रसगंगाधरः - अर्थापत्ति अलंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथार्थापत्ति:-
केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिर्थापत्ति: ॥
न्यायश्च कारणम् । सा च प्रकृतेन प्रकृतस्य, अप्रकृतेनाप्रकृतस्य, प्रकृतेनाप्रकृतस्य, अप्रकृतेन प्रकृतस्येति तावच्चतुर्भेदा प्रत्येकमर्थान्तरस्य साम्यन्यूनाधिक्यैर्द्वादशविधा । ततो भावत्वाभावत्वाभ्यां चतुर्विंशति-भेदा । दिड्भात्रेणोदाह्लियते-
‘ लीलालुण्ठितशारदापुरधियामस्मादृशानां पुरो विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेद्वालिशा: ।
अद्य श्र्व: फणिनां शकुन्तशिशवो दन्तावलनां शशा: सिंहानां च सुखेन मूर्धनि पदं धास्यन्ति शालावृका: ॥ ’
अत्र प्रकृतेनाप्रकृतस्यापाद्यमानस्य साम्यं मालारूपता च ।
‘ यदि ते चरणाम्बुजं ह्लदा वहतो मे न हतो विपद्नण: । अथ चण्डकरेण मण्डिते दिनमध्येऽपि जितं तमोगणै: ॥ ’
अत्र न हत इति विद्यमानतारूपात्प्रकृतार्थाज्जितमित्यापाद्यमानस्याप्रकृ-तार्थस्य सर्वोत्कर्षेण वर्तनरूपस्याधिक्यम् । न चात्र विपद्नणस्यावस्थान-
मात्रेण तमोगणानामवस्थानभापादयितुमुचितम्, न तु जय: अनानुरूप्यात्, इति शड्कयम् । भगवच्चरणसंनिधाने यद्येकस्य विपद्नणस्य स्वास्थ्यं तदा समुचित एव बहूनां तमोगणानां सूर्यसंनिधाने जय इति न दोष: ।
सदैव स्नेहार्द्रे सुरततिनि निष्किञ्चनजने यदि त्वं नाधत्से सुरभिरिव वत्से मयि कृपाम् । तदा चिन्तारत्नत्रिदशपतिभूमीरुहमुखा ददीरन्नर्थिभ्य: किमिति कणभिक्षामपि जडा: ॥ ’
अत्राभावेनाभावापादनम् । स्नेहार्द्रजाह्लवीरूपप्रकृतार्थापेक्षया चिन्ता-रत्नादीनाम जडत्वेन न्यूनत्वं चैतेष्वापाद्यमानमप्रकृतम् ।
‘ मामनुरक्तां हित्वा यदि राजन्पुरुषसिंह यातोऽसि । मुक्त्वा वनमिदमेष्यति वनलक्ष्मीमत्र किं चित्रम् ॥ ’
इयं राज्ञा नलेन मुक्ताया अरण्ये दमयन्त्या ध्यानोपनीतं तमेव प्रत्युक्ति: । अत्रापाद्यमानो वनवृत्तान्तोऽपि संनिहितत्वात्प्रकृत एवेति द्वयमपि प्रकृतम् । पुरुषसिंहापेक्षाया वनस्य नपुंसकत्वान्न्यूनत्वम् । अत एव किं चित्रमित्युक्तम् ।
‘ उदुम्बरफलानीव ब्रह्माण्डान्यत्ति य: सदा । सर्वगर्वापह: कालस्तस्य के मशका वयम् ॥ ’
अत्राप्रकृतेन ब्रह्माण्डादनेन समस्तभूतानामनित्यत्वं कैमुतिकन्यायेन प्रकृतं प्रतिपाद्यते ।
‘ न भवानिह मे लक्ष्य: क्षत्रवर्णविलेपिन: । के वा विटपिनो राम कुलाचलभिद: पवे: ॥’
रामं प्रति जामदग्न्यस्येयमुक्ति: । अत्र प्रतिवस्तूपमा महावाक्यार्थ: । तस्याश्च दलद्वयमुपमेयवाक्यार्थ उपमानवाक्यार्थश्च । तत्रोपमेयवाक्यार्थ-गतायामर्थापत्तावापाद्यमानस्तन्निमित्तभूतश्चेत्युभावप्यर्थौ प्रकृतौ । उपमान-वाक्यार्थगतायां त्वप्रकृताविति । अनया दिशान्यदप्यूह्मम् ।
अत्र विचार्यते-नेयं वाक्यवित्संमतायामर्थापत्तौ निविशते । आपा-दकस्यार्थस्यापतितमर्थं विनानुपपत्तेरत्राभावात् । नाप्यनुमाने । आपततोऽ-र्थस्यापादकासमानाधिकरणत्वेन व्याप्यत्व-पक्षधर्मत्वयोर्दूरापास्तत्वात् । न
च येन कारणेनैकार्थसिद्धिस्तेनैव लिड्रेनापरार्थानुमानमिति वाच्यम् । अर्थान्तरसिद्धेरनुमित्यात्मकताविरहात् । यतोऽयमर्थोऽपि भवितुमर्हतीति बुद्धेराकार:, न तु भवत्येवेति । नापि यद्यर्थातिशयोक्तौ । तस्या विपरी-तार्थ एव द्वयोर्विश्रान्ते: । न चेह तथा, आपादकस्य सिद्धत्वादापततश्च संभाव्यमानत्वाद्यथाश्रुत एव विश्रान्ते: । तस्माद्येन न्यायेनैकोऽर्थ: सिद्ध-
स्तेनैव न्यायेनापरोऽप्यर्थ: सेद्भुमर्हतीत्येवंरूपेयमर्थापत्ति: । अस्यां चार्था-न्तरं लोकेऽविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तदा-न्तरं लोकेऽविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तदा-लंकारत्वम् । यथा ‘ फणिनां शकुन्तशिशव: ’ इत्यादौ । अन्यथा तु कैमु-तिकन्यायतामात्रम् । यथा ‘ उदुम्बरफलानीव ’ इत्यादौ । प्राचीनरीत्या तु प्रागिदमुदाह्लतमस्मामि: । अत एव तत्र कैभुतिकन्यायेनेत्युक्तम् । एवं च ‘ कमपरमवशं न विप्रकुर्यर्विभुमपि तं यदमी स्पृशन्ति भावा: ’,
‘ अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वक्रे मूर्ध्रि स्थितवति वयं के पुनरमी ’ इत्यादि सर्वस्वकृता यदुदाह्लतं तन्नातीव ह्लदयंगमम ।
यत्तु-‘ कैमुत्येनार्थसंसिद्धि: काव्यार्थापत्तिरिष्यते ’ इति कुवलयानन्द-कृता असा लक्षणं निर्मितं, तदसत् । कैमुतिकन्यायस्य न्यूनार्थविषयत्वेना-धिकार्थापत्तावव्याप्ते: । यथा-
‘ तवाग्रे यदि दारिद्य्रं स्थितं भूप द्विजन्मनाम् । शनै: सवितुरप्यग्रे तम: स्थास्यत्यसंशयम् ॥ ’
अत्र शनै: शब्दमहिम्रा राजाग्रे दारिद्य्रस्थित्यपेक्षया सूर्याग्रे तमोऽवस्थानं दु:शकमेवेत्यवगतमपि न्यायसाम्यादापाद्यते, न तु कैमुतिकन्यायेनेति ।
इति रसगंगाधरेऽर्थापत्तिप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP