रसगंगाधरः - प्रौढोक्ति अलंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ प्रौढोक्ति:-
कस्मिंश्चिदर्थे किंचिद्धर्मंकृतातिशयप्रतिपिपादयिषया प्रसिद्ध-तद्धर्मवता संसर्गस्योद्भावनं प्रौढोक्ति: ॥
संसर्गश्च सन्नसन्वा साक्षात्परम्परया वा । ‘ वल्मीकोदरसंभूतकपिकच्छूसहोदरा: । हा पीडयित्वा निघ्नन्ति सज्जनान्दुष्टदृष्टय: ॥ ’
अत्र कपिकच्छूसहोदरत्वेन मारकत्वं न प्राप्रोति, अपि तु पीडाजनकत्व-मात्रम् । कवेस्तु पीडां जनयित्वा मारयन्तीत्येवंरूपोऽतिशयो विवक्षित: ।
अतो वल्मीकोदरसंभूतत्वं सर्पाधिकरणवृत्तितारूपं कपिकच्छूविशेषण्म मारकतावच्छेदकत्वेन स्वप्रतिभया कविना कल्पितम् । यथा वा-
‘ मन्थाचलभ्रमणबेगवशंवदा ये दुग्धाम्बुधेरुदपतन्नणव: सुधाया: । तैरेकतामुपगतैर्विविधौषधीभि-र्धाता ससर्ज तव देव दयादृगन्तान् ॥ ’
अत्र दृगन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुणा एव कवे-र्बुबोधयिषिता:, अपि तु निखिलजनवशीकारत्वादयोऽन्येऽपीति सुधाकणे-ष्वौषधीसंसर्गो विशेषणतयातिशयार्थमुपात्त: । उत्पाद्योत्पादकभावश्चात्र न लोकसिद्ध:, अपि तु कविमात्रनिबद्ध: । यथा वा-
‘ त्वदड्रणसभुद्भूता सिक्ता कुड्कुमवारिभि: । त्वदड्रतुलनां याति कदाचिल्लवलीलता ॥ ’
अत्र केवलाया लवल्या उपमानताभरसहनसामर्थ्यस्याभावात्तस्य सिद्धये नायिकासामानाधिकरण-कुड्कुमजलसंयोगयोरुपादानम् । अत्र च धर्मिविशेषसंसर्गादतिशयो धर्म्यन्तरगतो यद्यागूरणविषयस्तदैवायम-लंकार: । वाच्यवृत्त्या तत्तत्प्रयुक्तत्वेनाभिहितश्चेत्समालंकारस्यैव विषय: ।
यथा-
‘ त्वत्तो जन्म हिमांशुशेखरतनुज्योत्स्नानिमग्नात्मनो दुग्धाम्भोनिधिमुग्धवीचिवलयै: साकं परिक्रीडनम् । संवास: सुरलोकसिन्धुपुलिने वाद: सुधांशो: करै: कस्मान्नैज्ज्वलिमानमञ्चतितमां देव त्वदीयं यश: ॥ ’
अत्र यशसो धवलतातिशयस्तत्तद्धर्मिसंबन्धप्रयुक्तत्वेन कथित इति तदंशे सम एवालंकार: । अंशुकृतश्चन्द्रे चन्द्रकृतश्च भगवति भगवत्कृतो राज-नीत्येवमुत्तरोत्तरमुपचयिमानो राजगतस्त्वनुक्तत्वात्प्रौढोक्तेरेव विषय: ।
एवं च
‘ शशश्रृड्रधनुर्लसत्करा गगनाम्भोरुहमालिकाधरा: । तनयै:सह भाविजन्मनां तव खेलन्ति नरेद्र वैरिण: ॥ ’
इत्यादावेकस्य मिथ्यात्बसिद्धयर्थं मिथ्याभूतवस्त्वन्तरकल्पनं मिथ्याध्यव-सित्याख्यमलंकारान्तरमिति न वक्तव्यम्, प्रौढोक्त्यैव गतार्थत्वात् । ‘ केशा: कलिन्दजातीरतमालस्तोममेचका: ’ इत्यादौ प्राचीनकृतप्रौढोक्त्युदाहरणे
यथा तमालेषु श्यामत्वातिशयार्थं श्यामत्वाधिकरणीभूतकालिन्दीसंबन्ध उद्भाव्यते, तथा वैरिष्वपि मिथ्यात्वसिद्धये मिथ्यात्वाधिकरणशशश्रृड्रा-दिसंबन्ध इत्यस्यापि सुवचत्वात् । तत्र श्यामत्वातिशय:इह तु मिथ्यात्व-मात्रं न तु तस्यातिशय: सिद्धयतीति वैलक्षण्यं तु न वाच्यम् । तमाल-स्तोमे प्रमाणान्तरेण सिद्धेऽपि श्यामत्वे कालिन्दीसंसर्गोद्भावनं पुन: श्यामत्वसाधनेनातियागूरकमेव स्यात् । वैरिषु तु मिथ्यात्वस्यासिद्ध-त्वाच्छशशृड्रादिसंबन्धैर्मिथ्यात्वस्य सिद्धिरित्यार्थसमाजाधीनेयमतिशय-सिद्धिर्वैलक्षण्यं न प्रयोजयति । यत्तु ‘ वेश्यां वशयेत्खस्रजं वहन् ’ इति
कुवलयानन्दकृता मिथ्याध्यवसितेरुदाहरणं निर्मितं तत्तु निदर्शनयैव गतार्थम् । निदर्शनागर्भात्र मिथ्याध्यवसितिरिति तु न युक्तम् । मिथ्या-ध्यवसितेरेव मिथ्यात्वात् । यदि च मिथ्याध्यवसितिरेवालंकारान्तरं स्यात् , सत्याध्ववसितिरपि तथा स्यात् । यथा-
‘ हरिश्चन्द्रेण संज्ञप्ता: प्रगीता धर्मसूनुना । खेलन्ति निगमोत्सड्रे मातर्गड्रे गुणास्तव ॥ ’
अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसंबन्धाद्गुणानां सत्यत्वं प्रतीयते । एवम्
‘ मध्ये सुधासमुद्रस्य सितामयगृहोदरे । पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तय: ॥ ’
अत्रापि सुधासमुद्रादिसंबन्धादुक्तिषु माधुर्यातिशय: प्रतीयमान: कस्या-
लंकारस्य गोचर: स्यात् ? अतोऽलंकारान्तरं स्यात् । मम तु प्रौढोक्त्यैव गतार्थतेत्यास्तां तावत् ।
इति रसगंगाधरे प्रौढोक्तिप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP