रसगंगाधरः - अवज्ञा अलंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथावज्ञा-
तद्विपर्ययोऽवज्ञा ॥
तस्योल्लासस्य विपर्ययोऽभाव: । अन्यस्यान्यदीयगुणदोषप्रयुक्तगुणदोषा-ऽऽधानाभाव: इति पर्यवसितोऽर्थ: । यथा-
‘ निष्णातोऽपि च वेदान्ते वैराग्यं नैति दुर्जन: । चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् ॥ ’
अत्र पूर्वार्धे प्रपञ्चानित्यत्वबोधकतारूपवेदान्तशास्त्रगुणप्रयुक्तस्य खले वैराग्यरूपगुणाधानस्य, उत्तरार्धे द्रवत्वरूपजलनिधिगुणप्रयुक्तस्य मैनाके मार्दवरूपगुणाधानस्य च विपर्ययो वर्णित: ।
‘ मध्येगलं विहरतां गरलं निकामं नागाधिप: शिरसि, भालतले हुताश: । ध्याता भवज्वलनमध्यगतैस्तथापि तापं तदैव हरते हर ते तनुश्री: ॥ ’
अत्र तापकतारूपगरलदिदोषप्रयुक्तस्य भगवन्मूर्तौ क्रूरत्वादिदोषाधान-स्याभाव: । न चात्रातद्नुणो वक्ष्यमाणोऽलंकार इति वाच्यम् । यतो यमुना-जलस्थराजहंसादेर्यथा यमुनाजलगतश्यामत्वाग्रहणं न तथा भगवन्मूर्ते-र्गरलदिगतक्रूरत्वाग्रहणं विवक्षितम् । अपि तु तादृशक्रूरत्वप्रयुक्तस्य क्रूर-त्वान्तरस्यानाविष्करणमित्यस्ति विशेष: । ‘ निश्णातोऽपि-’ इत्यादौ तु तदूगुणस्याप्रसक्तिरेव ।
‘ मद्वाणि मा कुरु विषादमनादरेण मात्सर्यमन्दमनसां सहसा खलानाम् । काव्यारविन्दमकरन्दमधुव्रताना-मास्येषु यास्यसि सतां विपुलं विलासम् ॥ ’
अत्र पूर्वार्धेऽनादररूपखलदोषप्रयुक्तस्य कविवाण्यां विषादरूपदोषस्य निषिध्यमानत्वादप्रतिष्ठानेनाभाव: शाब्द:, वाणीगतरमणीयतारूपगुण-प्रयुक्तस्य खले संतोषरूपगुणाधानस्याभाव: पुनरार्थ इत्युभयविधाप्यवज्ञा । उत्तरार्धे तु सह्लदयगुणेन सरसतारूपेण वाण्या उल्लासरूपगुणाधानमित्यु-ल्लास एव । विशेषोक्त्यैव गतार्थत्वादवज्ञा नालंकारान्तरमित्यपि वदन्ति ।
इति रसगंगाधरेऽवज्ञाप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP