राजोवाच
मार्कण्डेय कथं शुक्रः पुरा बलिमखे गुरुः ।
वामनेन स विद्धाक्षः स्तुत्वा तल्लब्धवान् कथम् ॥१॥
मार्कण्डेय उवाच
वामनेन स विद्धाक्षो बहुतीर्थेषु भार्गवः ।
जाह्ववीसलिले स्थित्वा देवमभ्यर्च्य वामनम् ॥२॥
ऊर्ध्वबाहुः स देवेशं शंखचक्रगदाधरम् ।
हदि संचिन्त्य तुष्टाव नरसिंहं सनातनम् ॥३॥
शुक्र उवाच
नमामि देवं विश्वेशं वामनं विष्णुरुपिणम् ।
बलिदर्पहरं शान्तं शाश्वतं पुरुषोत्तमम् ॥४॥
धीरं शूरं महादेवं शङ्खचक्रगदाधरम् ।
विशुद्धं ज्ञानसम्पन्नं नमामि हरिमच्युतम् ॥५॥
सर्वशक्तिमयं देवं सर्वगं सर्वभावनम् ।
अनादिमजरं नित्यं नमामि गरुडध्वजम् ॥६॥
सुरासुरैर्भक्तिमद्भिः स्तुतो नारायणः सदा ।
पूजितं च हषीकेशं तं नमामि जगदगुरुम् ॥७॥
हदि संकल्प्य यद्रूपं ध्यायन्ति यतयः सदा ।
ज्योतीरुपमनौपम्यं नरसिंहं नमाम्यहम् ॥८॥
न जानन्ति परं रुपं ब्रह्माद्या देवतागणाः ।
यस्यावताररुपाणि समर्चन्ति नमामि तम् ॥९॥
एतत्समस्तं येनादौ सृष्टं दुष्टवधात्पुनः ।
त्रातं यत्र जगल्लीनं तं नमामि जनार्दनम् ॥१०॥
भक्तैरभ्यर्चितो यस्तु नित्यं भक्तप्रियो हि यः ।
तं देवममलं दिव्यं प्रणमामि जगत्पतिम् ॥११॥
दुर्लभं चापि भक्तानां यः प्रयच्छति तोषितः ।
तं सर्वसाक्षिणं विष्णुं प्रणमामि सनातनम् ॥१२॥
श्रीमार्कण्डेय उवाच
इति स्तुतो जगन्नाथः पुरा शुक्रेण पार्थिव ।
प्रादुर्बभूव तस्याग्रे शङ्खचक्रगदाधरः ॥१३॥
उवाच शुक्रमेकाक्षं देवो नारायणस्तदा ।
किमर्थं जाह्नवीतीरे स्तुतोऽहं तद्ववीहि मे ॥१४॥
शुक्र उवाच
देवदेव मया पूर्वमपराधो महान् कृतः ।
तद्दोषस्यापनुत्यर्थं स्तुतवानस्मि साम्प्रतम् ॥१५॥
श्रीभगवानुवाच
ममापराधान्नयनं नष्टमेकं तवाधुना ।
संतुष्टोऽस्मि ततः शुक्र स्तोत्रेणानेन ते मुने ॥१६॥
इत्युक्त्वा देवदेवेशस्तं मुनिं प्रहसन्निव ।
पाञ्चजन्येन तच्चक्षुः पस्पर्श च जनार्दनः ॥१७॥
स्पृष्टमात्रे तु शङ्खेन देवदेवेन शार्ङ्गिणा ।
बभूव निर्मलं चक्षुः पूर्ववन्नृपसत्तम ॥१८॥
एवं दत्त्वा मुनेश्चक्षुः पूजितस्तेन माधवः ।
जगामादर्शनं सद्यः शुक्रोऽपि स्वाश्रमं ययौ ॥१९॥
इत्येतदुक्तं मुनिना महात्मना प्राप्तं पुरा देववरप्रसादात् ।
शुक्रेण किं ते कथयामि राजन् पुनश्च मां पृच्छ मनोरथान्तः ॥२०॥
इति श्रीनरसिंहपुराणे शुक्रवरप्रदानो नाम पञ्चपञ्चाशोऽध्यायः ॥५५॥