सूत उवाच
इत्येतत् सर्वमाख्यातं पुराणं नारसिंहकम् ।
सर्वपापहरं पुण्यं सर्वदुःखनिवारणम् ॥१॥
समस्तपुण्यफलदं सर्वयज्ञफलप्रदम् ।
ये पठन्त्यपि श्रृण्वन्ति श्लोकं श्लोकार्धमेव वा ॥२॥
न तेषां पापबन्धस्तु कदाचिदपि जायते ।
विष्य्णवर्पितमिदं पुण्यं पुराणं सर्वकामदम् ॥३॥
भक्त्या च वदतामेतच्छृण्वतां च फलं श्रृणु ।
शतजन्मार्जितैः पापैः सद्य एव विमोचिताः ॥४॥
सहस्त्रकुलसंयुक्ताः प्रयात्नि परंम पदम् ।
किंझ तीर्थैर्गोप्रदानैर्वा तपोभिर्वा किमध्वरैः ॥५॥
अहन्यहनि गोविन्दं तत्परत्वेन श्रृण्वताम् ।
यः पठेत्प्रातरुथाय यदस्य श्लोकविंशतिम् ॥६॥
ज्योतिष्टोमफलं प्राप्य विष्णुलोके महीयते ।
एतत्पवित्रं पूज्यं च न वाच्यमकृतात्मनाम् ॥७॥
द्विजानां विष्णुभक्तानां श्राव्यमेतन्न संशयः ।
एतत्पुराणश्रवणमिहामुत्र सुखप्रदम् ॥८॥
वदतां श्रृण्वता सद्यः सर्वपापप्रणाशनम् ।
बहुनात्र किमुक्तेन भूयो भूयो मुनीश्वराः ॥९॥
श्रद्धयाश्रद्धया वापि श्रोतव्यमिदमुत्तमम् ।
भारद्वाजमुखाः सर्वे कृतकृत्या द्विजोत्तमाः ॥१०॥
सूतं हष्टाः प्रपूज्याथ सर्वे स्वस्वाश्रमं ययुः ॥११॥
इति श्रीनरसिंहपुराणे सूतभरद्वाजादिसंवादे सर्वदुःखोपहरं श्रीनरसिंहपुराणस्य माहात्म्यं समाप्तम् ॥६८॥