रसगंगाधरः - परिवृत्ति अलंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ परिवृत्ति: -
परकीययक्तिंचिद्वस्त्वादानविशिष्टं परस्मै स्वकीययत्किंचिद्वस्तु-समर्पणं परिवृत्ति: ॥
क्तय इति यावत् । सा च तावहिउविधा-समपरिवृत्तिर्विषमपरिवृत्ति-श्चेति । समपरिवृत्तिरपि द्विविधा-उत्तमैरुत्तमानां न्यूनैर्न्यूनानां चेति । विषमपरिवृत्तिरपि तथा-उत्तमैर्न्यूनानां न्यूनैरुत्तमानां चेति । क्रमेणो-
दाहरणानि-
‘ अड्रानि दत्त्वा हेमाड्रि प्राणान्क्तीणासि चेत्रृणाम् । युक्तमेतन्न तु पुनर्लोचनाम्बुरुहद्वयम् ॥ ’
अत्र पूर्वार्ध एव समपरिवृत्ति:, उत्तरार्धेतु विषमैव ।
‘ अस्थिमालामयीं दत्वा मुण्डमालामयीं तनुम् । गृह्लतां त्वत्पुरस्थानां को लाभ: स्मरशासन ॥’
‘ गरिमाणमर्पयित्वा लघिमानं कुचयुगात्कुरड्रदृशाम् । स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥ ’
‘ किमहं कथयामि योषितामधरं बिम्बफलं समर्प्य या: । सुरसानि हरन्ति हन्त हा विदुषां पुण्यफलनि सत्वरम् ॥’
एषु दानादानव्यवहार: कविकल्पित एव, न तु वास्तव: । यत्र वास्तव-स्तत्र नालंकार: । यथा-‘क्रीणन्ति प्रविकचलोचना: समन्तान्मुक्ताभि-र्बदरफलनि यत्र बाला: । ’
इदं चापरं बोध्यम्- अत्र परस्मै स्वकीययक्तिंचिद्वस्तुसमर्पणमित्येता-वत्पर्यन्तं लक्षणे विवक्षितम्, न तु स्वकीययत्किंचिद्वस्तुत्यागमात्रम् । ‘ किशोरभावं परिहाय रामा बभार कामानुगुणां प्रणालीम् । इत्यत्राति-व्याप्त्यापत्ते: । न चेदं लक्ष्यमेवेति वाच्यम् । पूर्वावस्थात्यागपूर्वक-मुत्तरावस्थाग्रहणस्य वास्तवत्वेनानलंकारत्वात् । एवं स्थिते ‘ विनिमयोऽत्र
किंचित्त्यक्त्वा कस्यचिदादानम्’ इत्यलंकारसर्वस्वकृता यल्लक्षणं परिवृत्ते: कृतम्, यच्च ‘ किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् ’ इत्युदाह्लतम्, तदुभयमप्यसदेव ।
इति रसगंगाधरे परिवृत्तिप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP