॥८॥
देवान् पितृन मनुष्यांश्च विद्याधरगणानपि ।
यक्षांश्चैव ततः सर्वे घातयन्ति दिवाशिनम् ॥९॥
संत्रस्तं तद्भयादेव जगदासीच्चराचरम् ।
दुःखाभिभूतमत्त्यर्थं सम्बभूव नराधिप ॥१०॥
एतस्मिन्ने व काले तु देवाः सेन्द्रा महर्षयः ।
सिद्धा विद्याधराश्चैव गन्धर्वाः किंनरास्तथा ॥११॥
गुह्यका भुजगा यक्षा ये चान्ये स्वर्गवासिनः ।
ब्रह्माणमग्रतः कृत्वा शङ्करं च नराधिप ॥१२॥
ते ययुर्हतविक्रान्ताः क्षीराब्धेस्तटमुत्तमम् ।
तत्राराध्य हरिं देवतास्तस्थुः प्राञ्जलयस्तदा ॥१३॥
ब्रह्मा च विष्णुमाराध्य गन्धपुष्पादिभिः शुभैः ।
प्राञ्जलिः प्रणतो भूत्वा वासुदेवमथास्तुवत् ॥१४॥
ब्रह्मोवाच
नमः क्षीराब्धिवासाय नागपर्यङ्कशायिने ।
नमः श्रीकरसंस्पृष्टदिव्यपादाय विष्णवे ॥१५॥
नमस्ते योगनिद्राय योगान्तर्भाविताय च ।
तार्क्ष्यासनाय देवाय गोविन्दाय नमो नमः ॥१६॥
नमः क्षीराब्धिकल्लोलस्पृष्टमात्राय शार्ङ्गिणे ।
नमोऽरविन्दपादाय पद्मनाभाय विष्णवे ॥१७॥
भक्तार्चितसुपादाय नमो योगाप्रियाय वै ।
शुभाङ्गाय सुनेत्राय माधवाय नमो नमः ॥१८॥
सुकेशाय सुनेत्राय सुललाटाय चक्रिणे ।
सुवक्त्राय सुकर्णाय श्रीधराय नमो नमः ॥१९॥
सुवक्षसे सुनाभाय पद्मनाभाय वै नमः ।
सुभ्रुवे चारुदेहाय चारुदन्ताय शार्ङ्गिणे ॥२०॥
चारुजङ्घाय दिव्याय केशवाय नमो नमः ।
सुनखाय सुशान्ताय सुविद्याय गदाभृते ॥२१॥
धर्माप्रियाय देवाय वामनाय नमो नमः ।
असुरघ्नाय चोग्राय रक्षोघ्नाय नमो नमः ॥२२॥
देवानामार्तिनाशाय भीमर्ककृते नमः ।
नमस्ते लोकनाथाय रावणान्तकृते नमः ॥२३॥
मार्कण्डेय उवाच
इति स्तुतो हषीकेशस्तुतोष परमेष्ठिना ।
स्वरुपं दर्शयित्वा तु पितामहमुवाच ह ॥२४॥
किमर्थं तु सुरैः सार्धमागतस्त्वं पितामह ।
यत्कार्य ब्रूहि मे ब्रह्मन् यदर्थं संस्तुतस्त्वया ॥२५॥
इत्युक्तो देवदेवेन विष्णुना प्रभविष्णुना ।
सर्वदेवगणैः सार्धं ब्रह्मा प्राह जनार्दनम् ॥२६॥
ब्रह्मोवाच
नाशितं तु जगत्सर्वं रावणेन दुरात्मना ।
सेन्द्राः पराजितास्तेन बहुशो रक्षसा विभो ॥२७॥
राक्षसैर्भक्षिता मर्त्या यज्ञाश्चापि विदूषिताः ।
देवकन्या हतास्तेन बलाच्छतसहस्त्रशः ॥२८॥
त्वामृते पुण्डरीकाक्ष रावणस्य वधं प्रति ।
न समर्था यतो देवास्त्वमतस्तद्वधं कुरु ॥२९॥
इत्युक्तो ब्रह्मणा विष्णुर्ब्रह्माणमिदमब्रवीत् ।
श्रृणुष्वावहितो ब्रह्मन् यद्वदामि हितं वचः ॥३०॥
