रसगंगाधरः - पर्याय अलंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ पर्याय:-
क्तमेणानेकाधिकरणमेकमाधेयमेक: पर्याय: । क्तमेणानेकाधेयक-मेकमधिकरणमपर: ॥
एतदन्यान्यत्वं च सामान्यलक्षणम्, न तु योगार्थमात्रम् । अतिप्र-सक्ते: । ‘ परावनुपात्यय इण: ’
इति पाणिनिस्मृता अनुपात्ययमात्रस्य घञु-
पाधित्वेनोक्ते: । नाप्यन्यत् । अन्यतरत्वाघटितस्य निर्वक्तुमशक्यत्वात् । अत्राद्यलक्षणे प्रागुक्तविशेषालंकारद्वितीयभेदेऽतिप्रसड्रवारणाय क्रमेणेति । तत्र चाधेयस्य युगपदनेकाधारसंबन्धान्नातिप्रसड्र: । द्वितीयलक्षणे वक्ष्य-
माणसमुच्चयालंकारातिव्याप्तिवारणाय तदिति विवेक: । उदाहरणम्-
आयाता कमलासनस्य भवनाद्द्रष्टुं त्रिलोकीतलं गीर्वाणेषु दिनानि कानिचिदथओ नीत्वा पुन: कौतुकात् । भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे राजन्संप्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥ ’
अत्र प्रथमचरणगतमधिकरणमार्थम् । विश्लेषावधिपञ्चम्यां विश्लेषस्यो-पश्लेषमन्तरेणासिद्धया औपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात् । कमलासन-स्य भवने स्थित्वा आयातेति ल्यब्लोपपञ्चम्यामपि ल्यबन्तार्थक्रियाधि-
करणे पञ्चम्या लाक्षणिकत्वादवाच्यतैव । ‘ ल्यब्लोपे कर्मण्यधिकरणे च ’ इति वार्तिकस्य निरूढलक्षणासमर्पकतेति राद्धान्तात् । इतरचरणत्रयगतं तु शाब्दम् । यथा वा-
‘ मकरालयस्य कुक्षौ स्थित्वा सदनेऽमृताशिनां च चिरम् । संप्रति निर्दोषे ते राजन्वदनाम्बुजे सुधा वसति ॥ ’
पूर्वमवरोह: इह त्वारोह: , पूर्वपूर्वत्यागेऽरुचिबीजोपादानं चेति विशेष: । अपर: पर्यायो यथा-
‘ विदूरादाश्चर्यस्तिमितमथ किंचित्परिचया-दुदञ्चच्चाञ्चल्यं तदनु परित: स्फारितरुचि ।
गुरूणां संघाते सपदि मयि याते समजनि त्रपाघूर्णत्तारं नयनयुगमिन्दीवरदृश: । ’
अत्र क्कचिदनपावृते स्थलविशेषे गुरूञ्शुश्रूषमाणायाश्चिरप्रोषितमसंभा-वितागमनं प्रियमकस्मादालोकितवत्या: कस्याश्चिन्नयनयुगरूप एकस्मिन्नधि-करणे विशेषणीभूतानां स्तिमितत्वादीनामाधेयानां युगपदसंभवात्कारणक्तम-वशाच्च क्रमिकत्वम् । यथा वा-
‘ प्रथमं श्रितकञ्चकोरकाभावथ शोभामनुभूय कन्दुकानाम् । अधुना श्रयितुं कुचौ यतेते दयिते ते करिशावकुम्भलीलाम् ॥ ’
अत्रापि कुचत्वेनैकीकृते कुचरूपेऽधिकरणे परिमाणविशेषाणाम् । यदि
च कुचयो: पूर्वपूर्वस्वरूपापेक्षया उत्तरोत्तरस्वरूपस्योत्कर्ष: प्रतीयते तदा एकविषय: सारोऽप्यस्तु, विषयभेदाच्च न बाध्यबाधकभाव: । यत्तु-
बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत । अधुना मृगशावाक्षि ह्लदयेऽप्येष दृश्यते ॥ ’
इति कुवलयानन्दकृता विकासपर्यायो निजगदे, तच्चिन्त्यम् । एकसंबन्ध-नाशोत्तरमपरसंबन्धे सत्येव पर्यायपदस्य लोके प्रयोगात् , ‘ श्रोणीबन्ध-स्त्यजति तनुतां सेवते मध्यभाग: ’ इति काव्यप्रकाशोदाह्लते, ‘ प्रागर्णवस्य
ह्लदये-’ इत्यादिसर्वस्वकारोदाह्लते च तथैव दृष्टत्वाच्च अस्मिन्नलंकार-लक्षणेऽपि क्रमपदेन तादृशविवक्षाया औचित्यात् । तस्मादत्रैकविषय: सारालंकार उचित:, यं रत्नाकरादयो वर्धमानकालंकारमामनन्ति स चायुष्मता नोट्टड्कित एव । इदं तु बोध्यम्-
‘ प्रथमं चुम्बितचरणा उड्घाजानूरुनाभिह्लदयानि । आश्लिष्य भावना मे खेलतु विष्णोर्मुखाब्जशोभायाम् ॥ ’
अत्र न तावत्पर्याय:, उत्तरोत्तरसंबन्धस्य पूर्वपूर्वत्यागपूर्वकत्वाविवक्ष-णात् । यतोऽत्र मुखविषयकभावनाया: सर्वाड्रविषयकत्वं वक्तुरभिप्रेतम्, न तु मुखमात्रविषयकत्वम् । अत एव खेलत्वित्युक्तम् , न तु मज्जत्विति । तथा-
पूर्वं नयनयोर्लग्ना ततो मग्ना मनस्यभूतू । अथ सैव प्रियस्यासीत्सर्ववेदनगोचरा ॥ ’
इत्यत्रापि । नापि सार:, उत्तरोत्तरस्योत्कर्षापकर्षयोरभावात् । तस्मादेव-मादौ शुद्धक्रमालंकारोऽतिरिक्त इत्यप्याहु: ।
इहान्यदप्यवधेयम्-यत्राधाराधेयतत्संबन्धक्रमेषु क्कचिदपि कवि-कल्पनापेक्षा तत्रैवायमलंकार: । यत्र तु सर्वांशे लोकसिद्धत्वं न तत्र कश्चि-दलंकार: । अत एव ‘ श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभाग: पद्भयां मुक्तास्तरलगतय: संश्रिता लोचनाभ्याम् । ’ इति काव्यप्रकाशकृता, ‘ प्रागर्णव-स्य ह्लदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुन: खलानाम । ’ इति सर्वस्वकृता च निदर्शितम् । अत्रोभयत्राप्याधारभेदाद्भिन्न आधेय: कविना एकताध्यवसानेनैकीकृत: । अस्मद्दत्तोदाहरणेषु तु क्तमोऽपि कल्पित: ।
नहि ब्रह्मलोकस्थया देवतया, पयोधिस्थया सुधया च, वाचो वाडभाधुर्यस्य चाभेदो लोकसिद्धस्तादृश: क्तमो वा । एवं स्थिते, ‘ अधुना पुलिनं तत्र यत्र स्रोत: पुराभवत् ’ इति कुवलयानन्दगतमुदाहरणं ‘ यत्र पूर्वं घटस्तत्राधुना पट: ’ इति वाक्यवल्लैकिकोक्तिमात्रमित्यनुदाहार्यमेव ।
इति रसगंगाधरे पर्यायप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP