संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
अनुमानालंकार:

रसगंगाधरः - अनुमानालंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथानुमानालंकार: -

अनुमितिकरणमनुमानम्‍ ॥
अनुमितिश्चानुमितित्ववती । अनुमितित्वं चानुमिनोमीति मानस-
साक्षात्कारसाक्षिको जातिविशेष: । व्याप्तिप्रकारकपक्षधर्मतानिश्चयजन्य-ज्ञानं वानुमिति: । तस्याश्च करणं व्याप्तिप्रकारकलिड्रनिश्चय इत्येके । व्याप्यत्वेन निश्चीयमानं लिड्रमित्यपरे । इदं च साधारणमनुमानम्‍ । अस्य च कविप्रतिभोल्लिखितत्वेन चमत्कारित्वे काव्यालंकारता । यथा-
‘ तस्मिन्मणिव्रातहतान्धकारे पुरे निशालेपविधानदक्षे । सद्यो वियुक्ता दिवसावसानं कोका: सशोका: कथयन्ति नित्यम्‍ ॥ ’
अत्र कथनं स्फुटबोध: । स चानुभित्यात्मक: कोकवियोगरूपस्य लिड्रस्य व्याप्यत्वेन निश्चयात्करणादुत्पद्यते । तत्र चान्धकारविशेषा-
भावस्य तत्सामान्याभावत्वेनाप्यवसाने सति निशालोपविधानदक्षता-सिद्धौ दिवसावसानसिद्धयभावप्रयुक्ता दिवसावसानानुमितिरित्यस्ति कवि-प्रतिभोल्लिखितत्वम्‍ । वक्ष्यमाणभुन्मीलितमिति न मन्तव्यम्‍ । तस्याप्य-नुमानताया एव स्थापयिष्यमाणत्वात्‍ । यथा वा-
‘ अम्लायन्यदरातिकैरवकुलान्यग्लसिषु: सत्वरं दैन्यध्वान्तकदम्बकानि परितो नेशुस्तमां तामसा: । सन्मार्गा: प्रसरन्ति साधुनलिनान्यल्लासमातन्वते तन्मन्ये भवत: प्रतापतपनो देव प्रभातोन्मुख: ॥ ’
पूर्वत्र लिड्रलिड्रिनो: शुद्धत्वम्‍, इह तु रूपकानुप्राणितत्वमिति विशेष: । कविप्रतिभोल्लिखितत्वं पुन: स्फुटमेव । इह यत्र लिड्रलिड्रिनो: सत्त्वं तत्र मन्ये शड्के अवैमि जाने इत्यादिपदानामनुमितिबोधकत्वम्‍, यत्र तु सादृश्यादिनिमित्तसद्भावस्तत्रोत्प्रेक्षाबोधकतेति विवेक: । तेन चक्षुश्चमत्कृतिं धत्ते यदहो किल कोकिल: ॥ ’
इत्यादावनुमैव नोत्प्रेक्षा ।
अत्रैदं वोध्यम्‍-मन्ये इत्यादिवाचकपदोपादाने वाच्यमनुमानम्‍ । यथानन्तरोक्ते । वक्तिकथयतीत्यादिलक्षकपदोपादाने लक्ष्यम्‍ । यथा ‘ कोका: सशोका: ’ इत्यादौ । तदन्यतरानुपादाने साध्याक्षिप्तायामनुमितौ प्रतीयमानम्‍ । यथा ‘ अम्लायन्‍-’ इति पद्ये,‘तद्भावी तव देव संप्रति महोमार्तण्डबिम्बोदय: ’ इति चतुर्थचरणनिर्माणे । साध्यस्याप्यनुपादाने लिड्रमात्रोपादानेन यत्रागूर्यमाणं साध्यं तत्र ध्वन्यमानम्‍ । यथा-
‘ गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम्‍ ।
आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रता: ॥ ’
अत्र शरदागमस्य साध्यस्यानुमानं ध्वन्यते । एवमेषा व्यवस्था न प्रागुक्ते करणमनुमानमिति नये संगच्छते । करणस्य ज्ञायमानलिड्रत्वपक्षे वाच्यताया: केवलाया आपत्ते: । लिड्रज्ञानत्वपक्षे वाच्यत्वलक्ष्यत्वयोरना-
पत्ते: । अतो‍ऽनुमितिरेवानुमानम्‍ । तस्याश्च वाच्यत्वलक्ष्यत्वप्रतीयमान-त्वध्वन्यमानत्वानां साम्राज्यम्‍, ल्युटश्च करण इव भावेऽपीति ।

इति रसगंगाधरेऽनुमानप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP