मार्कण्डेय उवाच
इति श्रुत्वा प्रियावार्तां वायुपुत्रेण कीर्तिताम् ।
रामो गत्वा समुद्रान्तं वानरैः सह विस्तृतैः ॥१॥
सागरस्य तटे रम्ये तालीवनविराजिते ।
सुग्रीवो जाम्बवांश्चाथ वानरैरतिहर्षितैः ॥२॥
संख्यातीतैर्वृतः श्रीमान् नक्षत्रैरिव चन्द्रमाः ।
अनुजेन च धीरेण वीक्ष्य तस्थौ सरित्पतिम् ॥३॥
रावणेनाथ लङ्कायां स सूक्तौ भर्त्सितोऽनुजः ।
विभीषणो महाबुद्धिः शास्त्रज्ञैर्मन्त्रिभिः सह ॥४॥
नरसिंहे महादेवे श्रीधरे भक्तवत्सले ।
एवं रामेऽचलां भक्तिमागत्य विनयात्तदा ॥५॥
कृताञ्जलिरुवाचेदं राममक्लिष्टकारिणम् ।
राम राम महाबाहो देवदेव जनार्दन ॥६॥
विभीषणोऽस्मि मां रक्ष अहं ते शरणं गतः ।
इत्युक्त्वा निपपाताथ प्राञ्जली रामपादयोः ॥७॥
विदितार्थोऽथ रामस्तु तमुत्थाप्य महामतिम् ।
समुद्रतोयैस्तं वीरमभिषिच्य विभीषणम् ॥८॥
लङ्काराज्यं तवैवेति प्रोक्तः सम्भाष्य तस्थिवान् ।
ततो विभीषणेनोक्तं त्वं विष्णुर्भुवनेश्वरः ॥९॥
अब्धिर्ददातु मार्गं ते देव तं याचयामहे ।
इत्युक्तो वानरैः सार्धं शिश्ये तत्र स राघवः ॥१०॥
सुप्ते रामे गतं तत्र त्रिरात्रमतितद्युतौ ।
ततः क्रुद्धो जगन्नाथो रामो राजीवलोचनः ॥११॥
संशोषणमपां कर्तुमस्त्रमाग्नेयमाददे ।
तदोत्थाय वचः प्राह लक्ष्मणश्च रुषान्वितम् ॥१२॥
क्रोधस्ते लयकर्ता हि एनं जहि महामते ।
भूतानां रक्षणार्थाय अवतारस्त्वया कृतः ॥१३॥
क्षन्तव्यं देवदेवेश इत्युक्त्वा धृतवान् शरम् ।
ततो रात्रित्रये याते कुद्धं राममवेक्ष्य सः ॥१४॥
आग्नेयास्त्राच्च संत्रस्तः सागरोऽभ्येत्य मूर्तिमान् ।
आह रामं महादेवं रक्ष मामपकारिणम् ॥१५॥
मार्गो दत्तो मया तेऽद्य कुशलः सेतुकर्मणि ।
नलश्च कथितो वीरस्तेन कारय राघव ॥१६॥
यावदिष्टं तु विस्तीर्ण सेतुबन्धमुत्तमम् ।
ततो नलमुखैरन्यैर्वानैररमितौजसैः ॥१७॥
बन्धयित्वा महासेतुं तेन गत्वा स राघवः ।
सुवेलाख्यं गिरिं प्राप्तः स्थितोऽसौ वानरैर्वृतः ॥१८॥
हर्म्यस्थलास्थितं दुष्टं रावणं वीक्ष्य चाङ्गध ।
रामादेशादथोत्प्लुत्य दूतकर्मसु तत्परः ॥१९॥
प्रादात्पादप्रहारं तु रोषाद्रावणमूर्धनि ।
विस्मितं तैः सुरगणैर्वीक्षितः सोऽतिवीर्यवान् ॥२०॥
साधयित्वा प्रतिज्ञां तां सुवेलं पुनरागतः ।
ततो वानरसेनाभिः संख्यातिताभिरच्युतः ॥२१॥
रुरोध रावणपुरीं लङ्कां तत्र प्रतापवान् ।
रामः समन्तादालोक्य प्राह लक्ष्मणमन्तिके ॥२२॥
तीर्णोऽर्णवः कवलितेव कपीश्वरस्य सेनाभटैर्झटिति राक्षसराजधानीम् ।
यत्पौरुषोचितामिहाङ्कुरितं मया तद दैवस्य वश्यमपरं धनुषोऽथ वास्य ॥२३॥
लक्ष्मणः प्राह -
कातरजनमनोऽवलम्बिना किं दैवेन ।
यावल्ललाटशिखरं भ्रुकुटिर्न याति यावन्न कार्मुकशिखामधिरोहति ज्या ।
तावन्निशाचरपतेः पटिमानमेतु त्रैलोक्यमूलविभुजेषु दर्पः ॥२४॥
तदा लक्ष्मणः रामस्य कर्णे लगित्वा पितृवधवैरस्मरणे अथ तद्भक्तिवीर्यपरीक्षणाय लक्षणविज्ञानायादिश्यतामङ्गदाय दूत्यम् ।
रामः साधु इति भणित्वा अङ्गदं सबहुमानमवलोक्य आदिशति ॥२५॥
अङ्गद ! पिता ते यद्वाली बलिनि दशकण्ठे कलितवान्नशक्तास्तद्वक्तुं वयमपि मुदा तेन पुलकः ।
स एव त्वं व्यावर्त्तयसि तनुजत्वेन पितृतां ततः किं वक्तव्यं तिलकयति सृष्टार्थपदवीम् ॥२६॥
अङ्गदो मौलिमण्डलमिलत्करयुगलेन प्रणम्य यदाज्ञापयति देवः । अवधार्यताम् ॥२७॥
किं प्राकारविहारतोरणवतीं लङ्कामिहैवानये किं वा सैन्यमहं द्रुतं रघुपते तत्रैव सम्पादये ।
अत्यल्पं कुलपर्वतैरविरलैर्बध्नामि वा सागरं देवादेशय किं करोमि सकलं दोर्द्दण्डसाध्यं मम ॥२८॥
श्रीरामस्तद्वचनमात्रेणैव तद्भक्तिं सामर्थ्य चावेक्ष्य वदति ॥२९॥
अज्ञानादथवाधिपत्यरभसा वास्मत्परोक्षे ह्नता सीतेयं प्रविमुच्यतामिति वचो गत्वा दशास्यं वद ।
नो चेल्लोक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणितच्छत्रच्छन्नदिगन्तमन्तकपुरीं पुत्रैर्वृतो यास्यसि ॥३०॥
अङ्गदः ॥३१॥ देव !
संधौ वा विग्रहे वापि मयि दूते दशाननी ।
अक्षता वाक्षता वापि क्षितिपीठे लुठिष्यति ॥३२॥
तदा श्रीरामचन्द्रेण प्रशस्य प्रहितोऽङ्गदः ।
उक्तिप्रत्युक्तिचात्यर्यैः पराजित्यागतो रिपुम् ॥३३॥
राघवस्य बलं ज्ञात्वा चारैस्तदनुजस्य च ।
वानराणां च भीतोऽपि निर्भीरिव दशाननः ॥३४॥
लङ्कापुरस्य रक्षार्थमादिदेश स राक्षसान् ।
आदिश्य सर्वतो दिक्षु पुत्रानाह दशाननः ॥३५॥
धूम्राक्षं धूम्रपानं च राक्षसा यात मे पुरीम् ।
पाशैर्बध्नीत तौ मर्यौ अमित्रान्तकवीर्यवान् ।
कुम्भकर्णोऽपि मदभ्राता तुर्यनादैः प्रबोधितः ॥३६॥
राक्षसाश्चैव संदिष्टा रावणेन महाबलाः ।
तस्याज्ञां शिरसाऽऽदाय युयुधुर्वानरैः सह ॥३७॥
युध्यमाना यथाशक्त्या कोटिसंख्यास्तु राक्षसाः ।
वानरैर्निधनं प्राप्ताः पुनरन्यान् यथाऽऽदिशत् ॥३८॥
पूर्वद्वारे दशग्रीवो राक्षसानमितौजसः ।
ते चापि युध्य हरिभिर्नीलाद्यैर्निधनं गताः ॥३९॥
अथ दक्षिणदिग्भागे रावणेन नियोजिताः ।