सूर्यवंशोद्भवः श्रीमान् राजाऽऽसीद्भुवि वीर्यवान् ।
नाम्ना दशरथख्यातस्तस्य पुत्रो भवाम्यहम् ॥३१॥
रावणस्य वधार्थाय चतुर्धांशेन सत्तम ।
स्वांशैर्वानररुपेण सकला देवतागणाः ॥३२॥
वतार्यन्तां विश्वकर्तः स्यादेवं रावणक्षयः ।
इत्युक्तो देवदेवेन ब्रह्मा लोकपितामहः ॥३३॥
देवाश्च ते प्रणम्याथ मेरुपृष्ठं तदा ययुः ।
स्वांशैर्वानररुपेण अवतेरुश्च भूतले ॥३४॥
अथापुत्रो दशरथो मुनिभिर्वेदपारगैः ।
इष्टिं तु कारयामास पुत्रप्राप्तिकरी नृपः ॥३५॥
ततः सौवर्णपात्रस्थं हविरादाय पायसम् ।
वह्निः कुण्डात् समुत्तस्थौ नूनं देवेन नोदितः ॥३६॥
आदाय मुनयो मन्त्राच्चक्रुः पिण्डद्वयं शुभम् ।
दत्ते कौशल्यकैकेय्योर्द्वे पिण्डे मन्त्रमन्त्रिते ॥३७॥
ते पिण्डप्राशने काले सुमित्राया महामते ।
पिण्डाभ्यामल्पमल्पं तु सुभागिन्याः प्रयच्छतः ॥३८॥
ततस्ताः प्राशयामासू राजपत्न्यो यथाविधि ।
पिण्डान् देवकृतान् प्राश्य प्रापुर्गर्भाननिन्दितान् ॥३९॥
एवं विष्णुर्दशरथाज्जातस्तत्पत्निषु त्रिषु ।
स्वांशैर्लोकहितायैव चतुर्धा जगतीपते ॥४०॥
रामश्च लक्ष्मणश्चैव भरतः शत्रुघ्न एव च ।
जातकर्मादिकं प्राप्य संस्कारं मुनिसंस्कृतम् ॥४१॥
मन्त्रपिण्डवशाद्योगं प्राप्य चेरुर्यथार्भकाः ।
रामश्च लक्ष्मणश्चैव सह नित्यं विचेरतुः ॥४२॥
जन्मादिकृतसंस्कारौ पितुः प्रीतिकरौ नृप ।
ववृधाते महावीर्यौ श्रुतिशब्दातिलक्षणौ ॥४३॥
भरतः कैकयो राजन् भ्रात्रा सह गृहेऽवसत् ।
वेदशास्त्राणि बुबुधे शस्त्रशास्त्रं नृपोत्तम ॥४४॥
एतस्मिन्नेव काले तु विश्वामित्रो महातपाः ।
यागेन यष्टुमारेभे विधिना मधुसूदनम् ॥४५॥
स तु विघ्नेन यागोऽभूद्राक्षसैर्बहुशः पुरा ।
नेतुं स यागरक्षार्थं सम्प्रातो रामलक्ष्मणौ ॥४६॥
विश्वामित्रो नृपश्रेष्ठ तत्पितुर्मन्दिरं शुभम् ।
दशरथस्तु तं दृष्ट्वा प्रत्युत्थाय महामतिः ॥४७॥
अर्घ्यपाद्यादि विधिना विश्वामित्रमपूजयत् ।
स पूजितो मुनिः प्राह राजानं राजसंनिधौ ॥४८॥
श्रृणु राजन् दशरथ यदर्थमहमागतः ।
तत्कार्यं नृपशार्दूल कथयामि तवाग्रतः ॥४९॥
राक्षसैर्नाशितो यागो बहुशो मे दुरासदैः ।
यज्ञस्य रक्षणार्थं मे देहि त्वं रामक्ष्मणौ ॥५०॥
राजा दशरथः श्रुत्वा विश्वामित्रवचो नृप ।
विषण्णवदनो भूत्वा विश्वामित्रमुवाच ह ॥५१॥
बालाभ्यां मम पुत्राभ्यां किं ते कार्यं भविष्यति ।
अहं त्वया सहागत्य शक्त्या रक्षामि ते मखम् ॥५२॥
राज्ञस्तु वचनं श्रुत्वा राजानं मुनिरब्रवीत् ।
रामोऽपि शक्नुते नूनं सर्वान्नशयितुं नृप ॥५३॥
रामेणैव हि ते शक्या न त्वया राक्षसा नृप ।
अतो मे देहि रामं च न चिन्तां कर्तुमर्हसि ॥५४॥
इत्युक्तो मुनिना तेन विश्वामित्रेण धीमता ।
तूष्णीं स्थित्वा क्षणं राजा मुनिवर्यमुवाच ह ॥५५॥
यद्ववीमि मुनिश्रेष्ठ प्रसन्नस्त्वं निबोध मे ।
राजीवलोचनं राममहं दास्ये सहानुजम् ॥५६॥
किं त्वस्य जननी ब्रह्मन् अदृष्टैनं मरिष्यति ।
अतोऽहं चतुरङ्गेण बलेन सहितो मुने ॥५७॥
आगत्य राक्षसान् हन्मीत्येबं मे मनसि स्थितम् ।
विश्वामित्रः पुनः प्राह राजानममितौजसम् ॥५८॥
नाज्ञो रामो नृपश्रेष्ठ स सर्वज्ञः समः क्षमः ।
शेषनारायणावेतौ तव पुत्रौ न संशयः ॥५९॥
दुष्टानां निग्रहार्थाय शिष्टानां पालनाय च ।
अवतीर्णो न संदेहो गृहे तव नराधिप ॥६०॥
न मात्रा न त्वया राजन् शोकः कार्योऽत्र चाण्वपि ।
निः क्षेपे च महाराज अर्पयिष्यामि ते सुतौ ॥६१॥
इत्युक्तो दशरथस्तेन विश्वामित्रेण धीमता ।
तच्छापभीतो मनसा नीयतामित्यभाषत् ॥६२॥
कृच्छ्रात्पित्रा विनिर्मुक्तं राममादाय सानुजम् ।
ततः सिद्धाश्रमं राजन् सम्प्रतस्थे स कौशिकः ॥६३॥
तं प्रस्थितमथालोक्य राजा दशरथस्तदा ।
अनुव्रज्याब्रवीदेतद् वचो दशरथस्तदा ॥६४॥
अपुत्रोऽहं पुरा ब्रह्मन् बहुभिः काम्यकर्मभिः ।
मुनिप्रसादादधुना पुत्रवानस्मि सत्तम ॥६५॥
मनसा तद्वियोगं तु न शक्ष्यामि विशेषतः ।
त्वमेव जानासि मुने नीत्वा शीघ्रं प्रयच्छ मे ॥६६॥
इत्येवमुक्तो राजानं विश्वामित्रोऽब्रवीत्पुनः ।
समाप्तयज्ञश्च पुनर्नेष्ये रामं च लक्ष्मणम् ॥६७॥
सत्यपूर्वं तु दास्यामि न चिन्तां कर्तुमर्हसि ।
इत्युक्तः प्रेषयामास रामं लक्ष्मणसंयुतम् ॥६८॥
अनिच्छन्नपि राजासौ मुनिशापभयान्नृपः ।
विश्वामित्रस्तु तौ गृह्य अयोध्याया ययौ शनैः ॥६९॥
सरय्वास्तीरमासाद्य गच्छन्नेव स कौशिकः ।
तयोः प्रीत्या स राजेन्द्र द्वे विद्ये प्रथमं ददौ ॥७०॥
बलामतिबलां चैव समन्त्रे च ससंग्रहे ।
क्षुत्पिपासापनयने पुनश्चैव महामतिः ॥७१॥
अस्त्रग्राममशेषं तु शिक्षयित्वा तु तौ तदा ।
आश्रमाणि च दिव्यानि मुनीनां भावितात्मनाम् ॥७२॥
दर्शयित्वा उषित्वा च पुण्यस्थानेषु सत्तमः ।
गङ्गामुत्तीर्य शोणस्य तीरमासाद्य पश्चिमम् ॥७३॥
मुनिधार्मिकसिद्धांश्च पश्यन्तौ रामलक्ष्मणौ ।
ऋषिभ्यश्च वरान् प्राप्य तेन नीतौ नृपात्मजौ ॥७४॥
ताटकाया वनं घोरं मृत्योर्मुखमिवापरम् ।
गते तत्र नृपश्रेष्ठ विश्वामित्रो महातपाः ॥७५॥
राममक्लिष्टकर्माणमिदं वचनमब्रवीत् ।
राम राम महाबाहो ताटका नाम राक्षसी ॥७६॥
रावणस्य नियोगेन वसत्यस्मिन् महावने ।
तया मनुष्या बहवो मुनिपुत्रा मृगास्तथा ॥७७॥
निहता भक्षिताश्चैव तस्मात्तां वध सत्तम ।
इत्येवमुक्तो मुनिना रामस्तं मुनिमब्रवीत् ॥७८॥
कथं हि स्त्रीवधं कुर्यामहमद्य महामुने ।
स्त्रीवधे तु महापापं प्रवदन्ति मनीषिणः ॥७९॥
इति रामवचः श्रुत्वा विश्वामित्र उवाच तम् ।
तस्यास्तु निधनाद्राम जनाः सर्वे निराकुलाः ॥८०॥
भवन्ति सततं तस्मात् तस्याः पुण्यप्रदो वधः ।
इत्येवं वादिनि मुनौ विश्वामित्रे निशाचरी ॥८१॥
आगता सुमहाघोरा ताटका विवृतानना ।
मुनिना प्रेरितो रामस्तां दृष्ट्वा विवृतानना ।
मुनिना प्रेरितो रामस्तां दृष्ट्वा विवृताननाम् ॥८२॥
उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् ।
तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥८३॥
शरं संधाय वेगेन तेन तस्या उरः स्थलम् ।
विपाटितं द्विधा राजन् सा पपात ममार च ॥८४॥
घातयित्वा तु तामेवं तावानीय मुनिस्तु तौ ।
प्रापयामास तं तत्र नानाऋषिनिषेवितम् ॥८५॥
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ।
नानानिर्झरतोयाढ्यं विन्ध्यशैलान्तरस्थितम् ॥८६॥
शकमूलफलोपेतं दिव्यं सिद्धाश्रमं स्वकम् ।
रक्षार्थं तावुभौ स्थाप्य शिक्षयित्वा विशेषतः ॥८७॥
ततश्चारब्धवान् यागं विश्वामित्रो महातपाः ।
दीक्षां प्रविष्टे च मुनौ विश्वामित्रे महात्मनि ॥८८॥
यज्ञे तु वितते तत्र कर्म कुर्वन्ति ऋत्विजः ।
मारीचश्च सुबाहुश्च बहवश्चान्यराक्षसाः ॥८९॥
आगता यागनाशाय रावणेन नियोजिताः ।
तानागतान् स विज्ञाय रामः कमललोचनः ॥९०॥
शरेण पातयामास सुबाहुं धरणीतले ।
असृक्प्रवाहं वर्षन्तं मारीचं भल्लकेन तु ॥९१॥
प्रताङ्य नीतवानब्धिं यथा पर्णं तु वायुना ।
शेषांस्तु हतवान् रामो लक्ष्मणश्च निशाचरान् ॥९२॥
रामेण रक्षितमखो विश्वामित्रो महायशाः ।
समाप्य यागं विधिवत् पूजयामास ऋत्विजान् ॥९३॥
सदस्यानपि सम्पूज्य यथार्हं च ह्यरिंदम ।
रामं च लक्ष्मणं चैव पूजयामास भक्तितः ॥९४॥
ततो देवगणस्तुष्टो यज्ञभागेन सत्तम ।
ववर्ष पुष्पवर्षं तु रामदेवस्य मूर्धनि ॥९५॥
निवार्य राक्षसभयं कारयित्वा तु तन्मखम् ।
श्रुत्वा नानाकथाः पुण्या रामो भ्रातृसमन्वितः ॥९६॥
तेन नीतो विनीतात्मा अहल्या यत्र तिष्ठति ।
व्यभिचारान्महेन्द्रेण भर्त्रा शप्ता हि सा पुरा ॥९७॥
पाषाणभूता राजेन्द्र तस्य रामस्य दर्शनात् ।
पाषाणभूता राजेन्द्र तस्य रामस्य दर्शनात् ।
अहल्या मुक्तशापा च जगाम गौतमं प्रति ॥९८॥
विश्वामित्रस्ततस्तत्र चिन्तयामास वै क्षणम् ।
कृतदारो मया नेयो रामः कमललोचनः ॥९९॥
इति संचिन्त्य तौ गृह्य विश्वामित्रो महातपाः ।
शिष्यैः परिवृतोऽनेकैर्जगाम मिथिलां प्रति ॥१००॥
नानादेशादथायाता जनकस्य निवेशनम् ।
राजपुत्रा महावीर्याः पूर्वं सीताभिकाङ्क्षिणः ॥१०१॥
तान् दृष्ट्वा पूजयित्वा तु जनकश्च यथार्हतः ।
यत्सीतायाः समुत्पन्नं धनुर्माहेश्वरं महत् ॥१०२॥
अर्चितं गन्धमालाभी रम्यशोभासमन्विते ।
रङ्गे महति विस्तीर्णे स्थापयामास तद्धनुः ॥१०३॥
उवाच च नृपान् सर्वांस्तदोच्चैर्जनको नृपः ।
आकर्षणादिदं येन धनुर्भग्नं नृपात्मजाः ॥१०४॥
तस्येयं धर्मतो भार्या सीता सर्वाङ्गशोभना ।
इत्येवं श्राविते तेन जनकेन महात्मना ॥१०५॥
क्रमादादाय ते तत्तु सज्यीकर्तुमथाभवन् ।
धनुषा ताडिताः सर्वे क्रमात्तेन महीपते ॥१०६॥
विधूय पतिता राजन् विलजास्तत्र पार्थिवाः ।
तेषु भग्नेषु जनकस्तद्धनुस्त्र्यम्बकं नृप ॥१०७॥
संस्थाप्य स्थितवान् वीरो रामागमनकाङ्क्षया ।
विश्वामित्रस्ततः प्राप्तो मिथिलाधिपतेर्गृहम् ॥१०८॥
जनकोऽपि च तं दृष्टवा विश्वामित्रं गृहागतम् ।
रामलक्ष्मणसंयुक्तं शिष्यैश्चाभिगतं तदा ॥१०९॥
तं पूजयित्वा विधिवत्प्राज्ञं विप्रानुयायिनम् ।
रामं रघुपतिं चापि लावण्यादिगुणैर्युतम् ॥११०॥
शीलाचारगुणोपेतं लक्ष्मणं च महामतिम् ।
पूजयित्वा यथान्यायं जनकः प्रीतमानसः ॥१११॥
हेमपीठे सुखासीनं शिष्यैः पूर्वापरैर्वृतम् ।
विश्वामित्रमुवाचाथ किं कर्तव्यं मयेति सः ॥११२॥
मार्कण्डेय उवाच
इति श्रुत्वा वचस्तस्य मुनिः प्राह महीपतिम् ।
एष रामो महाराज विष्णुः साक्षान्महीपतिः ॥११३॥
रक्षार्थं विष्टपानां तु जातो दशरथात्मजः ।
अस्मै सीतां प्रयच्छ त्वं देवकन्यामिव स्थिताम् ॥११४॥
अस्या विवाहे राजेन्द्र धनुर्भङ्गमुदीरितम् ।
तदानय भवधनुरर्चयस्व जनाधिप ॥११५॥
तथेत्युक्त्वा च राजा हि भवचापं तदद्भुतम् ।
अनेक भूभुजां भङ्गि स्थापयामास पूर्ववत् ॥११६॥
ततो दशरथसुतो विश्वामित्रेण चोदितः ।
तेषां मध्यात्समुत्थाय रामः कमललोचनः ॥११७॥
प्रणम्य विप्रान् देवांश्च धनुरादाय तत्तदा ।
