रसगंगाधरः - मीलित अलंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ मीलितम्-
स्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिड्रैरतिसाम्याद्भिन्नत्वेना-गृह्यमाणानां वस्त्वन्तरलिड्रानां स्वकारणाननुमापकत्वं मीलितम् ॥
संग्रहश्च-
‘ भेदाग्रहेण लिड्रानां लिड्रै: प्रत्यक्षवस्तुन: । अप्रकाशो ह्यनध्यक्षवस्तुनस्तन्निमीलितम् ॥’
सामान्यवारणाय अनध्यक्षेति । तत्राध्यक्षस्यैव वस्त्वन्तरस्याग्रहणम् । तद्गुणे वस्त्वन्तरगुणानां भिन्नत्वेनाग्रहणेऽपि वस्त्वन्तरस्य ग्रहणमस्त्येवेति न तत्र प्रसड्र: । उदाहरणम्-
‘ जलकुम्भमुम्भितरसं सपदि सरस्या: समानयन्त्यास्ते । तटकुञ्जगूढसुरतं भगवानेको मनोभवो वेद ॥ ’
अत्र सुरतगमकानां स्वेदकम्पनि:श्वासानां जलकुम्भानयनत्वराजनितै-स्तैर्भेदस्याग्रहात्सुरतस्याप्रकाश: । यथा वा-
‘ सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव । वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥ ’
अत्र प्रियेण ताम्बूलं कुतो न गृह्लासीत्युक्ते एतावन्तं समयं ताम्बूलनि भुक्त्वैव समागतास्मीत्युक्तवतीं प्रति तस्येयमुक्ति: । पूर्वोदाहरणे प्रत्यक्ष-वस्तुलिड्रान्यागन्तुकानि, अत्र तु साहजिकानीति विशेष: ।
इति रसगंगाधरे मीलितालंकारप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP