संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
काव्यलिंग अलंकार:

रसगंगाधरः - काव्यलिंग अलंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ काव्यलिड्रम्‍-

अनुमितिकरणत्वेन सामान्यविशेषभावाभ्यां चानालिड्रित: प्रकृ-तार्थोपपादकत्वेन विवक्षितोऽर्थ: काव्यलिड्रम्‍ ॥
उपपादकत्वं च तन्निश्चयजनकज्ञानविषयत्वम्‍ । अनुमानार्थान्तरन्यास-योर्वारणायानालिड्रितान्तम्‍ । उपमादिवारणायोपपादकत्वेनेत्यन्तम्‍ । पञ्च-म्यादिशब्दप्रतिपादितहेतुत्वकस्य हेतोरेव वारणायोपपादकत्वेन विवक्षित इति । न तु शब्दात्तेन रूपेण बोधित इत्येतदर्थफलकम्‍ । तेन ‘ भयानकत्वात्परिवर्जनीयो दयाश्रयत्वादसि देव सेव्य: ’ इत्यादौ नायमलं-कार: । गम्यमानहेतुत्वकस्यैव हेतो: सुन्दरत्वेनालंकारिकै: काव्यलिड्रता-
भ्युपगमात्‍ । तच्च सुबन्ततिडन्तार्थत्वाभ्यां तावहिउविधम्‍ । आद्यमपि शब्दान्तरार्थविशेषितशरीरम्‍, शुद्धैकसुबन्तार्थरूप्म चेति द्वेधा । अत्राप्याद्यं साक्षात्परम्परया वा वाक्यार्थविशेषितम्‍, सुबन्तार्थमात्रविशेषितं चेति द्विभेदम्‍ । तिडन्तार्थभूतमपि साक्षात्परम्परया या वाक्यान्तरार्थविशेषि-तम्‍, सुबन्तार्थमात्रविशेषितं चेति द्विप्रकारम्‍ । शुद्धभेदस्तु तिडन्तार्थस्य न संभवति, क्रियाया: कारकविशेषितत्वावश्यंभावात्‍ । शिष्टमग्रे निरूप-यिष्यते । उदाहरणम्‍-
‘ विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै-रवाच्यानि व्रात्यै: सपुलकमपास्यानि पिशुनै: । हरन्ती लोकानामनवरतमेनांसि कियतां कदाप्यश्रान्ता त्वं जगति पुनरेका कियतां कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ॥ ’
अत्र ह्यनन्यसाधारणतया प्रतिपादितस्य भगवत्या भागीरथ्या उत्कर्ष-स्यापाततोऽघटमानस्योपपादनायानवरतसकललो कपापहरणसमानाधिकरण: श्रमाभाव: सुबन्तमात्रार्थविशेषित: सुबन्तार्थो विशेषवपुर्हेतुत्वेनोपात्त: ।
‘ त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ करं कर्णे कुर्वन्त्यापि किल कपालिप्रभृतय: । इमं तं मामम्ब त्वमथ करुणाक्तान्तह्लदये पुनाना सर्वेषामघमथनदर्पं दलयसि ॥ ’
अत्र सकलदेवतीर्थदर्पदलनस्य सिद्धये स्वात्मपवित्रीकरणं वक्त्रा निबद्धम्‍ । तच्च क्षुद्रत्वात्तादृशसिद्धयसमर्थं विशेषकान्तरमाकाड्क्षतीति तीर्थकर्तृकत्रपाकरणम्‍ , कपालिप्रभृतिकर्तृककर्णभुद्रणं चेति वाक्यार्थद्वयं स्वात्मरूपकर्मद्वारा विशेषकमुपात्तम्‍ । तद्विशिष्टं च तादृशपवित्रीकरणं भागीरथ्युपारूढं तादृशकार्योपपादनसमर्थमिति भवति हेतु: ।
‘ पद्मासनप्रमुखनिर्जरचित्तवृत्ति-दुष्प्रापदिव्यमहिमन्भवतो गुणौघान्‍ । तुष्टूषतो मम नितान्तविश्रृडखलस्य मन्तुं शिशो: शिव न मन्तुमिहासि योग्य: ॥ ’
अत्र शिशुत्वं शुद्धैकसुबन्तार्थोऽपराधक्षमाकरणे हेतु: । तथा
दिव्यमहिमत्वमचिन्त्यमाहात्म्यं सुबन्तार्थविशेषितसुबन्तार्थरूपं ब्रह्मादि-चित्तदुष्प्रापत्वे । एवं तादृशपरमेश्वरगुणकर्मकस्तवो मन्तौ । तादृशस्तवे च विश्रृडखलत्वमिति शुद्धसुबन्तार्थोदाहरणे विशिष्टसुबन्तार्थस्याप्युदाहरणम्‍ ।
‘ तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा मया सर्वेऽवज्ञापुरपथमनीयन्त विबुधा: ।
इदानीमौदास्यं यदि भजसि भागीरथि तदा निराधारो हा रोदिमि कथय केषामिह पुर: ॥ ’
अत्र निराधार इत्यादिनाभिव्यक्ते वक्तृनिष्ठसकलकर्तृकद्वेषे आत्मकर्तृका-वज्ञापुरपथनयनरूप: सुबन्तार्थविशेषितस्तिडन्तार्थ उपपादक: ।
‘ विश्वास्य मधुरवचनै: साधून्ये वञ्चयन्ति नम्रतया । तानपि दधासि मात: काश्यपि यातस्तवापि च विवेक: ॥ ’
अत्रापि पृथिवीविवेकनाशोपपादने तिडन्तार्थस्य धारणस्य सुबन्तार्थ-विशेषितस्य तस्यैव जनधारणामनो वा असामर्थ्यात्साधुवञ्चनरूपपूर्व-वाक्यार्थविशेषितं धारणं हेतु: । विशेषणत्वं च कर्मणि विशेषणत्वात्पर-म्परया बोध्यम्‍ । एते च भेदा: प्राचीनकल्पितपदार्थ-वाक्यार्थभेदद्वयवच्चातुर्य-मात्रेण कल्पिता: , न तु वैचित्र्यविशेषेण ।
अथानुमानादस्य को विशेष: ? ननु व्याप्यत्व-पक्षधर्मत्वाभ्यां ज्ञाय-मानमेवार्थसाधकमनुमानम्‍, स्वरूपेण ज्ञायमानं प्रकृतार्थोपपादकं काव्य-लिड्रमिति विशेष इति चेत्‍ न, उपपादकं हि सत्यां युक्तौ । सा तु सति
व्यभिचार-पक्षावृत्तित्वयोरन्यतरस्यापि ज्ञाने न संभवति । यथा‘ विनि-न्द्यान्युन्मत्तै: ’ इत्युदाह्लतपद्ये तादृशश्रमाभाव उत्कर्षव्यभिचरितो भागीर-थ्यवृत्तिर्वेति ज्ञाने जात्वपि न सर्वोत्कर्ष: सेद्धुमीष्टे । सेद्धुमीष्टे च सर्वो-त्कर्षोव्यभिचरितो भागीरथीवृत्तिश्चे ति ज्ञाने । एवं हेतो: सर्वत्राप्युपपाद्या-व्यमिचरितज्ञान एवोपपत्ति: । अन्यथा तु इदमेवमनेवं वा स्यादिति संदेह नुमितिसरणिमेवाभिनिविशन्ते । न च समर्थना दृढप्रत्यय:, न त्वनुमितिरिति
वाच्यम्‍ । स हीन्द्रियसंनिकर्षाभावान्न प्रात्यक्षिक: । अनुमितिसामग्र्या बलवत्त्वान्न शाब्द: । अत एव न मानसो‍ऽपीति । सत्यम्‍, काव्यलिड्रं प्रकृतार्थोपपादकम्‍ । उपपत्तिश्चानुमितिरेव । व्यभिचारित्वेऽपि हेतोस्तदानीं व्यभिचारास्फूर्ते: । तथापि नानुमानालंकारस्यात्र विषय: । श्रोतुर्यल्लिड्र-कानुमितिबुबोधयिषया कवि: काव्यं निर्मिमीते तल्लिड्रमनुमानालंकृते-र्विषय:, काव्यव्यापारगोचरीभूतानुमितिकरणमिति निष्कर्ष: । काव्यलिड्र-ज्ञानजानुमितिस्तु न कविना श्रोतुर्बुबोधयिषिता । अत एवासौ न काव्य-व्यापारगोचर: । श्रोतु: केवलं कारणवशाज्जायत इति नास्त्येवात्र जाय-
मानायामप्यनुमितावनुमानालंकृतेर्विषय: । ‘ तस्मिन्मणिव्रातमहान्धकारे ’ इति वक्ष्यमाणपद्ये तु बुबोधयिषितैवानुमितिरित्यस्त्यनुमानविषय: । अपि च कविनिबद्धप्रमात्रन्तरनिष्ठा ह्यनुमितिरनुमानालंकृतिं प्रयोजयति । श्रोतृनिष्ठा महावाक्यार्थनिश्चयानुकूला तु काव्यलिड्रमिति महान्विशेष: । एवं च काव्यलिड्रातिप्रसड्रवारणायानुमानलक्षणप्रविष्टानुमितौ काव्य-व्यापारगोचरत्वं विशेषणं देयम्‍ ।