सज्यं कृत्वा महाबाहुर्ज्याघोषमकरोत्तदा ॥११८॥
आकृष्यमाणं तु बलात्तेन भग्नं महद्धनुः ।
सीता च मालामादाय शुभां रामस्य मूर्धनि ॥११९॥
क्षिप्त्वा संवरयामास सर्वक्षत्रियसंनिधौ ।
ततस्ते क्षत्रियाः क्रुद्धा राममासाद्य सर्वतः ॥१२०॥
मुमुचुः शरजालानि गर्जयन्तो महाबलाः ।
तान्निरीक्ष्य ततो रामो धनुरादाय वेगवान् ॥१२१॥
ज्याघोषतलघोषेण कम्पयामास तान्नृपान् ।
चिच्छेद शरजालानि तेषां स्वास्त्रै रथांस्ततः ॥१२२॥
धनूंषि च पताकाश्च रामश्चिच्छेद लीलया ।
संनह्य स्वबलं सर्वं मिथिलाधिपतिस्ततः ॥१२३॥
जामातरं रणे रक्षन् पार्ष्णिग्राहो बभूव ह ।
लक्ष्मणश्च महावीरो विद्राव्य युधि तान्नृपान् ॥१२४॥
हस्त्यश्वाञ्जगृहे तेषां स्यन्दनानि बहूनि च ।
वाहनानि परित्यज्य पलायनपरान्नृपान् ॥१२५॥
तान्निहन्तुं च धावत्स पृष्ठतो लक्ष्मणस्तदा ।
मिथिलाधिपतिस्तं च वारयामास कौशिकः ॥१२६॥
जितसेनं महावीरं रामं भ्रात्रा समन्वितम् ।
आदाय प्रविवेशाथ जनकः स्वगृहं शुभम् ॥१२७॥
दूतं च प्रेषयामास तदा दशरथाय सः ।
श्रुत्वा दूतमुखात् सर्वं विदितार्थः स पार्थिवः ॥१२८॥
सभार्यः ससुतः श्रीमान् हस्त्यश्वरथवाहनः ।
मिथिलामाजगामाशु स्वबलेन समन्वितः ॥१२९॥
जनकोऽप्यस्य सत्कारं कृत्वा स्वां च सुतां ततः ।
विधिवत्कृतशुल्कां तां ददौ रामाय पार्थिव ॥१३०॥
अपराश्च सुतास्तिस्त्रो रुपवत्यः स्वलडकृताः ।
त्रिभ्यस्तु लक्ष्मणादिभ्यः स्वकन्या विधिवद्ददौ ॥१३१॥
एवं कृतविवाहोऽसौ रामः कमललोचनः ।
भ्रातृभिर्मातृभिः सार्धं पित्रा बलवता सह ॥१३२॥
दिनानि कतिचित्तत्र स्थितो विविधभोजनैः ।
ततोऽयोध्यापुरीं गन्तुमुत्सुकं ससुतं नृपम् ।
दृष्ट्वा दशरथं राजा सीतायाः प्रददौ वसु ॥१३३॥
रत्नानि दिव्यानि बहूनि दत्त्वा रामाय वस्त्राण्यतिशोभनानि ।
हस्त्यश्वदासानपि कर्मयोग्यान् ।
दासीजनांश्च प्रवराः स्त्रियश्च ॥१३४॥
सीतां सुशीलां बहुरत्नभूषितां रथं समारोप्य सुतां सुरुपाम् ।
वेदादिघोषैर्बहुमङ्गलैश्च सम्प्रेषयामास स पार्थिवो बली ॥१३५॥
प्रेषयित्वा सुतां दिव्यां नत्वा दशरथं नृपम् ।
विश्वामित्रं नमस्कृत्य जनकः संनिवृत्तवान् ॥१३६॥
तस्य पल्यो महाभागाः शिक्षयित्वा सुतां तदा ।
भर्तृभक्तिं कुरु शुभे श्वश्रूणां श्वशुरस्य च ॥१३७॥
श्वश्रूणामर्पयित्वा तां निवृत्ता विविशुः पुरम् ।
ततस्तु रामं गच्छन्तमयोध्यां प्रबलान्वितम् ॥१३८॥
