भरद्वाज उवाच
सहस्त्रानीकस्य हरेरवतारांश्च शार्ङ्गिणः ।
साम्प्रतं श्रोतुमिच्छामि तन्मे वद महामते ॥१॥
सूत उवाच
हन्त ते कथयिष्यामि चरितं तस्य धीमतः ।
सहस्त्रानीकस्य हरेततारांश्च मे श्रृणु ॥२॥
सहस्त्रानीकोऽभिषिक्तो निजराज्ये द्विजोत्तमैः ।
पालयामास धर्मेण राज्यं स तु नृपात्मजः ॥३॥
तस्य पालयतो राज्यं राजपुत्रस्य धीमतः ।
भक्तिर्बभूव देवेशे नरसिंहे सुरोत्तमे ॥४॥
तं द्रष्टुमागतः साक्षाद्विष्णुभक्तं भृगुः पुरा ।
अर्घ्यपाद्यासनै राजा तमभ्यर्च्याब्रवीदिदम् ॥५॥
पावितोऽहं मुनिश्रेष्ठ साम्प्रतं तव दर्शनात् ।
त्वद्दर्शनमपुण्यानां कलावस्मिन् सुदुर्लभम् ॥६॥
नरसिंह प्रतिष्ठाप्य देवदेवं सनातनम् ।
आराधायितुमिच्छामि विधानं तत्र मे वद ॥७॥
अवतारानशेषांश्च देवदेवस्य चक्रिणः ।
श्रोतुमिच्छामि सकलांस्तान् पुण्यानपि मे वद ॥८॥
भृगुरुवाच
श्रृणु भूपालपुत्र त्वं न हि कश्चित् कलौ युगे ।
हरौ भक्तिं करोत्यत्र नृसिंहे चातिभक्तिमान् ॥९॥
स्वभावाद्यस्य भक्तिः स्यान्नरसिंहे सुरोत्तमे ।
तस्यारयः प्रणश्यन्ति कार्यसिद्धिश्च जायते ॥१०॥
त्वमतीव हरेर्भक्तः पाण्डुवंशेऽपि सत्तमः ।
तेन ते निखिलं वक्ष्ये श्रृणुष्वैकाग्रमानसः ॥११॥
यः कुर्याच्छोभनं वेश्म नरसिंहस्य भक्तिमान् ।
स सर्वपापनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥१२॥
प्रतिमां लक्षणोपेतां नरसिंहस्य कारयेत् ।
स सर्वपापनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥१३॥
प्रतिष्ठां नरसिंहस्य यः करोति यथाविधि ।
निष्कामो नरशार्दूल देहबाधात् प्रमुच्यते ॥१४॥
नरसिंहं प्रतिष्ठाप्य यः पूजामाचरेन्नरः ।
तस्य कामाः प्रसिद्ध्यन्ति परमं पदमाचरेन्नरः ।
तस्य कामाः प्रसिध्यन्ति परमं पदमाप्युयात् ॥१५॥
ब्रह्मादयः सुराः सर्वे विष्णुमाराध्य ते पुरा ।
स्वं स्वं पदमनुप्राप्ताः केशवस्य प्रसादतः ॥१६॥
ये ये नृपवरा राजन् मांधातृप्रमुखा नृपाः ।
ते ते विष्णुं समाराध्य स्वर्गलोकमितो गताः ॥१७॥
यस्तु पूजयते नित्यं नरसिंहं सुरेश्वरम् ।
स स्वर्गमोक्षभागी स्यान्नात्र कार्या विचारणा ॥१८॥
तस्मदेकमना भूत्वा यावज्जीवं प्रतिज्ञया ।
अर्चनान्नरसिंहस्य प्राप्स्यसे स्वाभिवाञ्छितम् ॥१९॥
विधिवत्स्थापयेद्यस्तु कारयित्वा जनार्दनम् ।
न तु निर्गमनं तस्य विष्णुलोकाद् भवेन्नृप ॥२०॥
नरो नृसिंहं तमनन्तविक्रमं सुरासुरैरर्चितपादपङ्कजम् ।
संस्थाप्य भक्त्या विधिवच्च पूजयेत् प्रयाति साक्षात् परमेश्वरं हरिम् ॥२१॥
इति श्रीनरसिंहपुराणे सहस्त्रानीकचरिते द्वात्रिंशोऽध्यायः ॥३२॥