यत्तु ‘ समर्थनीयस्यार्थस्य काव्यलिड्रं समर्थकम्‍ ’ इति कुवलयानन्दकारो
लक्षणमकार्शीत्तदपि सामान्यविशेषभावानालिड्रितत्वविशेषणरहितं चेद-र्थान्तरन्यासे स्यादेवातिप्रसक्तम्‍ । यदपि,
“-‘ यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघेरन्तरित: प्रिये तव मुखच्छायानुकारी शशी । येऽ पि त्वद्नमनानुकारिगतयस्ते राजहंसा गता स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ ’
‘ मृग्यश्च दर्भाड्‍कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम्‍ । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥ ’
पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपश्चतुर्थपादार्थे हेतु: । उत्तरत्र तु संबोधने व्यापारयन्त्य इति भृगीविशेषणत्वेनानेकपदार्थो हेतुरुक्त: ”
इत्य-लंकारसर्वस्वकृतोक्तम्‍, अनुमोदितं च कुवलयानन्दकृता । तदुभयमसत्‍ ।
अनुमानार्थान्तरन्यासविषये हेत्वलंकारो नेति तावत्सर्वसंमतम्‍ । अन्यथा तयोरुच्छेदापत्ते: । अयं चानुमानस्यैव विषय: । चतुर्थचरणे दैवरूपे पक्षे नायिकाड्रसादृश्यदर्शनजन्यसुखासहिष्णुत्वरूपसाध्यस्य चरणत्रयवेद्येन तत्तदड्रसादृश्याधारविघटकत्वेन हेतुना सिद्धे: स्फुटत्वात्‍ । दैवं नायिका-ड्रसादृश्यदर्शनजन्य-मदिष्टसुखासहिष्णु, तत्तन्नायिकाड्रसादृश्याधारवि-घटकत्वात्‍, मदीयशत्रुभूतयज्ञदत्तादिवदिति च प्रयोग: । भृग्यश्चेति द्वितीयपद्ये यद्यपि संबोधने वक्तृनिष्ठे मृगीनेत्रव्यापारो ज्ञायमान उत्पादक:,
तथापि नासाबुत्पादकता अनुमितिकरणताया अतिशेत इत्यनुमानालंकार एव युक्त: । इयांस्तु विशेष:-यत्पूर्वपद्येऽनुमितिर्गम्या, इह पुन-र्बुध्यतेर्वाच्या । मृग्यो दक्षिणानिलसंपर्कवत्य: , दक्षिणाभिमुखविलक्षणनेत्र-व्यापारवत्त्वादिति च प्रयोग: । वैलक्षण्यं चोत्पक्ष्मेत्यादिनोक्तं बोध्यम्‍ ।
अत्र वदन्ति-काव्यलिड्रं नालंकार: । वैचित्र्यात्मनो विच्छित्ति-
विशेषस्याभावात्‍ । स हि जन्यतासंसर्गेण कविप्रतिभाविशेष:, तन्निर्मितत्व-प्रयुक्तश्चमत्कृतिविशेषो वेत्युक्तम्‍ । न चानयोरन्यतरस्याप्यत्र संभव: । हेतु-हेतुमद्भावस्य वस्तुसिद्धत्वेन कविप्रतिभानिर्वर्त्यत्वायोगात्‍ । अत एव चमत्कृतिरपि दुर्लभा । श्लेषादिसंमिश्रणेन विच्छित्तिविशेषोऽत्राप्यस्तीति तु न वाच्यम्‍ । तस्य श्लेषाद्यंशप्रयोज्यत्वेन काव्यलिड्रस्यालंकारताया-स्तथाप्यसिद्धे: । यत्र तूपस्कारकवैचित्र्याद्विलक्षणं तदुपस्कार्यवैचित्र्यं तत्रास्तु नामोपस्कारकादुपस्कार्यस्य पृथगलंकारत्वम्‍ । यथातिशयोक्तेर्हेतुफलोत्प्रे-क्षयो: । यत्र तूपस्कारकवैचित्र्य एव विश्रान्तिस्तत्रोपस्कार्यमनलंकार
एव । यथा प्रकृते । एवं तर्हि बहूनामलंकारत्वेन प्राचीनैरुरीकृतानामन-लंकारतापत्तिरिति चेत्‍, अस्तु । किं नश्छिन्नम्‍ । तस्मात्‍ ‘ निर्हेतुरूपदोषा-भाव: काव्यलिड्रम् ’ इत्यपि वदन्ति ।

इति रसगंगाधरे काव्यलिंगप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP