रसगंगाधरः - कारणमाला अलंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
सैव शृडखला आनुगुण्यस्य कार्यकारणभावरूपत्वे कारणमाला ॥
तत्र पूर्वं पूर्वं कारणं परं परं कार्यमित्येका । पूर्वं पूर्वं कार्यं परं परं कारणमित्यपरा । यथाक्तमेण यथा-
‘ लभ्येत पुण्यैर्गृहिणी मनोज्ञा तया सुपुत्रा: परित: पवित्रा: । स्फीतं यशस्तै: समुदेति नूनं तेनास्य नित्य: खलु नाकलोक: ॥ ’
‘ स्वर्गापवर्गौ खलु दानलक्ष्मीर्दानं प्रसूते विपुला समृद्धि: । समृद्धिमल्पेतरभागधेयं भाग्यं च शंभो तव पादभक्ति: ॥’
इह च यद्यादौ कारणोक्तिरेव स्तूयते तदा पुनस्तस्य कारणं तस्यापि कारणमिति, तत्कस्यचित्कारणं तदपि कस्यचिदिति वा कारणमाला
युक्ता । यदा तु कार्योक्तिस्तदा तस्य कार्यं तस्यापि कार्यमिति, तत्कस्यचि-त्कार्यं तदपि कस्यचिदिति वा युक्ता । सर्वथैव य: शब्द: कार्यकारणतोप-स्थापक आदौ प्रयुक्त: स एव निर्वाह्य: । एवंक्रमेण निबन्धनमाकाड्क्षानु-रूपत्वाद्रमणीयम् । अन्यथा तु भग्नप्रक्तमं स्यात् ।
यथा प्राचीनानां पद्यम्-
‘ जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि संपद: ॥ ’
अत्र जितेन्द्रियत्वं विनयस्य कारणं श्रुत्वा जितेन्द्रियत्वस्यापि किं कारणमिति, विनय: कस्य कारणमिति वा आकाड्क्षोदेति । कारणस्यैव
श्रुतिवशात्पूर्वमुपस्थिते: । कारणं तु ज्ञातम्, कार्यं पुनरस्य किमिति क्कचिदाकाड्क्षा तु कार्यत्व-कारणत्वयो: संबन्धिपदार्थत्वात्कारणश्रुत्युत्तर-मेकसंबन्धिज्ञानाधीनकार्यत्वोपस्थित्या संगमनीया । न त्वसौ सार्वत्रिकी । एवं च विनय: कस्य कारणमित्याकाड्क्षायां गुणप्रकर्षो विनयादवाप्यत इति वाक्यं यद्यपि फलत: परिपूरकं भवति, तथापि न साक्षादित्यह्लदयं-गममेव । तथा गुणप्रकर्षात्किमाप्यत इत्याकाड्क्षायां गुणाधिके पुंसीति च । अत्र च कथितपदत्वं न दोष: । प्रत्युत पदान्तरेण तस्यार्थस्योक्तौ
रूपान्तरेण स्थितस्य नटस्येव प्रत्यभिज्ञाप्रतिरोधकत्वाद्विवक्षितार्थसिद्धेर-कुण्ठितत्वविरहाद्दोष: स्यात् । शब्दादुपस्थितेऽर्थे प्रवृत्तिनिमित्तमिव शब्दोऽपि विशेषणतया भासते । तथा चोक्तम्-‘ न सोऽस्ति प्रत्ययो लोके य:शब्दानुगमादृते ’ इति । तत्तच्छब्दस्य विशिष्टश्चार्थ: स्वरूपेणाभिन्नोऽपि विशेषणभेदाद्विलक्षण: प्रतीयते कुण्डगोलकादिवत् । ननु कुण्डगोलकादि-पदेषु मृतामृतभर्तृकत्वादिरूपविशेषणघटितं प्रवृत्तिनिमित्तमित्यस्तु भिन्ना-
कार: प्रत्यय: । ताम्र: शोणो रक्त इत्यादौ तु ताम्रादिशब्दानां शक्तत्वेन शक्यतानवच्छेदकत्वाच्छक्यतावच्छेदकस्य च गुणगतजातिविशेषस्या-भिन्नत्वादभिन्नाकार: प्रत्यय एवोचित इति चेत्, सत्यम् ।
‘ उदेति सविता ताम्रस्ताम्र एवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता ॥ ’
इत्यत्र वैलक्षण्यशून्यतारूपस्यैकरूप्यस्य यथा प्रत्यय:, न तथा ‘ उदेति मविता ताम्रो रक्त एवास्तमेति च ’ इत्यत्र, इति सकलानुभवसिद्धम् । एवं च प्रवृत्तिनिमित्तभिन्नस्यापि शब्दस्य यदि शक्यविशेषणत्वं वैलक्षण्या-न्यथानुपपत्त्यानुभवबलेन च सिद्धं तदा तदनुगुणैव व्युत्पत्ति: शब्दानां कल्प्यतें । सा च वृत्तिसंबन्धेनार्थविशिष्टशाब्दज्ञानत्वेन शब्दविशिष्टार्थो-
पस्थितित्वेन च सामान्यकार्यकारणभावरूपा । घटत्वादितत्तत्प्रवृत्तिनिमित्त-प्रकारकबोधत्वेन तु वृत्तिसंबन्धेन घटविशिष्टपदज्ञानत्वादिना च विशे-षतोऽपर: कार्यकारणभाव: । विशेषसामग्रीसहिताया एव सामान्य-
सामग्र्या जनकतेति न कश्चिद्दोष: । यद्वा वृत्तिसंबन्धेन घटादिविशिष्टपद-ज्ञानत्वेन घटादिपद-घटत्वोभयप्रकारघटादिविशेष्यकोपस्थितित्वेन च कार्यकारणभाव: । पदार्थोपस्थितिशाब्दबोधयो: समानाकारत्वाच्छाब्द-बोधेऽपि पदभानम् । अनुभवबलाच्च प्रामाणिकं गौरवं न दोषाय । एत-दभिसंधायैवोक्तम्-‘ न सोऽस्ति ’ इत्यादि ।
इति रसगंगाधरे कारणमालाप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP