मार्कण्डेय उवाच
नानात्वादवताराणामच्युतस्य महात्मनः ।
न शक्यं विस्तराद् वक्तुं तान् ब्रवीमि समासतः ॥१॥
पुरा किल जगत्स्त्रष्टा भगवान् पुरुषोत्तमः ।
अनन्तभोगशयने योगनिद्रां समागतः ॥२॥
अथ तस्य प्रसुप्तस्य देवदेवस्य शार्ङ्गिणः ।
श्रोत्राभ्यामपतत् तोये स्वेदबिन्दुद्वयं नृप ॥३॥
मधुकैटभनामानौ तस्माज्जातौ महाबलौ ।
महाकायौ महावीर्यो महाबलपराक्रमौ ॥४॥
अच्युतस्य प्रसुप्तस्य महत्पद्ममजायत ।
नाभिमध्ये नृपश्रेष्ठ तस्मिन् ब्रह्माभ्यजायत ॥५॥
स चोक्तो विष्णुना राजन् प्रजाः सृज महामते ।
तथेत्युक्त्वा जगन्नाथं ब्रह्मापि कमलोद्भवः ॥६॥
वेदशास्त्रवशाद्यावत् प्रजाः रुष्टं समुद्यतः ।
तावत्तत्र समायातौ तावुभौ मधुकैटभौ ॥७॥
आगत्य वेदशास्त्रार्थविज्ञानं ब्रह्मणः क्षणात् ।
अपहत्य गतौ घोरौ दानवौ बलदर्पितौ ॥८॥
ततः पद्मोद्भवो राजन् ज्ञानहीनोऽभवत् क्षणात् ।
दुःखिताश्चिन्तयामास कथं स्त्रक्ष्यामि वै प्रजाः ॥९॥
चोदितस्त्वं सृजस्वेति प्रजा देवेन तत्कथम् ।
स्रक्ष्येऽहं ज्ञानहीनस्तु अहो कष्टमुपस्थितम् ॥१०॥
इति संचिन्त्य दुःखार्तो ब्रह्मा लोकपितामहः ।
यत्नतो वेदशास्त्राणि स्मरन्नपि न दृष्टवान् ॥११॥
ततो विषण्णचित्तस्तु तं देवं पुरुषोत्तमम् ।
एकाग्रमनसा सम्यक् शास्त्रेण स्तोतुमारभत् ॥१२॥
ब्रह्मोवाच
ॐ नमो वेदनिधये शास्त्राणां निधये नमः ।
विज्ञाननिधये नित्यं कर्मणां निधये नमः ॥१३॥
विद्याधराय देवाय वागीशाय नमो नमः ।
अचिन्त्याय नमो नित्यं सर्वज्ञाय नमो नमः ॥१४॥
अमूर्तिस्त्वं महाबाहो यज्ञमूर्तिरधोक्षज ।
साम्नां मूर्तिस्त्वमेवाद्य सर्वदा सर्वरुपवान् ॥१५॥
सर्वज्ञानमयोऽसि त्वं हदि ज्ञानमयोऽच्युत ।
देहि मे त्वं सर्वज्ञानं देवदेव नमो नमः ॥१६॥
मार्कण्डेय उवाच
इत्थं स्तुतस्तदा तेन शङ्खचक्रगदाधरः ।
ब्रह्माणमाह देवेशो दास्ये ते ज्ञानमुत्तमम् ॥१७॥
इत्युक्त्वा तु तदा विष्णुश्चिन्तयामास पार्थिव ।
केनास्य नीतं विज्ञानं केन रुपेण चादधे ॥१८॥
मधुकैटभकृतं सर्वामिति ज्ञात्वा जनार्दनः ।
मात्स्यं रुपं समास्थाय बहुयोजनमायतम् ।
बहुयोजनविस्तीर्णं सर्वज्ञानमयं नृप ॥१९॥
स प्रविश्य जलं तूर्णं क्षोभयामास तद्धरिः ।
प्रविश्य च स पातालं दृष्टवान्मधुकैटभौ ॥२०॥
तौ मोहयित्वा तुमुलं तञ्ज्ञानं जगृहे हरिः ।
वेदशास्त्राणि मुनिभिः संस्तुतो मधुसूदनः ॥२१॥
आनीय ब्रह्मणे दत्त्वा त्यक्त्वा तन्मास्यकं नृप ।
जगद्धिताय स पुनर्योगनिद्रावशं गतः ॥२२॥
ततः प्रबुद्धौ संक्रुद्धौ तावुभौ मधुकैटभौ ।
आगत्य ददृशाते तु शयानं देवमव्ययम् ॥२३॥
अयं स पुरुषो धूर्त्त आवां सम्मोह्य मायया ।
आनीय वेदशास्त्राणि दत्त्वा शेतेऽत्र साधुवत् ॥२४॥
इत्युक्त्वा तौ महाघौरौ दानवौ मधुकैटभौ ।
बोधयामासतुस्तूर्णं शयानं केशवं नृप ॥२५॥
युद्धार्थमागतावत्र त्वया सह महामते ।
आवयोर्देहि संग्रामं युध्यस्वोत्थाय साम्प्रतम् ॥२६॥
ज्याघोषतलघोषेण शङ्खशब्देन माधवः ।
खं दिशः प्रदिशश्चैव पूरयामास लीलया ॥२८॥
तौ च राजन् महावीर्यौ ज्याघोषं चक्रतुस्तदा ।
युयुधाते महाघोरौ हरिणा मधुकैटभौ ॥२९॥
कृष्णश्च युयुधे ताभ्यां लीलया जगतः पतिः ।
समं युद्धमभूदेवं तेषामस्त्राणि मुञ्चताम् ॥३०॥
केशवः शार्ङ्गनिर्मुक्तैः शरैराशीविषोपमैः ।
तानि शस्त्राणि सर्वाणि चिच्छेद तिलशस्तदा ॥३१॥
तौ युद्धवा सुचिरं तेन दानवौ मधुकैटभौ ।
हतौ शार्ङ्गविनिर्मुक्तैः शरैः कृष्णेन दुर्मदौ ॥३२॥
तयोस्तु मेदसा राजन् विष्णुना कल्पिता मही ।
मेदिनीति ततः संज्ञामवापेयं वसुंधरा ॥३३॥
एवं कृष्णप्रसादेन वेदाँल्लब्ध्वा प्रजापतिः ।
प्रजाः ससर्ज भूपाल वेददृष्टेन कर्मणा ॥३४॥
य इदं श्रृणुयान्नित्यं प्रादुर्भावं हरेर्नृप ।
उषित्वा चन्द्रसदने वेदविदब्राह्मणो भवेत् ॥३५॥
मात्स्यं वपुस्तन्महदद्रितुल्यं विद्यामयं लोकहिताय विष्णुः ।
आस्थाय भीम्म जनलोकसंस्थैः स्तुतोऽथ यस्तं स्मर भूमिपाल ॥३६॥
इति श्रीनरसिंहपुराणे मत्स्यप्रादुर्भावो नाम सप्तत्रिशोऽध्यायः ॥३७॥