श्रुत्वा परशुरामो वै पन्थानं संरुरोध ह ।
तं दृष्ट्वा राजपुरुषाः सर्वे ते दीनमानसाः ॥१३९॥
आसीद्दशरथश्चापि दुःखशोकपरिप्लुतः ।
सभार्यः सपरीवारो भार्गवस्य भयान्नृप ॥१४०॥
ततोऽब्रवीज्जनान् सर्वान् राजानं च सुदुः खितम् ।
वसिष्ठश्चोर्जिततपा ब्रह्मचारी महामुनिः ॥१४१॥
वसिष्ठ उवाच
युष्माभिरत्र रामार्थं न कार्य दुःखमण्वपि ॥१४२॥
पित्रा वा मातृभिर्वापि अन्यैर्भृत्यजनैरपि ।
अयं हि नृपते रामः साक्षाद्विष्णुस्तु ते गृहे ॥१४३॥
जगतः पालनार्थाय जन्मप्राप्तो न संशयः ।
यस्य संकीर्त्य नामपि भवभीतिः प्रणश्चति ॥१४४॥
ब्रह्म मूर्तं स्वयं यत्र भयादेस्तत्र का कथा ।
यत्र संकीर्त्यते रामकथामात्रमपि प्रभो ॥१४५॥
नोपसर्गभयं तत्र नाकालमरणं नृणाम् ।
इत्युक्ते भार्गवो रामो राममाहाग्रतः स्थितम् ॥१४६॥
त्यज त्वं रामसंज्ञां तु मया वा संगरं कुरु ।
इत्युक्ते राघवः प्राह भार्गवं तं पथि स्थितम् ॥१४७॥
रामसंज्ञां कुतस्त्यक्ष्ये त्वया योत्स्ये स्थिरो भव ।
इत्युक्त्वा तं पृथक् स्थित्वा रामो राजीवलोचनः ॥१४८॥
ज्याघोषमकरोद्वीरो वीरस्यैवाग्रतस्तदा ।
ततः परशुरामस्य देहान्निष्क्रम्य वैष्णवम् ॥१४९॥
पश्यतां सर्वभूतानां तेजो राममुखेऽविशत् ।
दृष्ट्वा तं भार्गवो रामः प्रसन्नवदनोऽब्रवीत् ॥१५०॥
राम राम महाबाहो रामस्त्वं नात्र संशयः ।
विष्णुरेव भवाञ्जातो ज्ञातोऽस्यद्य मया विभो ॥१५१॥
गच्छ वीर यथाकामं देवकार्यं च वै कुरु ।
दुष्टानां निधनं कृत्वा शिष्टांश्च परिपालय ॥१५२॥
याहि त्वं स्वेच्छया राम अहं गच्छे तपोवनम् ।
इत्युक्त्वा पूजितस्तैस्तु मुनिभावेन भार्गवः ॥१५३॥
महेन्द्राद्रिं जगामाथ तपसे धृतमानसः ।
ततस्तु जातहर्षास्ते जना दशरथश्च ह ॥१५४॥
पुरीमयोध्यां सम्प्राप्य रामेण सह पार्थिवः ।
दिव्यशोभां पुरीं कृत्वा सर्वतो भद्रशालिनीम् ॥१५५॥
प्रत्युत्थाय ततः पौराः शङ्खतूर्यादिभिः स्वनैः ।
विशन्तं राममागत्य कृतदारं रणेऽजितम् ॥१५६॥
तं वीक्ष्य हर्षिताः सन्तो विविशुस्तेन वै पुरीम् ।
तौ दृष्ट्वा स मुनिः प्राप्तौ रामं लक्ष्मणमन्तिके ॥१५७॥
दशरथाय तत्पित्रे मातृभ्यश्च विशेषतः ।
तौ समर्प्य मुनिश्रेष्ठस्तेन राज्ञा च पूजितः ।
विश्वामित्रश्च सहसा प्रतिगन्तुं मनो दधे ॥१५८॥
समर्प्य राम स मुनिः सहानुजं सभार्यमग्ने पितुरेकवल्लभम् ।
पुनः पुनः श्राव्य हसन्महामतिर्जगाम सिद्धाश्रममेवमात्मनः ॥१५९॥