सूत उवाच
अथ सोमवंशोद्भवानां भूभुजां संक्षेपेण चरितमुच्यते ॥१॥
आदौ तावत् समस्तं त्रैलोक्यं कुक्षौ कृत्वा एकार्णवे महाम्भसि नागभोगशयने ॥२॥
ऋड्मयो यजुर्मयः साममयोऽथर्वमयो भगवान्नारायणो योगनिदां समोरभे ।
तस्य सुप्तस्य नाभौ महापद्ममजायत । तस्मिन् पद्मे चतुर्मुखो ब्रह्माभवत् ॥३॥
तस्य ब्रह्मणो मानसः पुत्रोऽन्निरभवत् । अत्रेरनसूयायां सोमः ।
स तु प्रजापतेर्दक्षस्य त्रयस्त्रिंशत् कन्या रोहिण्याद्या भार्यार्थं गृहीत्वा प्रियायां
ज्येष्ठायां विशेषात् प्रसन्नमनाः रोहिण्यां बुधं पुत्रमुत्पादयामास ॥४॥
बुधोऽपि सर्वशास्त्रज्ञः प्रतिष्ठाने पुरेऽवसत् । इलायां पुरुरवसं पुत्रमुत्पादयामास ।
तस्यातिशयरुपान्वितस्य स्वर्गभोगान् विहाय उर्वशी बहुकालं भार्या बभूव ॥५॥
पुरुरवसः उर्वश्यामायुः पुत्रो जज्ञे । स तु राज्यं धर्मतः कृत्वा दिवमारुरोह ॥६॥
आयो रुपवत्यां नहुषः पुत्रोऽभवत् । येनेन्द्रत्वं प्राप्तम् । नहुषस्यापि पितृमत्यां ययातिः ॥७॥
यस्य वंशजा वृष्णयः । ययातेः शर्मिष्ठायां पूरुरभवत् ॥८॥
पूरोर्वंशदायां संयातिः पुत्रोऽभवत् । यस्य पृथिव्यां सम्पन्नाः सर्वे कामाः ॥९॥
संयातेर्भानुदत्तायां सार्वभौमः । स तु सर्वां पृथिवीं धर्मेण परिपालयन्नरसिंहं भगवन्तमाराध्य यागदानैः सिद्धिमाप ॥१०॥
तस्य सार्वभौमस्य वैदेह्यां भोजः ।
यस्य वंशे पुरा देवासुरसंग्रामे विष्णुचक्रहतः कालनेमिः कंसो भूत्वा वृष्णिवंशजेन वासुदेवेन घातितो निधनं गतः ॥११॥
तस्य भोजस्य कलिङ्गायां दुष्यन्तः ।
स तु नरसिंहं भगवन्तमाराध्य तत्प्रसादान्निष्कण्टकं राज्यं धर्मेण कृत्वा दिवं प्राप्तवान् ।
दुष्यन्तस्य शकुन्तलायां भरतः ।
स तु धर्मेण राज्यं कुर्वन् क्रतुभिर्भूरिदक्षिणैः सर्वदेवतामयं भगवन्तमाराध्य
निवृत्ताधिकारो ब्रह्मध्यानपरो वैष्णवे परे ज्योतिषि लयमवाप ॥१२॥
भरतस्य आनन्दायामजमीढः ।
स च परमवैष्णवो नरसिंहमाराध्य जातपुत्रो धर्मेण कृतराज्यो विष्णुपुमारुरोह ॥१३॥
अजमीढस्य सुदेव्यां वृष्णिः पुत्रोऽभवत् ।
सोऽपि बहुवर्षं धर्मेण राज्यं कुर्वन् दुष्टनिग्रहं शिष्टपरिपालनं सप्तद्वीपां पृथ्वीं वशे चक्रे ।
वृष्णेरुग्रसेनायां प्रत्यञ्चः पुत्रो बभूव ॥१४॥
सोऽपि धर्मेण मेदिनीं पालयन् प्रतिसंवत्सरं ज्योतिष्टोमं चकार । निर्वाणमपि लब्धवान् । प्रत्यञ्चस्य बहुरुपायां शांतनुः ॥१५॥
तस्य देवदत्तस्यन्दनारोहणमशक्यं बभूव पुरतः शक्यं च ॥१६॥
इति श्रीनरसिंहपुराणे सोमवंशवर्णनं नाम सप्तविंशोऽध्यायः ॥२७॥