संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
तिरस्कार अलंकार:

रसगंगाधरः - तिरस्कार अलंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ तिरस्कार:-

एवम्‍-

दोषविशेषानुबन्धाद्‍गुणत्वेन प्रसिद्धस्यापि द्वेषस्तिरस्कार: ॥

यथा-

‘ श्रियो मे मा सन्तु क्षणमपि च माद्यद्नजघटा-मदभ्राभ्यद्भृड्रावलिमधुरसंगीतसुभगा: ।

यो: संभव: ? यावता प्रार्थनमिच्छा तिरस्कारश्च द्वेष: । तत्र दोषे इष्टसाधनताज्ञानरूपकारणाभावादिच्छा न युक्ता । गुणे च द्विष्टसाधनता-ज्ञानाभावाहेउषोऽपि तथा । वैपरीत्यं तु कारणसत्त्वादुचितमिति चेत्‍, मै-

वम्‌, दोषगुणयोर्गुणदोषांशमादायेष्ट-द्विष्टसाधनताज्ञानयो: सत्त्वात्त्वदुक्तं कारणं तावदव्याहतम्‍ । उत्कटद्विष्टाननुबन्धीष्टसाधनताज्ञानस्योपायेच्छां प्रति, उत्कटेष्टाननुबन्धिद्विष्टसाधनताज्ञानस्य चोपायद्वेषं प्रति कारणत्वस्य वाच्यत्वाद्वैपरीत्यमपि नोचितम्‍ । अन्यथा सुखदु:खोभयसाधनेषु चान्द्रा-यणकलञ्जभक्षणादिषु हरीतकी-दधित्रपुसभक्षणादिषु चेच्छाद्वेषयोरनियम

एव स्यात्‍ । अत्र च पुरुषकालप्रवेश आवश्यक: । उत्कटतत्पुरुषीय-

तात्कालिकद्विष्टाननुबन्धितत्पुरुषीयतात्कालिकेच्छाविषयफलसाधनताज्ञानं तत्पुरुषीयोपायेच्छां प्रति कारणम्‍ । एवमुत्कटतत्पुरुषीयतात्कालिकेष्टान-नुबन्धितत्पुरुषीयतात्कालिकद्वेषविषयफलसाधनताज्ञानं तत्पुरुषीयोपाय-द्वेषं प्रति । तेन पुरुषान्तरीयं कालान्तरीयं च द्विष्टमिष्टमादाय न दोष:

इदं तु बोध्यम्‍-फले उत्कटेच्छया उपायेऽप्युत्कटेच्छैव जायते । एवं फळे उत्कटद्वेषेणोपायेऽपि द्वेष एव । एवं च सुखदु:खोभयसाधनेषु

चान्द्रायणादिषु यदि स्वसामग्रीवशात्प्रथमं सुखे उत्कटेच्छा तदा तत्सा-धनेषु चान्द्रायणादिष्वपि सैव । अथ स्वसामग्रीवशात्प्रथमं दु:खे उत्क-टद्वेषस्तदा चान्द्रायणादिषु स एव, उत्कटसामग्र्‍या बलवत्त्वकल्पनात्‍ । उत्कटत्वं च प्रकृते इच्छाद्वेषगतो विषयिताविशेष: । एकसाधनजन्ये

इष्टानिष्टरूपे फलद्वये एककालावच्छेदेनैकत्रोत्कटेच्छा अपरत्रोत्कटद्वेषश्च न संभवीत । तथा सति चान्द्रायणादिष्वेकस्मिन्नेव सभये इच्छाद्वेषयोर्द्व-योरप्यापत्ते: एवं च बलवदनिष्टाननुबन्धित्वं बलवदिष्टाननुबन्धित्वं चोपायेच्छाद्वेषयो: कारणतावच्छेदके न देयमेवेत्याहु: ।

अन्ये तु फलेच्छा-फलसाधनताज्ञानयोर्द्वयोरुपायेच्छां प्रति, फलद्वेष-फलासाधनताज्ञानयोरुपायद्वेषं प्रति च कारणत्वम्‍ । उत्कटसामग्र्या बलवत्त्वाच्चेष्टानिष्टोभयसाधने न दोष इत्यपि वदन्ति । एवं चेष्टानिष्टोभय-

साधने दोषे गुणे च गुणेन दोषेण च मिश्रिते सह्लदयानामिच्छाद्वेषयोरु-चितैवोत्पत्ति:, हरितकीकदलभक्षणयोरिवेति ।

इति रसगंगाधरे तिरस्कारप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP