सहस्त्रानीक उवाच
मार्कण्डेय महाप्राज्ञ सर्वशास्त्रविशारद ।
प्रादुर्भावं नृसिंहस्य यथावद्वक्तुमर्हसि ॥१॥
वद प्रह्लादचरितं विस्तरेण ममानघ ।
धन्या वयं महायोगिंस्त्वत्प्रसादान्महामुने ॥२॥
सुधां पिबामो दुर्लभ्यां धन्याः श्रीशकथाभिधाम् ।
श्रीमार्कण्डेय उवाच
पुरा हिरण्यकशिपोस्तपोऽर्थं गच्छतो वनम् ॥३॥
दिग्दाहो भूमिकम्पश्च जातस्तस्य महात्मनः ।
वारितो बन्धुभीर्भृत्यैर्मित्रैश्च हितकारिभिः ॥४॥
शकुना विगुणा राजञ्जातास्तच्च न शोभतम् ।
त्रैलोक्याधिपतिस्त्वं हि सर्वे देवाः पराजिताः ॥५॥
तवास्ति न भयं सौम्य किमर्थं तप्यते तपः ।
प्रयोजनं न पश्यामो वयं बुद्धया समन्विताः ॥६॥
यो भवेन्न्यूनकामो हि तपश्चर्यां करोति सः ।
एवं तैर्वार्यमाणोऽपि दुर्मदो मदमोहितः ॥७॥
यातः कैलासशिखरं द्वित्रैर्मित्रैः परीवृत्तः ।
तस्य संतप्यमानस्य तपः परमदुष्करम् ॥८॥
चिन्ता जाता महीपाल विरिञ्चेः पद्मजन्मनः ।
किं करोमि कथं दैत्यस्तपसो विनिवर्तते ॥९॥
इति चिन्ताकुलस्यैव ब्रह्मणोऽङ्गसमुद्भवः ।
प्रणम्य प्राह भूपाल नारदो मुनिसत्तमः ॥१०॥
नारद उवाच
किमर्थं खिद्यते तात नारायणपरायण ।
येषां मनसि गोविन्दस्ते वै नार्हन्ति शोचितुम् ॥११॥
अहं तं वारयिष्यामि तप्यन्तं दितिनन्दनम् ।
नारायणो जगत्स्वामी मतिं मे सम्प्रदास्यति ॥१२॥
मार्कण्डेय उवाच
इत्युक्त्वाऽऽनम्य पितरं वासुदेवं हदि स्मरन् ।
प्रयातः पर्वतेनैव सार्धं स मुनिपुङ्गवः ॥१३॥
कलविड्कौ तु तौ भूत्वा कैलासं पर्वतोत्तमम् ।
यत्रास्ते दितिजश्रेष्ठो द्वित्रैर्मित्रैः परीवृतः ॥१४॥
कृतस्नानो मुनिस्तत्र वृक्षशाखासमाश्रितः ।
श्रृण्वतस्तस्य दैत्यस्य प्राह गम्भीरया गिरा ॥१५॥
नमो नारायणायेति पुनः पुनरुदारधीः ।
त्रिवारं प्रजपित्वा वै नारदो मौनमाश्रितः ॥१६॥
तच्छुत्वा वचनं तस्य कलविङ्कस्य सादरम् ।
हिरण्यकशिपुर्दैत्यः कुद्धश्चापं समाददे ॥१७॥
बाणं धनुषि संधाय यावन्मुञ्चति तौ प्रति ।
तावदुड्डीय तौ भूप गतौ नारदपर्वतौ ॥१८॥
सोऽपि क्रोधपरीताङ्गो हिरण्यकशिपुस्तदा ।
त्यक्त्वा तमाश्रमं भूयो नगरं स्वं महीपते ॥१९॥
तस्यापि भार्या सुश्रोणी कयाधूर्नाम नामतः ।
तदा रजस्वला भूत्वा स्नाताभूद्दैवयोगतः ॥२०॥
रात्रावेकान्तसमये तया पृष्टः स दैत्यराट् ।
स्वामिन् यदा तपश्चर्यां कर्तुं गेहादवनं गतः ॥२१॥
तदा त्वयोक्तं वर्षाणामयुतं मे तपस्त्विदम् ।
तत्किमर्थं महाराज साम्प्रतं त्यक्तवान् व्रतम् ॥२२॥
तथ्यं कथय मे नाथ स्नेहात्पृच्छामि दैत्यप ।
हिरण्यकशिपुरुवाच
श्रृणु चार्वङ्गि मे तथ्यां वाचं व्रतविनाशिनीम् ॥२३॥
क्रोधस्यातीव जननीं देवानां मुदवर्द्धनीम् ।
कैलासशिखरे देवि महदानन्दकानने ॥२४॥
व्याहरन्तौ शुभां वाणीं नमो नारायणेति च ।
वारद्वयं त्रयं चिति व्याहतं वचनं शुभे ॥२५॥
तेन मे मनसि क्रोधो जातोऽतीव वरानने ।
कोदण्डे शरमाधाय यावन्मुञ्चामि भामिनि ॥२६॥
तावत्तौ पक्षिणौ भीतौ गतौ देशान्तरं त्वहम् ।
त्यक्त्वा व्रतं समायातो भाविकर्यबलेन वै ॥२७॥
मार्कण्डेय उवाच
इत्युच्यमाने वचने वीर्यद्रावोऽभवत्तदा ।
ऋतुकाले तु सम्प्राप्ते जातो गर्भस्तदैव हि ॥२८॥
पुनः प्रवर्धमानस्य गर्भे गर्भस्य धीमतः ।
नारदस्योपदेशेन वैष्णवः समजायत ॥२९॥
तदग्रे कथयिष्यामि भूप श्रद्धापरो भव ।
तस्य सूनुरभूद्भक्तः प्रह्लादो जन्मवैष्णवः ॥३०॥
सोऽवर्धतासुरकुले निर्मलो मलिनाश्रये ।
यथा कलौ हरेर्भक्तिः पाशसंसारमोचनी ॥३१॥
स वर्द्धमानो विरराज बालैः
सह त्रयीनाथपदेषु भक्त्या ।
बालोऽल्पदेहो महतीं महात्मा
विस्तारयन् भाति स विष्णु भक्तिम् ॥३२॥
यथा चतुर्थं युगमाप्तधर्म -
कामार्थमोक्षं किल कीर्तिदं हि ।
स बाललीलासु सहान्यडिम्भैः
प्रहेलिकाक्रीडनकेषु नित्यम् ॥३३॥
कथाप्रसङ्गेषु च कृष्णमेव
प्रोवाच यस्मात् स हि तत्स्वभावः ।
इत्थ्यं शिशुत्वेऽपि विचित्रकारी
व्यवर्द्धतेशस्मरणामृताशः ॥३४॥
तं पद्मवक्त्रं दैत्येन्द्रः कदाचित्स्त्रीवृतः खलः ।
बालं गुरुगृहायातं ददर्श स्वायतेक्षणम् ॥३५॥
गृहीत्वा तु करे पुत्रं पट्टिका या सुशोभना ।
मूर्ध्नि चक्राङ्किता पट्टी कृष्णनामाङ्किताऽऽदरात् ॥३६॥
तमाहूय मुदाविष्टो लालयन् प्राह पुत्रकम् ।
पुत्र ते जननी नित्यं सुधीर्मे त्वा प्रशंसति ॥३७॥
अथ तद्वद यक्तिंचिद गुरुवेश्मनि शिक्षितम् ।
विचार्यानन्दजननं सम्यगायाति तद्वद ॥३८॥
अथाह पितरं हर्षात् प्रह्लादो जन्मवैष्णवः ।
गोविन्द्रं त्रिजगद्वन्द्यं प्रभु नत्वा ब्रवीमि ते ॥३९॥
इति शत्रोः स्तवं श्रुत्वा पुत्रोक्तं स्त्रीवृतः खलः ।
कुद्धोऽपि तं वञ्चयितुं जहासोच्चैः प्रहष्टवत् ॥४०॥
आलिङ्ग्य तनयं प्राह श्रृणु बाल हितं वचः ।
राम गोविन्द कृष्णेति विष्णो माधव श्रीपते ॥४१॥
एवं वदन्ति ये सर्वे ते पुत्र मम वैरिणः ।
शासितास्तु मयेदानीं त्वयेदं क्व श्रुतं वचः ॥४२॥
पितुर्वचनमाकर्ण्य धीमानभयसंयुतः ।
प्रह्लादः प्राह हे आर्य मैवं ब्रूयाः कदाचन ॥४३॥
सर्वैश्चर्यप्रदं मन्त्रं धर्मादिपरिवर्धनम् ।
कृष्णेति यो नरो ब्रूयात् सोऽभयं विन्दते पदम् ॥४४॥
कृष्णानिन्दासमुत्थस्य अघस्यान्तो न विद्यते ।
राम माधव कृष्णेति स्मर भक्त्याऽऽत्मशुद्धये ॥४५॥
गुरवेऽपि ब्रवीम्येतद्यतो हितकरं परम् ।
शरण व्रज सर्वेशं सर्वपापक्षयंकरम् ॥४६॥
अथाह प्रकटक्रोधः सुरारिर्भर्त्सयन् सुतम् ।
केनायं बालको नीतो दशामेतां सुमध्यमाम् ॥४७॥
धिग् धिग्घाहेति दुष्पुत्र किं मे कृतमघं महत् ।
याहि याहि दुराचार पापिष्ठ पुरुषाधम ।
उक्त्वेति परितो वीक्ष्य पुनराह शिशोर्गुरुम् ॥४८॥
बद्द्धवा चानीयतां दैत्यैः क्रूरैः क्रूरपराक्रमैः ।
इति श्रुत्वा ततो दैत्यास्तमानीय न्यवेदयन् ।
धीमानूचे खलं भूपं देवान्तक परीक्षताम् ॥४९॥
लीलयैव जितं देव त्रैलोक्यं निखिलं त्वया ।
असकृन्न हि रोषेण किं क्रुद्धस्याल्पके मयि ॥५०॥
इति सामवचः श्रुत्वा द्विजोक्तं प्राह दैत्यराट् ।
विष्णुस्तवं मम सुतं पाप बालमपीपठः ॥५१॥
उक्त्वेति तनयं प्राह राजा साम्नामलं सुतम् ।
ममात्मजस्य किं जाड्यं तव चैतदद्विजैः कृतम् ॥५२॥
विष्णुपक्षैर्धुवं धूर्तैर्मूढ नित्यं परित्यज ।
त्यज द्विजप्रसङ्गं हि द्विजसङ्गो ह्यशोभनः ॥५३॥
अस्मत्कुलोचितं तेजो यैर्द्विजैस्तु तिरोहितम् ।
यस्य यत्संगतिः पुंसो मणिवत्स्यात्स तदगुणः ॥५४॥
स्वकुलद्धर्यै ततो धीमान् स्वयूथानेव संश्रयेत् ।
मत्सुतस्योचितं त्यक्त्वा विष्णुपक्षीयनाशनम् ॥५५॥
स्वयमेव भजन् विष्णुं मन्द किं त्वं न लज्जसे ।
विश्वनाथस्य मे सूनुर्भूत्वान्यं नाथमिच्छसि ॥५६॥
श्रृणु वत्स जगत्तत्त्वं कश्चिन्नास्ति निजः प्रभुः ।
यः शूरः स श्रियं भुइक्ते स प्रभुः स महेश्वरः ॥५७॥
स देवः सकलाध्यक्षो यथाहं त्रिजगज्जयी ।
त्यज जाड्यमतः शौर्यं भजस्व स्वकुलोचितम् ॥५८॥
अन्येऽपि त्वां हनिष्यन्ति वदिष्यन्ति जनास्त्विदम् ।
असुरोऽयं सुरान् स्तौति मार्जार इव मूषकान् ॥५९॥
द्वेष्यान् शिखीव फणिनो दुर्निमित्तमिदं ध्रुवम् ।
लब्ध्वापि महदैश्वर्यं लाघवं यान्त्यबुद्धयः ॥६०॥
यथायं मत्सुतः स्तुत्यः स्तावकान् स्तौति नीचवत् ।
रे मूढ दृष्ट्वाप्यैश्चर्यं मम ब्रूषे पुरो हरिम् ॥६१॥
असदृशस्य तु हरेः स्तुतिरेषा विडम्बना ।
इत्युक्त्वा तनयं भूप जातक्रोधो भयानकः ॥६२॥
जिह्नं निरीक्ष्य च प्राह तदगुरुं कम्पयन् रुषा ।
याहि याहि द्विजपशो साधु शाधि सुतं मम ॥६३॥
प्रसाद इत्येष वदन् स विप्रो
जगाम गेहं खलराजसेवी ।
विष्णुं विसृज्यान्वसरच्च दैत्यं
किं वा न कुर्युर्भरणाय लुब्धाः ॥६४॥
इति श्रीनरसिंहपुराणे नृसिंहप्रादुर्भावे एकचत्वारिंशोऽध्यायः ॥४१॥