हारीत उवाच
क्षत्त्रादीनां प्रवक्ष्यामि यथावदनुपूर्वशः ।
येन येन प्रवर्तन्ते विधिना क्षत्त्रियादयः ॥१॥
राज्यस्थः क्षत्त्रियश्चैव प्रजा धर्मेण पालयेत् ।
कुर्यादध्ययनं सम्यग्यजेद्यज्ञान् यथाविधि ॥२॥
दद्याद्दानं द्विजाग्य्रेभ्यो धर्मबुद्धिसमन्वितः ।
स्वदारनिरतो नित्यं परदारविवर्जितः ॥३॥
नीतिशास्त्रार्थकुशलः संधिविग्रहतत्त्ववित् ।
देवब्राह्मणभक्तश्च पितृकार्यपरस्तथा ॥४॥
धर्मेणैव जयं काङ्क्षेदधर्मं परिवर्जयेत् ।
उत्तमां गतिमाप्नोति क्षत्रियोऽथैवमाचरन् ॥५॥
गोरक्षाकृषिवाणिज्यं कुर्याद्वैश्यो यथाविधि ।
दानधर्मं यथाशक्त्या गुरुशुश्रूषणं तथा ॥६॥
लोभदम्भविनिर्मुक्तः सत्यवागनसूयकः ।
स्वदारनिरतो दान्तः परदारविवर्जितः ॥७॥
धनैर्विप्रान समर्चेत यज्ञकाले त्वरान्वितः ।
यज्ञाध्ययनदानानि कुर्यान्नित्यमतन्द्रितः ॥८॥
पितृकार्य च तत्काले नरसिंहार्चनं तथा ।
एतद्वैश्यस्य कर्मोक्तं स्वधर्ममनुतिष्ठतः ॥९॥
एतदासेवमानस्तु स स्वर्गी स्यान्न संशयः ।
वर्णत्रयस्य शुश्रूषां कुर्याच्छूद्रः प्रयत्नतः ॥१०॥
दासवद्वाह्नणानां च विशेषेण समाचरेत ।
अयाचितं प्रदातव्यं कृषिं वृत्त्यर्थमाचरेत् ॥११॥
ग्रहाणां मासिकं कार्यं पूजनं न्यायधर्मतः ।
धारणं जीर्णवस्त्रस्य विप्रस्योच्छिष्टमार्जनम् ॥१२॥
स्वदारेषु रतिं कुर्यात् परदारविवर्जितः ।
पुराणश्रवणं विप्रान्नसिंहस्य पूजनम् ॥१३॥
तथा विप्रनमस्कारं कार्यं श्रद्धासमन्वितम् ।
सत्यसम्भाषणं चैव रागद्वेषविवर्जनम् ॥१४॥
इत्थं कुर्वन् सदा शूद्रो मनोवाक्वायकर्मभिः ।
स्थानमैन्द्रमवाप्नोति नष्टपापस्तु पुण्यभाक् ॥१५॥
वर्णेषु धर्मा विविधा मयोक्ता यथाक्रमं ब्राह्मणवर्यसाधिताः ।
श्रृणुध्वमत्राश्रमधर्ममाद्यं मयोच्यमानं क्रमशो मुनीन्द्राः ॥१६॥
हारीत उवाच
उपनीतो माणवको वसेदुरुकुले सदा ।
गुरोः प्रियहितं कार्यं कर्मणा मनसा गिरा ॥१७॥
ब्रह्मचर्यमधः शय्या तथा वह्नेरुपासनम् ।
उदकुम्भं गुरोर्दद्यात्तथा चेन्धनमाहरेत् ॥१८॥
कुर्यादध्ययनं पूर्वं ब्रह्मचारी यथाविधि ।
विधिं हित्वा प्रकुर्वाणो न स्वाध्यायफलं लभेत् ॥१९॥
यत्किंचित् कुरुते कर्म विधिं हित्वा निरात्मकः ।
न तत्फलमवाप्नोति कुर्वाणो विधिविच्युतः ॥२०॥
तस्मादेवं व्रतानीह चरेत् स्वाध्यायसिद्धये ।
शौचाचारमशेषं तु शिक्षयेद्गुरुसंनिधौ ॥२१॥
अजिनं दण्डकाष्ठं च मेखलां चोपवीतकम् ।
धारयेदप्रमत्तस्तु ब्रह्मचारी समाहितः ॥२२॥
सायं प्रातश्चरेद्भैक्षं भोजनं संयतेन्द्रियः ।
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ॥२३॥
अलाभे त्वन्यगेहानां पूर्वपूर्वं च वर्जयेत् ।
आचम्य प्रयतो नित्यमश्नीयाद्गुर्वनुज्ञया ॥२४॥
शयनात् पूर्वमुत्थाय दर्भमृद्दन्तशोधनम् ।
वस्त्रादिकमथान्यच्च गुरवे प्रतिपादयेत् ॥२५॥
स्नाने कृते गुरौ पश्चात् स्नानं कुर्वीत यत्नवान् ।
ब्रह्मचारी व्रती नित्यं न कुर्याद्दन्तशोधनम् ॥२६॥
छत्रोपानहमभ्यङ्गं गन्धमाल्यानि वर्जयेत् ।
नृत्यगीतकथालापं मैथुनं च विशेषतः ॥२७॥
वर्जयेन्मधु मांसं च रसास्वादं तथा स्त्रियः ।
कामं क्रोधं च लोभं च परिवादं तथा नृणाम् ॥२८॥
स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ।
एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् ॥२९॥
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ।
स्त्रात्वार्कमर्चयित्वाग्निं पुनर्मामित्यृचं जपेत् ॥३०॥
आस्तिकोऽहरहः संध्यां त्रिकालं संयतेन्द्रियः ।
उपासीत यथान्यायं ब्रह्मचारिव्रते स्थितः ॥३१॥
अभिवाद्य गुरोः पादौ संध्याकर्मावसानतः ।
यथायोग्यं प्रकुर्वीत मातापित्रोस्तु भक्तितः ॥३२॥
एतेषु त्रिषु तुष्टेषु तुष्टाः स्युः सर्वदेवताः ।
तदेषां शासने तिष्ठेद्र्वह्मचारी विमत्सरः ॥३३॥
अधीत्य चतुरो वेदान् वेदौ वेदमथापि वा ।
गुरवे दक्षिणां दत्त्वा तदा स्वस्वेच्छया वसेत् ॥३४॥
विरक्तः प्रव्रजेद्विद्वान् संरक्तस्तु गृही भवेत् ।
सरागो नरकं याति प्रव्रजन् हि ध्रुवं द्विजः ॥३५॥
यस्यैतानि सुशुद्धानि जिह्वोपस्थोदरं गिरः ।
संन्यसेदकृतोद्वाहो ब्राह्मणो ब्रह्मचर्यवान् ॥३६॥
एवं यो विधिमास्थाय नयेत् कालमतान्द्रितः ।
तेन भूयः प्रजायेत ब्रह्मचारी दृढव्रतः ॥३७॥
यो ब्रह्मचारी विधिमेतमास्थितश्चरेत् पृथिव्यां गुरुसेवने रतः ।
सम्प्राप्य विद्यामपि दुर्लभां तां फलं हि तस्याः सकलं हि विन्दति ॥३८॥
हारीत उवाच
गृहीतवेदाध्ययनः श्रुतिशास्त्रार्थतत्त्ववित् ।
गुरोर्दत्तवरः सम्यक् समावर्तनमारभेत् ॥३९॥
असमाननामगोत्रां कन्यां भ्रातृयुतां शुभाम् ।
सर्वावयवसंयुक्तां सद्वत्तामुद्वहेत्ततः ॥४०॥
नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
वाचालामतिलोमां च न व्यङ्गां भीमदर्शनाम् ॥४१॥
नर्क्षवृक्षनदीनाम्नीं नान्तपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥४२॥
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तन्वोष्ठकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम् ॥४३॥
ब्राह्मेण विधिना कुर्यात् प्रशस्तेन द्विजोत्तमः ।
यथायोगं तथा ह्येवं विवाहं वर्णधर्मतः ॥४४॥
उषः काले समुत्थाय कृतशौचो द्विजोत्तमः ।
कुर्यात् स्नानं ततो विद्वान्दन्तधावनपूर्वकम् ॥४५॥
मुखे पर्युषिते नित्यं यतोऽपूतो भवेन्नरः ।
तस्माच्छुष्कमथार्द्रं वा भक्षयेद्दन्तधावनम् ॥४६॥
खदिरं च कदम्बं च करञ्जं च वटं तथा ।
अपामार्गं च बिल्वं च अर्कश्चोदुम्बरस्तथा ॥४७॥
एते प्रशस्ताः कथिता दन्तधावनकर्मणि ।
दन्तधावनकाष्ठं च वक्ष्यामि तत्प्रशस्तताम् ॥४८॥
सर्वे कण्टकिनः पुण्याः क्षीरिणस्तु यशस्विनः ।
अष्टाङ्गुलेन मानेन तत्प्रमाणामिहोच्यते ॥४९॥
प्रादेशमात्रमथवा तेन दन्तान् विशोधयेत् ।
प्रतिपद्दर्शषष्ठीयु नवम्यां चैव सत्तमाः ॥५०॥
दन्तानां काष्ठसंयोगाद् दहत्यासप्तमं कुलम् ।
अलाभे दन्तकाष्ठस्य प्रतिषिद्धे च तद्दिने ॥५१॥
अपां द्वादशगण्डूषैर्मुखशुद्धिर्विधीयते ।
स्त्रात्वा मन्त्रवदाचम्य पुनराचमनं चरेत् ॥५२॥
मन्त्रवान् प्रोक्ष्य चात्मानं प्रक्षिपेदुदकाञ्जलिम् ।
आदित्येन सह प्रातर्मन्देहा नाम राक्षसाः ॥५३॥
युध्यन्ति वरदानेन ब्रह्मणोऽव्यक्तजन्मनः ।
उदकाञ्जलिविक्षेपो गायत्र्या चाभिमन्त्रितः ॥५४॥
तान् हन्ति राक्षसान् सर्वान् मन्देहान् रविवैरिणः ।
ततः प्रयाति सविता ब्राह्मणै रक्षितो दिवि ॥५५॥
मरीच्याद्यैर्महाभागैः सनकाद्यैश्च योगिभिः ।
तस्मान्न लङ्घयेत्संध्यां सायं प्रातर्द्विजः सदा ॥५६॥
उल्लङ्घयति यो मोहात्स याति नरकं ध्रुवम् ।
सायं मन्त्रवदाचम्य प्रोक्ष्य सूर्यस्य चाञ्जलिम् ॥५७॥
दत्त्वा प्रदक्षिणं कृत्वा जलं स्पृष्ट्वा विशुध्यति ।
पूर्वा संध्यां सनक्षत्रामुपक्रम्य यथाविधि ॥५८॥
गायत्रीमभ्यसेत्तावद्यावदृक्षाणि पश्यति ।
ततस्त्वावसथं प्राप्य होमं कुर्यात्स्वयं बुधः ॥५९॥
संचिन्त्य भृत्यवर्गस्य भरणार्थं विचक्षणः ।
ततः शिष्यहितार्थाय स्वाध्यायं किंचिदाचरेत् ॥६०॥
ईश्वरं चैव रक्षार्थमभिगच्छेदद्विजोत्तमः ।
कुशपुष्पेन्धनादीनि गत्वा दूरात्समाहरेत् ॥६१॥
माध्याह्निकीं क्रियां कुर्याच्छुचौ देशे समाहितः ।
विधिं स्नानस्य वक्ष्यामि समासात् पापनाशनम् ॥६२॥
स्त्रात्वा येन विधानेन सद्यो मुच्येत किल्बिषात् ।
सुधीः स्त्रानार्थमादाय शुक्लां कुशतिलैः सह ॥६३॥
सुमनाश्च ततो गच्छेन्नदीं शुद्धां मनोरमाम् ।
नद्यां तु विद्यमानायां न स्नायादल्पवारिषु ॥६४॥
शुचौ देशे समभ्युक्ष्य स्थापयेत्कुशमृत्तिकाम् ।
मृत्तोयेन स्वकं देहमभिप्रक्षाल्य यत्नतः ॥६५॥
स्नानाच्छरीरं संशोध्य कुर्यादाचमनं बुधः ।
शुभे जले प्रविश्याथ नमेद्वरुणमप्पतिम् ॥६६॥
हरिमेव स्मरंश्चित्ते निमज्जेच्च बहूदके ।
ततः स्नानं समासाद्य अप आचम्य मन्त्रतः ॥६७॥
प्रोक्षयेद्वरुणं देवं तैर्मन्त्रैः पावमानिभिः ।
कुशाग्रस्थेन तोयेन प्रोक्ष्यात्मानं प्रयत्ननः ॥६८॥
आलभेन्मृत्तिकां गात्रे इदं विष्णुरिति त्रिधा ।
ततो नारायणं देवं संस्मरन् प्रविशेज्जलम् ॥६९॥
निमज्ज्यान्तर्जले सम्यक्त्रिः पठेदघमर्षणम् ।
स्नात्वा कुशतिलैस्तद्वद्देवर्षीन् पितृभिः सह ॥७०॥
तर्पयित्वा जलात्तस्मान्निष्क्रम्य च समाहितः ।
जलतीरं समासाद्य धौते शुक्ले च वाससी ॥७१॥
परिधायोत्तरीयं च न कुर्यात्केशधूननम् ।
न रक्तमुल्बणं वासो न नीलं तत्प्रशस्यते ॥७२॥
मलाक्तं तु दशाहीनं वर्जयेदम्बरं बुधः ।
ततः प्रक्षालयेत्पादौ मृत्तोयेन विचक्षणः ॥७३॥
त्रिः पिबेद्वीक्षितं तोयमास्यं द्विः परिमार्जयेत् ।
पादौ शिरसि चाभ्युक्षेत्त्रिराचम्य तु संस्पृशेत् ॥७४॥
अङ्गुष्ठेन प्रदेशिन्या नासिकां समुपस्पृशेत् ।
अङ्गुष्ठकनिष्ठिकाभ्यां नाभौ हदि तलेन च ॥७५॥
शिरश्चाङ्गुलिभिः सर्वैर्बाहुं चैव ततः स्पृशेत् ।
अनेन विधिनाऽऽचम्य ब्राह्मणः शुद्धमानसः ॥७६॥
दर्भे तु दर्भपाणिः स्यात् प्राङ्मुखः सुसमाहितः ।
प्राणायामांस्तु कुर्वीत यथाशास्त्रमतन्द्रितः ॥७७॥
जपयज्ञं ततः कुर्याद्गायत्रीं वेदमातरम् ।
त्रिविधो जपयज्ञः स्यात्तस्य भेदं निबोधत ॥७८॥
वाचिकश्च उपांशुश्च मानसस्त्रिविधः स्मृतः ।
त्रयाणां जपयज्ञानां श्रेयः स्यादुत्तरोत्तरम् ॥७९॥
यदुच्चनीचस्वरितैः स्पष्टशब्दवदक्षरैः ।
शब्दमुच्चारयेद्वाचा जपयज्ञः स वाचिकः ॥८०॥
शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत् ।
किंचिन्मन्त्रं स्वयं विन्द्यादुपांशुः स जपः स्मृतः ॥८१॥
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ।
शब्दार्थचिन्तनं ध्यानं तदुक्तं मानसं जपः ॥८२॥
जपेन देवता नित्यं स्तूयमाना प्रसीदति ।
प्रसन्ना विपुलान् भोगान्दद्यान्मुक्तिं च शाश्वतीम् ॥८३॥
यक्षरक्षः पिशाचाश्च ग्रहाः सूर्यादिदूषणाः ।
जापिनं नोपसर्पन्ति दूरादेवापयान्ति ते ॥८४॥
ऋक्षादिकं परिज्ञाय जपयज्ञमतन्द्रितः ।
जपेदहरहः स्नात्वा सावित्रीं तन्मना द्विजः ॥८५॥
सहस्त्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं यो जपेन्नित्यं न स पापैर्हि लिप्यते ॥८६॥
अथ पुष्पाञ्जलिं दत्त्वा भानवे चोर्ध्वबाहुकः ।
उदुत्यं च जपेन्मन्त्रं चित्रं तच्चक्षुरित्यपि ॥८७॥
प्रदक्षिणमुपावृत्य नमस्कुर्याद्दिवाकरम् ।
स्वेन तीर्थेन देवादीनद्भिः संतर्पयेदबुधः ॥८८॥
देवान् देवगणांश्चैव ऋषीनृषिगणांस्तथा ।
पितृन् पितृगणांश्चैव नित्यं संतर्पयेदबुधः ॥८९॥
स्नानवस्त्रं ततः पीड्य पुनराचमनं चरेत् ।
दर्भेषु दर्भपाणिः स्याद्व्रह्ययज्ञविधानतः ॥९०॥
प्राङ्मुखो ब्रह्मयज्ञं तु कुर्याद्वुद्धिसमान्वितः ।
ततोऽर्घं भानवे दद्यात्तिलपुष्पजलान्वितम् ॥९१॥
उत्थाय मूर्धपर्यन्तं हंसः शुचिषदित्यृचा ।
जले देवं नमस्कृत्य ततो गृहगतः पुनः ॥९२॥
विधिना उपरुषसूक्तेन तत्र विष्णुं समर्चयेत् ।
वैश्वदेवं ततः कुर्याद्वलिकर्म यथाविधि ॥९३॥
गोदोहमात्रमतिथिं प्रतिवीक्षेत वै गृही ।
अदृष्टपूर्वमतिथिमागतं प्राक् समर्चयेत् ॥९४॥
आगत्य च पुनर्द्वारं प्रत्युत्थानेन साधुना ।
स्वागतेनाग्नयस्तुष्टा भवन्ति गृहमेधिनाम् ॥९५॥
आसनेन तु दत्तेन प्रीतो भवति देवराट् ।
पादशौचेन पितरः प्रीतिमायान्ति तस्य च ॥९६॥
अन्नाद्येन च दत्तेन तृप्यतीह प्रजापतिः ।
तस्मादतिथये कार्यं पूजनं गृहमेधिना ॥९७॥
भक्त्या च भक्तिमान्नित्यं विष्णुमभ्यर्च्य चिन्तयेत् ।
भिक्षां च भिक्षवे दद्यात्परिव्राडब्रह्मचारिणे ॥९८॥
आकल्पितान्नादुद्धत्य सर्वव्यञ्जनसंयुतम् ।
दद्याच्च मनसा नित्यं भिक्षां भिक्षोः प्रयत्नतः ॥९९॥
अकृते वैश्वदेवे तु भिक्षौ भिक्षार्थमागते ।
अवश्यमेव दातव्यं स्वर्गसोपानकारकम् ॥१००॥
उद्धृत्य वैश्वदेवान्नं भिक्षां दत्त्वा विसर्जयेत् ।
वैश्वदेवाकृतं दोषं शक्तो भिक्षुर्व्यपोहितुम् ॥१०१॥
सुवासिनीः कुमारीश्च भोजयित्वाऽऽतुरानपि ।
बालवृद्धांस्ततः शेषं स्वयं भुञ्जीत वै गृही ॥१०२॥
प्राङ्मुखोदङ्मुखो वापि मौनी च मितभाषणः ।
अन्नं पूर्वं नमस्कृत्य प्रहष्टेनान्तरात्मना ॥१०३॥
पञ्च प्राणाहुतीः कुर्यात्समन्त्रेण पृथक् पृथक् ।
ततः स्वादुकरं चान्नं भुञ्जीत सुसमाहितः ॥१०४॥
आचम्य देवतामिष्टां संस्मरेदुदरं स्पृशन् ।
इतिहासपुराणाभ्यां कंचित्कालं नयेद्वुधः ॥१०५॥
ततः संध्यामुपासीत बहिर्गत्वा विधानतः ।
कृतहोमश्च भुञ्जीत रात्रावतिथिमर्चयेत् ॥१०६॥
सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् ।
नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥१०७॥
शिष्यानध्यापयेत्तद्वदनध्यायं विवर्जयेत् ।
स्मृत्युक्तान् सकलान् पूर्वपुराणोक्तानपि द्विजः ॥१०८॥
महानवम्यां द्वादश्यां भरण्यामपि चैव हि ।
तथाक्षय्यतृतीयायां शिष्यान्नाध्यापयेद्वुधः ॥१०९॥
माघमासे तु सप्तम्यां रथ्यामध्ययनं त्यजेत् ।
अध्यापनमथाभ्यज्य स्नानकाले विवर्जयेत् ॥११०॥
दानं च विधिना देयं गृहस्थेन हितैषिणा ।
हिरण्यदानं गोदानं भूमिदानं विशेषतः ॥१११॥
एतानि यः प्रयच्छेत श्रोत्रियेभ्यो द्विजोत्तमः ।
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥११२॥
मङ्गलाचारयुक्तश्च शुचिः श्रद्धापरो गृही ।
श्राद्धं च श्रद्धया कुर्यात्स याति ब्रह्मणः पदम् ॥११३॥
जातावुत्कर्षमायाति नरसिंहप्रसादतः ।
स तस्मान्मुक्तिमाप्नोति ब्रह्मणा सह सत्तमाः ॥११४॥
एवं हि विप्राः कथितो मया वः समासतः शाश्वतधर्मराशिः ।
सम्यग्गृहस्थस्य सतो हि धर्मं कुर्वन् प्रयत्नाद्धरिमेति मुक्तः ॥११५॥
इति श्रीनरसिंहपुराणे गृहस्यधर्मो नामाष्टपञ्चाशोऽध्यायः ॥५८॥