रसगंगाधरः - सामान्य अलंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ सामान्यम्-
प्रत्यक्षविषयस्यापि वस्तुनो बलवत्सजातीयग्रहणकृतं तद्भिन्नत्वेनाग्रहणं सामान्यम् ॥
भीलिते तु निगूह्यमानस्तु न प्रत्यक्षविषय इति न तत्रातिव्याप्ति: ।
उदाहरणम्-
‘ यस्मिन्हिमानीनिकरावदाते चन्द्रांशुकैवल्यमिव प्रयाते । पुच्छाश्रयाभ्यां विकला इवाद्रौ चरन्ति राकासु चिरं चमर्य: ॥ ’
अत्र चन्द्रिकान्त: पृथक्त्वेन हिमाचल-चमरीपुच्छयोरदर्शना-दुत्प्रेक्षोत्पत्तिरिति तस्यां सामान्यं गुण: ।
केचित्तु--“ प्रागुक्तलक्षणे ‘ भिन्नत्वेनाग्रहणं ’ इत्यपहाय ‘ भिन्नजातीय-
त्वेनाग्रहणं ’ इति वक्तव्यम् । तेन व्यक्तिभेदग्रहेऽपि सामान्यमेवालंकार: ।
यथा-
‘ स्तबकभरैर्ललिताभिश्चलिताभिर्मारुतैर्नृप लताभि: । वृतमुपवनमेवासीदरिमहिलानां महावनं भवत: ॥ ’
अत्र महावनमिति महावनकार्यस्य निलयनस्य संपादनात् । तच्च तासां प्रत्यक्षेण त्वदीयैर्भटैर्लताभि: सह तत्तव्द्यक्तितया भिन्नत्वेन ग्रहेऽपि भिन्न-जातीयत्वेनाग्रहणान्निष्पद्यते । पूर्वमते त्वत्रालंकारान्तरमभ्युपेयं स्यात् ”
इत्याहु: ।
ननु भेदाग्रह एव मीलित-सामान्य-तद्गुण-साधारण एकोऽलंकारोऽस्तु । किमलंकारत्रयेण ? मीलिते तावत्प्रकृताप्रकृतधर्मिगुणानां भेदाग्रह उपपा-दित एव । सामान्ये केषांचिद्गुणगुणिभेदाग्रह:, केषांचित्क्कचिदयं क्कचि-ज्जातिमात्रभेदाग्रहश्च । तद६गुणेऽपि रक्तगुणे रञ्जकगुणभेदाग्रह: । न चावा-न्तरभेदसत्त्वान्नैकालंकारत्वमुपपद्यत इति वाच्यम् । लुप्तोपमादित: पूर्णो-पमादे:पृथगलंकारतापत्ते: । तस्माद्भेदाग्रहस्य त्रयो मीलितादयोऽवान्तर-भेदा इति युक्तम्, न तु पृथगलंकारा इति चेत् , उच्यते-एवं तर्ह्यभेदोऽ-प्येकोऽलंकार: । तदवान्तरभेदा रूपकपरिणामाद्यतिशयोक्तिप्रभुखा इत्यपि शक्यते वक्तुम् । विच्छित्तिभेदस्तु प्रकृतेऽपि तुल्य: ।
यत्तु-“ मीलितरीत्या भेदाग्रहे प्रात्ते केनचिद्धेतुना भेदज्ञाने सति मीलितप्रतिद्वन्द्वि उन्मीलितम् । सामान्यरीत्या जातिभेदाग्रहे प्राप्ते केन-चिद्धेतुना सति वैजात्यग्रहे सामान्यप्रतिद्वन्द्वि विशेषकं चेत्यलंकारद्वयम् ।
यथा-
‘ हिमाद्रिं त्वद्यशोमृष्टं सुरा: शीतेन जानते । लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ॥ ’-”
इति कुवलयानन्दकृदाह । तन्न । अनुमानालंकारेणैव गतार्थत्वादनयोर-
लंकारान्तरत्वायोगात् । न चात्र प्रत्यक्षसामग्र्या बलवत्तेनानुमितेरनुद-यान्नानुमानालंकृति:शक्यनिरूपणेति वाच्यम् । व्याप्तिविशिष्टपक्षधर्मता-
ज्ञानजन्यज्ञानस्यैवानुमानालंकारलक्षणवाक्यगतेनानुमितिपदेन ग्रहणात् । अत एव तत्रास्माभि: पक्षान्तरमुक्तम् । प्रकृते च विशेषदर्शनहेतुकस्य प्रत्यक्षस्यैव तथात्वात् । नहि प्रमाणविभाजकानां नैयायिकानामिवालंका-
रिकाणामपि सरणि:, येन प्रत्यक्षत्वानालिड्रितामनुमितिं परिभाषेमहि । न चैवंविधे विषये नानुमितिपदप्रयोगोऽभ्यर्हितानामिति वाच्यम् । तथाप्यु-न्मीलितादिवत्परिभाषाया अनिवारणात् । अस्तु वानुमितित्वजातियुक्तै-वानुमिति: । तथापि प्रकृते प्रतिबन्धकवशात्तस्या अनुदयेऽपि त-
त्करणस्याप्रत्यूहत्वेनानुमानत्वमव्याहतम् । नहि सत्यप्यग्रौ मणिमन्त्रादिभि: प्रतिबद्धो दाहो न भवतीति दाहकरणमग्निर्नेति वक्तुं शक्यम् । फलायोगव्य-वच्छेदस्तु न करणताया: प्रयोजक: अपि तु व्यापार एवेति । एतेन ‘ विशेष-दर्शनस्य कोटयन्तरभानप्रतिबन्धकत्वेन चक्ष:संयोगादिरूपस्वसामग्री-
वशादेवोत्पन्ने तादृशप्रत्यक्षे हेतुतायां मानाभावात्पारिभाषिक्यप्यत्र नानु-मिति: । अतस्तत्करणमनुमानं कथं नाम स्यात् ’ इति परास्तम् । यदप्युक्तम्-“ तद्गुणरीत्यपि भेदानध्यवसायप्राप्तावुन्मीलितं दृश्यते । यथा-
‘ नृत्यद्भर्गाट्टहासप्रसरसहचरैस्तावकीनैर्यशोभि-र्धावल्यं नीयमाने त्रिजगति परित: श्रीनृसिंहक्षितीन्द्र । नेद्रुग्यद्येष नाभीकमलपरिमलप्रौढिमासादयिष्य-द्देवानां नाभविष्यत्कथमपि कमलाकामुकस्य प्रबोध: ॥ ’-” इति ।
तदपि न । तद्गुणे हि गुणयोर्भेदानध्यवसाय: , न तु वस्तुनोरिति निर्वि-वादम् । अत्र नाभीकमलपरिमलेन भगवत्त्वेन भगवज्ज्ञाने जातेऽपि
तदीयगुणे नीलिमनि यशोगुणधावल्यभेदानध्यवसायरूपस्य तद्गुणस्य निर्बाधत्वात्कथंकारं तत्प्रतिद्वन्द्विता उन्मीलितस्योच्यते ? यदि चैकस्मिन्-वस्तुनि संनिहितवस्त्वन्तरगुणवद्धेदानध्यवसायस्तद्गुणजीवितमित्युच्यते, तथाप्यत्र तद्गुणो निर्बाध: । भगवत: श्वेतभिन्नत्वेन ज्ञानस्योपायशून्यत्वे-नायोगात् । न च नीलत्वव्याप्यभगवत्त्वज्ञानमेवोपाय: । प्राड्नीलोऽपि कारणविशेषमहिम्रा संप्रति श्वेतो जात इति बुद्धे; प्रत्यक्षानुगृहीतायास्त-थाप्यनपायात् । अत एव त्वदुपजीव्येनालंकारसर्वस्वकृता उन्मीलितवि-
शेषकयोश्चर्चैव न कृता । अत: प्राचीनै: कृतविभागेष्वलंकारेष्विदंप्रथमोत्प्रे-क्षितस्य यावदलंकारस्य शक्योऽन्तर्भाव: कर्तुम् । न तावत्पृथगलंकारत्व-वाचोयुक्त्या विगलितश्रृड्खलत्वमात्मनो नाटयितुं सांप्रतं मर्यादावशं-वदैरार्यैरिति ।
यत्तु-
‘ वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि । भृड्रा: सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ॥ ’
इत्यत्र सामान्यभुदाह्लत्य काव्यप्रकाशे ‘ निमित्तान्तरजनितापि नानात्व प्रतीति: प्रथमप्रतिपन्नमभेदं न व्युदसितुमुत्सहते । प्रतीतस्य त्यागा-योगात् ’ इत्युक्तम् । अत्रोत्तरप्रतिपत्त्या तिरस्कृतत्वात्पूर्वप्रतीतेर्न चमत्कारि-त्वम्, किं तूत्तरप्रतीतेरेवेति तयैव व्यपदेशो न्याय्य: । अन्यथा
व्यतिरेकेऽप्युपमापत्ते: । विरोधाभासस्तु पूर्वोत्तरप्रतीतिद्वयात्मक इति भवति चमत्कारी ।
इति रसगंगाधरे सामान्यलंकारप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP