हारीत उवाच
वर्णानामाश्रमाणां च कथितं धर्मलक्षणम् ।
यतः स्वर्गापवर्तौ तु प्राप्नुयुस्ते द्विजादयः ॥१॥
योगशास्त्रस्य वक्ष्यामि संक्षेपात्सारमुत्तमम् ।
यस्याभ्यासबलाद्यान्ति मोक्षं चेह मुमुक्षवः ॥२॥
योगाभ्यासरतस्येह नश्येयुः पातकानि च ।
तस्मद्योगपरो भूत्वा ध्यायेन्नित्यं क्रियान्तरे ॥३॥
प्राणायामेन वचनं प्रत्याहारेण चेन्द्रियम् ।
धारणाभिर्वशीकृत्य पुनर्दुर्धर्षणं मनः ॥४॥
एकं कारणमानन्दबोधं च तमनामयम् ।
सूक्ष्मात्सूक्ष्मतरं ध्यायेज्जगदाधारमच्युतम् ॥५॥
आत्मानमरविन्दस्थं तप्तचामीकरप्रभम् ।
रहस्येकान्तमासीत ध्यायेदात्महदि स्थितम् ॥६॥
यः सर्वप्राणचित्तज्ञो यः सर्वेषां हदि स्थितः ।
यश्च सर्वजनैर्ज्ञेयः सोऽहमस्मीति चिन्तयेत् ॥७॥
आत्मलाभसुखं यावत्तावद्ध्यानमुदाहतम् ।
श्रुतिस्मृत्युदितं कर्म तत्तदूर्ध्वं समाचरेत् ॥८॥
यथाश्वा रथहीनाश्च रथाश्चाश्वैर्विना यथा ।
एवं तपश्च विद्या च उभावपि तपस्विनः ॥९॥
यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम् ।
एवं तपश्च विद्या च संयुक्ते भेषजं महत् ॥१०॥
द्वाभ्यामेव हि पक्षाभ्यां यथा वै पक्षिणां गतिः ।
तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् ॥११॥
विद्यातपोभ्यां सम्पन्नो ब्राह्मणो योगतत्परः ।
देहद्वन्द्वं विहायाशु मुक्तो भवति बन्धनात् ॥१२॥
न देवयानमार्गेण यावत्प्राप्तं परं पदम् ।
न तावद्देहलिङ्गस्य विनाशो विद्यते क्वचित् ॥१३॥
मया वः कथितः सर्वो वर्णाश्रमविभागशः ।
संक्षेपेण द्विजश्रेष्ठा धर्मस्तेषां सनातनः ॥१४॥
मार्कण्डेय उवाच
श्रुत्वैवमृषयो धर्मं स्वर्गमोक्षफलप्रदम् ।
प्रणम्य तमृषिं जग्मुर्मुदितास्ते स्वमालयम् ॥१५॥
धर्मशास्त्रमिदं यस्तु हारीतमुखनिस्सृतम् ।
श्रुत्वा च कुरुते धर्मं स याति परमां गतिम् ॥१६॥
मुखजस्य तु यत्कर्म कर्म यद्वाहुजस्य तु ।
ऊरुजस्य तु यत्कर्म पादजस्य तथा नृप ॥१७॥
स्वं स्वं कर्म प्रकुर्वाणा विप्राद्या यान्ति सद्गतिम् ।
अन्यथा वर्तमानो हि सद्यः पतति यात्यधः ॥१८॥
य स्य येऽभिहिता धर्माः स तु तैस्तैः प्रतिष्ठितः ।
तस्मात्स्वधर्मं कुर्वीत नित्यमेवमनापदि ॥१९॥
चतुर्वर्णाश्च राजेन्द्र चत्वारश्चापि चाश्रमाः ।
स्वधर्मं येऽनुतिष्ठन्ति ते यान्ति परमां गतिम् ॥२०॥
स्वधर्मेण यथा नृणां नरसिंह तथार्चयेत् ॥२१॥
उत्पन्नवैराग्यबलेन योगाद् ध्यायेत् परं ब्रह्म सदा क्रियावान् ।
सत्यात्मकं चित्सुखरुपमाद्यं विहाय देहं पदमेति विष्णोः ॥२२॥
इति श्रीनरसिंहपुराणम योगाध्यायो नामैकषष्टितमोऽध्यायः ॥६१॥