ते सर्वे वानरवरैर्दारितास्तु यमं गताः ॥४०॥
पश्चिमेऽङ्गदमुख्यैश्च वानरैरतिगर्वितैः ।
राक्षसाः पर्वताकाराः प्रापिता यमसादनम् ॥४१॥
तदुत्तरे तु दिग्भागे रावणेन निवेशिताः ।
पेतुस्ते राक्षसाः क्रूरा मैन्दाद्यैर्वानरैर्हताः ॥४२॥
ततो वानरसङ्घास्तु लङ्काप्राकारमुच्छ्रितम् ।
उत्प्लुत्याभ्यन्तरस्थांश्च राक्षसान् बलदर्पितान् ॥४३॥
हत्वा शीघ्रं पुनः प्राप्ताः स्वसेनामेव वानराः ।
एवं हतेषु सर्वेषु राक्षसेषु दशाननः ॥४४॥
रोदमानासु तस्त्रीषु निर्गतः क्रोधमूर्च्छितः ।
द्वारे स पश्चिमे वीरो राक्षसैर्बहुभिर्वृतः ॥४५॥
क्वासौ रामेति च वदन् धनुष्पाणीः प्रतापवान् ।
रथस्थः शरवर्षं च विसृजन् वानरेषु सः ॥४६॥
ततस्तद्वाणछिन्नाङ्गा वानरा दुद्रुवुस्तदा ।
पलायमानांस्तान् दृष्ट्वा वानरान् राघवस्तदा ॥४७॥
कस्मात्तु वानरा भग्नाः किमेषां भयमागतम् ।
इति रामवचः श्रुत्वा प्राह वाक्यं विभीषणः ॥४८॥
श्रृणु राजन् महाबाहो रावणो निर्गतोऽधुना ।
तद्वाणाछिन्ना हरयः पलायन्ते महामते ॥४९॥
इत्युक्तो राघवस्तेन धनुरुद्यम्य रोषितः ।
ज्याघोषतलघोषाभ्यां पूरयामास खं दिशः ॥५०॥
युयुधे रावणेनाथ रामः कमललोचनः ।
सुग्रीवो जाम्बवांश्चैव हनूमानङ्गदस्तथा ॥५१॥
विभीषणो वानराश्च लक्ष्मणश्चापि वीर्यवान् ।
उपेत्य रावणीं सेनां वर्षन्तीं सर्वसायकान् ॥५२॥
हस्त्यश्वरथसंयुक्तां ते निजघ्नुर्महाबलाः ।
रामरावणयोर्युद्धमभूत् तत्रापि भीषणम् ॥५३॥
रावणेन विसृष्टानि शस्त्रास्त्राणि च यानि वै ।
तानि छित्त्वाथ शस्त्रैस्तु राघवश्च महाबलः ॥५४॥
शरेण सारथिं हत्वा दशभिश्च महाहयान् ।
रावणस्य धनुश्छित्त्वा भल्लेनैकेन राघवः ॥५५॥
मुकुटं पञ्चदशभिश्छित्त्वा तन्मस्तकं पुनः ।
सुवर्णपुङ्खैर्दशभिः शरैर्विव्याध वीर्यवान् ॥५६॥
तदा दशास्यो व्यथितो रामबाणैर्भृशं तदा ।
विवेश मन्त्रिभिर्नीतः स्वपुरीं देवमर्दकः ॥५७॥
बोधितस्तूर्यनादैस्तु गजयूथक्रमैः शनैः ।
पुनः प्राकारमुल्लङ्घ्य कुम्भकर्णो विनिर्गतः ॥५८॥
उत्तुङ्गस्थूलदेहोऽसौ भीमदृष्टिर्महाबलः ।
वानरान् भक्षयन् दुष्टो विचचार क्षुधान्वितः ॥५९॥
तं दृष्टोत्पत्य सुग्रीवः शूलेनोरस्यताडयत् ।
कर्णद्वयं कराभ्यां तुच्छित्त्वा वक्त्रेण नासिकाम् ॥६०॥
सर्वतो युध्यमानांश्च रक्षोनाथान् रणेऽधिकान् ।
राघवो घातयित्वा तु वानरेन्दैः समन्ततः ॥६१॥
चकर्त विशिखैस्तीक्ष्णैः कुम्भकर्णस्य कन्धराम् ।
