संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
अथान्योन्यालंकार:

रसगंगाधरः - अथान्योन्यालंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


द्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यम्‍ ॥

विशेषश्च क्तियादिरूप: । यथा-

‘ सदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया । अलिकेन च हेमकान्तिना विदधे कापि रुचि: परस्परम्‍ ॥ ’

अत्र गुणरूपविशेषाधानम्‍, रुचेर्गुणत्वात्‍ । न च विधानरूपक्तिया-त्मकविशेषाधानमिह शड्कयम्‍ । भावनासामान्यरूपस्य विधानस्याचमत्कारि-त्वेनाविशेषत्वात्‍ ।

‘ परपूरुषदृष्टिपातवज्राहतिभीता ह्लदयं प्रियस्य सीता । अविशत्परकामिनीभुजंगीभयत: सत्वरमेव सो‍ऽपि तस्या: ॥ ’

अत्र क्तियारूपविशेषाधानम्‍ ।

यत्तु-

“-‘ यथोर्ध्वाक्ष: पिबत्यम्बु पथिको विरलाडुलि: । तथा प्रपापालिकापि धारां वितनुते तनुम्‍ ॥ ’

अत्र प्रपापालिकाया: पथिकेन स्वासक्त्या पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमीभलषन्त्या विरलाडुलिकरणतश्चिरं पानीयपानानुवृत्ति-संपादनेनोपकार: कृत: । तथा प्रपापालिकयापि स्वमुखावलोकनमभिलषत: पथिकस्य धारातनूकरणतश्चिरं पानीयदानानुवृत्तिसंपादनेनोपकार: कृत: । ”
इति कुवलयानन्दकार आह । तन्न । तावदियं पदरचनैवायुष्मतो ग्रन्थ-कर्तुर्व्युत्पत्तिशैथिल्यभुद्निरति । तथा हि-स्वमुखावलोकनमभिलषन्त्या

इत्यत्र स्वशब्दस्य प्रपापालिकाविशेषणघटकत्वेन प्रपापालिकाबोधकत्वमेव न्याय्यम्‍ , न पान्थबोधकत्वम्‍ । एवं स्वमुखावलोकनमभिलषत इत्यत्रापि पान्थबोधकत्वमेव, न त्वदिष्टप्रपापालिकाबोधकत्वम्‍ । एवं स्थितेऽर्थासंगति: स्पष्टैव । न च सर्वनाम्नां बुद्धिस्थप्रकारावच्छिन्ने शक्तत्वादिष्टबोधोपपत्ति-रिति वाच्यम्‍ । तदिदमस्मद्युष्मदादिष्विव तत्तद्विशेषव्युत्पत्तेरपि कल्पनीय-त्वात्‍ । सा च प्रकृते यद्विशेषणघटकत्वेन स्वनिजादय: शब्दा उपात्तास्त-द्वोधका इत्येवंरूपा । तेन ‘ स्वदाररतानां विप्राणामहं भक्त:, देवदत्तस्य पुत्र: स्वमातृभक्त: ’ इत्यादौ मदीयदाररतानामिति, देवदत्तमातृभक्त इति

च न कस्याप्यभ्रान्तस्य स्वरसवाहिनी प्रतीति: । अत एव-‘ निजतनुस्व-च्छलावण्यवापीसंभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्या: ’इत्यत्र ‘ दण्डपादगता तनु: प्रतीयते । भवानीगता तु सा अप्रेक्षिता ’ इति व्युत्पन्नशिरोमणिभिर्मम्मटभट्टै: काव्यप्रकाशेऽभिहितम्‍ । न चेदं श्रुति-काटवादिवत्काव्यमात्रविषयं दूषणमिति वाच्यम्‍ । शाब्दव्युत्पत्तौ काव्यस्या-

नन्तर्भावात्‍ । मदीयदाररतानामिति, देवदत्तमातृभक्त इति च तात्पर्येण प्रागुक्तवाक्यप्रयोक्तुरनुपहसनीयतापत्तेश्च । किं च परस्परोपकारो हि स्वव्य-धिकरणव्यापारसाध्य एव चमत्कारित्वाल्लक्षणघटक:, न तु स्वसमाना-धिकरणतत्साध्योऽपि । तत्र हि तुषारशिशिरीकरणन्यायेनान्यव्यापारस्या-नावश्यकतया चमत्कारिताविरहात्‍ । इह हि धारातनूकरणाडुलिविरली-

करणयो: कर्तृभ्यां स्वस्वकर्तृकचिरकालदर्शनार्थं प्रयुक्तयोस्तत्रैवोपयोग-श्चमत्कारी, नान्यकर्तृकचिरकालदर्शन इत्यनुदाहरणमेवैतदस्यालंकारस्येति सह्लदया विचारयन्तु ।

इति रसगंगाधरेऽन्योन्यालंकारप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP