ब्रह्माजीद्वारा लोकरचना और नौ प्रकारकी सृष्टियोंका निरुपण
सूत उवाच
तत्र सुप्तस्य देवस्य नाभौ पद्ममभून्महत् ।
तस्मिन् पद्मे महाभाग वेदवेदाङ्गपारगः ॥१॥
ब्रह्मोत्पन्नः स तेनोक्तः प्रजां सृज महामते ।
एवमुक्त्वा तिरोभावं गतो नारायणः प्रभुः ॥२॥
तथेत्युक्त्वा स तं देवं विष्णुं ब्रह्माथ चिन्तयन् ।
आस्ते किंचिज्जगद्वीजं नाध्यगच्छत किंचन ॥३॥
तावत्तस्य महान् रोषो ब्रह्मणोऽभून्महात्मनः ।
ततो बालः समुत्पन्नस्तस्याङ्के रोषसम्भवः ॥४॥
स रुदन्वारितस्तेन ब्रह्मणा व्यक्तमूर्तिना ।
नाम मे देहि चेत्युक्तस्तस्य रुद्रेत्यसौ ददौ ॥५॥
तेनासौ विसृजस्वेति प्रोक्तो लोकमिमं पुनः ।
अशक्तस्तत्र सलिले ममज्ज तपसाऽऽदृतः ॥६॥
तस्मिन् सलिलमग्ने तु पुनरन्यं प्रजापतिः ।
ब्रह्मा ससर्ज भूतेशो दक्षिणाङ्गुष्ठतोऽपरम् ॥७॥
दक्षं वामे ततोऽङ्गुष्ठे तस्य पत्नी व्यजायत ।
स तस्यां जनयामास मनुं स्वायम्भुवं प्रभुः ॥८॥
तस्मात् सम्भाविता सृष्टिः प्रजानां ब्रह्मणा तदा ।
इत्येवं कथिता सृष्टिर्मया ते मुनिसत्तम ।
सृजतो जगतीं तस्य किं भूयः श्रोतुमिच्छसि ॥९॥
भरद्वाज उवाच
संक्षेपेण तदाऽऽख्यातं त्वया मे लोमहर्षण ।
विस्तरेण पुनर्बूहि आदिसर्गं महामते ॥१०॥
सूत उवाच
तथैव कल्पावसाने निशासुप्तोत्थितः प्रभुः ।
सत्त्वोद्रिक्तस्तदा ब्रह्मा शून्यं लोकमवैक्षत ॥११॥
नारायणः परोऽचिन्त्यः पूर्वेषामपि पूर्वजः ।
ब्रह्मस्वरुपी भगवाननादिः सर्वसम्भवः ॥१२॥
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।
ब्रह्मस्वरुपिणं देवं जगतः प्रभवात्मकम् ॥१३॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥१४॥
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्वकं तस्य प्रादुर्भूतं तमस्तदा ॥१५॥
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥१६॥
पञ्चधाधिष्ठितः सर्गो ध्यायतोऽप्रतिबोधवान् ।
बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः ।
मुखसर्गः स विज्ञेयः सर्गसिद्धिविचक्षणैः ॥१७॥
यत्पुनर्ध्यायतस स्य ब्रह्मणः समपद्यत ।
तिर्यक्स्त्रोतस्ततस्तस्मात् तिर्यग्योनिस्ततः स्मृतः ॥१८॥
पश्चादयस्ते विख्याता उत्पथग्राहिणश्च ये ।
तमप्यसाधकं मत्वा तिर्यग्योनिं चतुर्मुखः ॥१९॥
ऊर्ध्वस्त्रोतास्तृतीयस्तु सात्त्विकः समवर्तत ।
तदा तुष्टोऽन्यसर्गं च चिन्तयामास वै प्रभुः ॥२०॥
ततश्चिन्तयतस्तस्य सर्गवृद्धिं प्रजापतेः ।
अर्वाक्स्त्रोताः समुत्पन्ना मनुष्याः साधका मताः ॥२१॥
ते च प्रकाशबहुलास्तमोयुक्ता रजोऽधिकाः ।
तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः ॥२२॥
एते ते कथिताः सर्गा बहवो मुनिसत्तम ।
प्रथमो महतः सर्गस्तन्मात्राणां द्वितीयकः ॥२३॥
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥२४॥
तिर्यक्स्त्रोताश्च यः प्रोक्तस्तिर्यग्योनिः स उच्यते ।
ततोर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ॥२५॥
ततोऽर्वाक्स्त्रोतसां सर्गः सप्तमो मानुषः स्मृतः ।
अष्टमोऽनुग्रहः सर्गः सात्त्विको य उदाहतः ॥२६॥
नवमो रुद्रसर्गस्तु नव सर्गाः प्रजापतेः ।
पञ्चैते वैकृताः सर्गाः प्राक्रुतास्ते त्रयः स्मृताः ।
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ॥२७॥
प्राकृता वैकृताश्चैव जगतो मूलहेतवः ।
सृजतो ब्रह्मणः सृष्टिमुत्पन्ना ये मयेरिताः ॥२८॥
तं तं विकारं च परं परेशो
मायामधिष्ठाय सृजत्यनन्तः ।
अव्यक्तरुपी परमात्मसंज्ञः
सम्प्रेर्यमाणो निखिलात्मवेद्यः ॥२९॥
इति श्रीनरसिंहपुराणे सृष्टिरचनाप्रकारोनाम तृतीयोऽध्यायः ॥३॥