विजित्येन्द्रजितं साक्षादगरुडेनागतेन सः ॥६२॥
रामो लक्ष्मणसंयुक्तः शुशुभे वानरैर्वृतः ।
व्यर्थं गते चेन्द्रजिति कुम्भकर्णे निपातिते ॥६३॥
लङ्कानाथस्ततः कुद्धः पुत्रं त्रिशिरसं पुनः ।
अतिकायमहाकायौ देवान्तकनरान्तकौ ॥६४॥
यूयं हत्वा तु पुत्राद्या तौ नरौ युधि निघ्रत ।
तान्नियुज्य दशग्रीवः पुत्रानेवं पुनर्ब्रवीत् ॥६५॥
महोदरमहापार्श्वो सार्धमेतैर्महाबलैः ।
संग्रामेऽस्मिन् रिपून हन्तुं युवां व्रजतमुद्यतौ ॥६६॥
दृष्टा तानागतांश्चैव युध्यमानान् रणे रिपून् ।
अनयल्लक्ष्मणः षड्भिः शरैस्तीक्ष्णैर्यमालयम् ॥६७॥
वानराणां समूहश्च शिष्टांश्च रजनीचरान् ।
सुग्रीवेण हतः कुम्भो राक्षसो बलदर्पितः ॥६८॥
निकुम्भो वायुपुत्रेण निहतो देवकण्टकः ।
विरुपाक्षं युध्यमानं गदया तु विभीषणः ॥६९॥
भीममैन्दौ च श्वपतिं वानरेन्दौ निजघ्रतुः ।
अङ्गदो जाम्बवांश्चाथ हरयोऽन्यान्निशाचरान् ॥७०॥
युध्यमानस्तु समरे महालक्षं महाचलम् ।
जघान रामोऽथ रणे बाणवृष्टिकरं नृप ॥७१॥
इन्द्रजिन्मन्त्रलब्धं तु रथमारुह्य वै पुनः ।
वानरेषु च सर्वेषु शरवर्षं ववर्ष सः ॥७२॥
रात्रौ तद्वाणाभिन्नं तु बलं सर्वं च राघवम् ।
निश्चेष्टमखिलं दृष्ट्वा जाम्बवत्प्रेरितस्तदा ॥७३॥
वीर्यादौषधमानीय हनुमान मारुतात्मजः ।
भूम्यां शयानमुत्थाप्य रामं हरिगणांस्तथा ॥७४॥
तैरेव वानरैः सार्धं ज्वलितोल्काकरैर्निशि ।
दाहयामास लङ्कां तां हस्त्यश्वरथरक्षसाम् ॥७५॥
वर्षन्तं शरजालानि सर्वदिक्षु घनो यथा ।
स भ्रात्रा मेघनादं तं घातयामास राघवः ॥७६॥
घातितेष्वथ रक्षस्सु पुत्रमित्रादिबन्धुषु ।
कारितेष्वथ विघ्नेषु होमजप्यादिकर्मणाम् ॥७७॥
ततः क्रुद्धो दशग्रीवो लङ्काद्वारे विनिर्गतः ।
क्वासौ राम इति ब्रूते मानुषस्तापसाकृतिः ॥७८॥
योद्धा कपिबलीत्युच्चैर्व्याहरद्राक्षसाधिपः ।
वेगवद्भिर्विनीतैश्च अश्वैश्चित्ररथे स्थितः ॥७९॥
अथायान्तं तु तं दृष्टा रामः प्राह दशाननम् ।
रामोऽहमत्र दुष्टात्मत्रेहि रावण मां प्रति ॥८०॥
इत्युक्ते लक्ष्मणः प्राह रामं राजीवलोचनम् ।
अनेन रक्षसा योत्स्ये त्वं तिष्ठेति महाबल ॥८१॥
ततस्तु लक्ष्मणो गत्वा रुरोध शरवृष्टिभिः ।
विंशद्वाहुविसृष्टैस्तु शस्त्रास्त्रैर्लक्ष्मणं युधि ॥८२॥
रुरोध स दशग्रीवः तयोर्युद्धमभून्महत् ।
देवा व्योम्नि विमानस्था वीक्ष्य तस्थुर्महाहवम् ॥८३॥
ततो रावणशस्त्राणिच्छित्वा स्वैस्तीक्ष्णसायकैः ।
लक्ष्मणः सारथिं हत्वा स्याश्वानपि भल्लकैः ॥८४॥
रावणस्य धनुश्छित्तआ ध्वजं च निशितैः शरैः ।
वक्षः स्थलं महावीर्यो विव्याध परवीरहा ॥८५॥
ततो रथान्निपत्याधः क्षिप्रं राक्षसनायकः ।
शक्तिं जग्राह कुपितो घण्टानादविनादिनीम् ॥८६॥
अग्निज्वालाज्वलज्जिह्वां महोल्कासदृशद्युतिम् ।
दृढमुष्ट्या तु निक्षिप्ता शक्तिः सा लक्ष्मणोरसि ॥८७॥
विदार्यान्तः प्रविष्टाथ देवास्त्रस्तास्ततोऽम्बरे ।
लक्ष्मणं पतितं दृष्ट्वा रुदद्भिर्वानरेश्वरैः ॥८८॥
दुःखितः शीघ्रमागम्य तत्पार्शं प्राह राघवः ।
क्व गतो हनुमान वीरो मित्रो मे पवनात्मजः ॥८९॥
यदि जीवति मे भ्राता कथंचित्पतितो भुवि ।
इत्युक्ते हनुमान राजन् वीरो विख्यातपौरुषः ॥९०॥
बदध्वाञ्जलिं बभाषेदं देह्यनुज्ञां स्थितोऽस्मि भोः ।
रामः प्राह महावीर विशल्यकरणी मम ॥९१॥
अनुजं विरुजं शीघ्रं कुरु मित्र महाबल ।
ततो वेगात्समुत्पत्य गत्वा द्रोणागिरिं कपिः ॥९२॥
बदध्वा च शीघ्रमानीय लक्ष्मणं नीरुजं क्षणात् ।
चकार देवदेवेशां पश्यतां राघवस्य च ॥९३॥
ततः कुद्धो जगन्नाथो रामः कमललोचनः ।
रावण्यस्य बलं शिष्टं हस्त्यश्वरथराक्षसम् ॥९४॥
हत्वा क्षणेन रामस्तु तच्छरीरं तु सायकैः ।
तीक्ष्णैर्जर्जरित्म कृत्वा रस्थिवान् वानरैर्वृतः ॥९५॥
अस्तचेष्टो दशग्रीवः संज्ञां प्राप्य शनैः पुनः ।
उत्थाय रावणः कुद्धः सिंहनादं ननाद च ॥९६॥
तत्रादश्रवणैर्व्योनि वित्रस्तो देवतागणः ।
एतस्मिन्नेव काले तु रामं प्राप्य महामुनिः ॥९७॥
रावणे बद्धवैरस्तु अगस्त्यो वै जयप्रदम् ।
आदित्यहदयं नाम मन्त्रं प्रादाज्जयप्रदम् ॥९८॥
रामोऽपि जप्त्वा तन्मत्रमगस्त्योक्तं जयप्रदम् ।
तद्दत्तं वैष्णवं चापमतुलं सद्गुणं दृढम् ॥९९॥
पूजायित्वा तदादाय सज्यं कृत्वा महाबलः ।
सौवर्णपुङ्खैस्तीक्ष्णैस्तु शरैर्मर्मविदारणेः ॥१००॥
युयुधे राक्षसेन्द्रेण रघुनाथः प्रतापवान् ।
तयोस्तु युध्यतोस्तत्र भीमशक्त्योर्महामते ॥१०१॥
परस्परविसृष्टस्तु व्योम्नि संवर्द्धितोऽनलः ।
समुत्थितो नृपश्रेष्ठ रामरावणयोर्युधि ॥१०२॥
संगरे वर्तमाने तु रामो दाशरथिस्तदा ।
पदातिर्युयुधे वीरो रामोऽनुक्तपराक्रमः ॥१०३॥
सहस्त्राश्वयुतं दिव्यं रथं मातलिमेव च ।
प्रेषयामास देवेन्द्रो महान्तं लोकविश्रुतम् ॥१०४॥
रामस्तं रथमारुह्य पूज्यमानः सुरोत्तमैः ।
मातल्युक्तोपदेशस्तु रामचन्द्रः प्रतापवान् ॥१०५॥
ब्रह्मदत्तवरं दुष्टं ब्रह्मास्त्रेण दशाननम् ।
जघान वैरिणं क्रूरं रामदेवः प्रतापवान् ॥१०६॥
रामेण निहते तत्र रावणे सगणे रिपौ ।
इन्द्राद्या देवताः सर्वाः परस्परमथाबुवन् ॥१०७॥
रामो भूत्वा हरिर्यस्मादस्माकं वैरिणं रणे ।
अन्यैरवध्यमप्येनं जघान युधि रावणम् ॥१०८॥
तस्मात्तं रामनामानमनन्तमपराजितम् ।
पूजयामोऽवतीर्यैनमित्युक्त्वा ते दिवौकसः ॥१०९॥
नानाविमानैः श्रीमद्भिरवतीर्य महीतले ।
रुद्रेन्द्रवसुचन्द्राद्या विधातारं सनातनम् ॥११०॥
विष्णुं जिष्णुं जगन्मूर्तिं सानुजं राममव्ययम् ।
तं पूजयित्वा विधिवत्परिवार्योपतास्थिरे ॥१११॥
रामोऽयं दृश्यतां देवा लक्ष्मणोऽयं व्यवस्थितः ।
सुग्रीवो रविपुत्रोऽयं वायुपुत्रोऽयमास्थितः ॥११२॥
अङ्गदाद्या इमे सर्वे इत्यूचुस्ते दिवौकसः ।
गन्धामोदितदिक्चक्रा भ्रमरालिपदानुगा ॥११३॥
देवस्त्रीकरनिर्मुक्ता राममूर्धनि शोभिता ।
पपात पुष्पवृष्टिस्तु लक्ष्मणस्य च मूर्धनि ॥११४॥
ततो ब्रह्मा समागत्य हंसयानेन राघवम् ।
अमोघाख्येन स्तोत्रेण स्तुत्वा राममवोचत ॥११५॥
ब्रह्मोवाच
त्वं विष्णुरादिर्भूतानामनन्तो ज्ञानदृक्प्रभुः ।
त्वमेव शाश्वतं ब्रह्म वेदान्ते विदितं परम् ॥११६॥
त्वया यदद्य निहतो रावणो लोकरावणः ।
तदाशु सर्वलोकानां देवानां कर्म साधितम् ॥११७॥
इत्युक्ते पद्मयोनौ तु शङ्करः प्रीतिमास्थितः ।
प्रणम्य रामं तस्मै तं भूयो दशरथं नृपम् ॥११८॥
दर्शयित्वा गतो देवः सीता शुद्धेति कीर्तयन् ।
ततो बाहुबलप्राप्तं विमानं पुष्पकं शुभम् ॥११९॥
पूतामारोप्य सीतां तामादिष्टः पवनात्मजः ।
ततस्तु जानकीं देवीं विशोकां भूषणान्विताम् ॥१२०॥
वन्दितां वानरेन्दैस्तु सार्धं भ्रात्रा महाबलः ।
प्रतिष्ठाप्य महादेवं सेतुमध्ये स राघवः ॥१२१॥
लब्धवान् परमां भक्तिं शिवे शम्भोरनुग्रहात् ।
रामेश्वर इति ख्यातो महादेवः पिनाकधृक् ॥१२२॥
तस्य दर्शनमात्रेण सर्वहत्यां व्यपोहति ।
रामस्तीर्णप्रतिज्ञोऽसौ भरतासक्तमानसः ॥१२३॥
ततोऽयोध्यां पुरीं दिव्यां गत्वा तस्यां द्विजोत्तमैः ।
अभिषिक्तो वसिष्ठाद्यैर्भरतेन प्रसादितः ।
अकरोद्धर्मतो राज्यं चिरं रामः प्रतापवान् ॥१२४॥
यज्ञादिकं कर्म निजं च कृत्वा पौरेस्तु रामो दिवमारुरोह ।
राजन्मया ते कथितं समासतो रामस्य भूम्यां चरितं महात्मनः ।
इदं सुभक्त्या पठतां च श्रृण्वतां ददाति रामः स्वपदं जगत्पतिः ॥१२५॥
इति श्रीनरसिंहपुराणे रामप्रादुर्भावे द्विपञ्चाशोऽध्यायः ॥५२॥