रसगंगाधरः - यथासंख्य अलंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ यथासंख्यम्-
उपदेशक्तमेणार्थानां संबन्धो यथासंख्यम् ।
पदार्थानतिवृत्तिरूपे यथार्थेऽव्ययीभाव: । संख्याया अनतिवृत्तिश्च प्रथ मस्य प्रथमेनैव द्वितीयस्य द्वितीयेनैवेत्यादिक्तमेण संबन्धे भवतीति योगार्थ एव लक्षणम् । यथा-
‘ यौवनोद्नमनितान्तशड्किता: शीलशौर्यबलकान्तिलेभिता: । संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रिय: ॥ ’
अत्र यौवनोद्नमनितान्तशड्किता: संकुचन्ति, शौर्यबलकान्तिलेभिता विकसन्तीति प्रथमद्वितीयक्तिययो: क्रमेण प्रथमद्वितीयविशेषणावच्छिन्नेन
कर्त्रान्वय: । स च शाब्द: , समासाभावेन शब्दानामप्यन्वयात् । भावसंधिश्चात्र प्रधानम् । यथा वा-
‘ द्रुमपड्कजविद्वांस: सर्वसंतोषपोषका: । मुधैव हन्त हन्यन्ते कुठारहिमदुर्जनै: ॥ ’
इह दीपकानुप्राणकम् । यथा वा-
‘ वृन्दापितृगहनचरौ कुसुमायुधजननहननशक्तिधरौ । अरिशूललञ्छितकरौ भीति मे हरिहरौ हरताम् ॥’
इहोभयत्राऽऽर्थ: । पूर्वं समासेन समासान्वयेऽवयवानामन्वयस्य
पार्ष्ठिकत्वात् । इत्यादिरपरिमितोऽस्य विषय: । अथ क्रमेणान्वयबोधे किं नियामकम् । अत्र केचित्-“ योग्यताज्ञानमेव नियामकम् । तथाहि ‘ वृन्दापितृगहनचरौ ’ इत्यत्र हरौ श्मशानचारित्वस्य, हरे वृन्दावनचारि-त्वस्य च बाधितत्वादन्वयबोधाभावे हरौ वृन्दावनचारित्वस्य, हरे श्मशानचारित्वस्य च योग्यत्वादन्वयबोधो जायमान: क्रमिकान्वयबोधे पर्यवस्यति । एवमन्यत्रापि ” इत्याहु: ।
अन्ये तु-“ योग्यताज्ञानस्य नियामकत्वे क्रमभड्रस्य दोषता न स्यात् । ‘ कीर्तिप्रतापौ भातस्ते सूर्याचन्द्रमसाविव ’ इत्यादौ कीर्तौ चन्द्र-सादृश्यस्य प्रतापे सूर्यसादृश्यस्य च व्युत्क्तमोक्तस्यापि योग्यतावशादेव प्रतीत्युपपत्ते: । नहि क्तमिकमेव योग्यम्, अपक्तममयोग्यम्, येन तव मुख्यार्थहति: स्यात् । भवति चानुभवसिद्धा सा । तस्मादन्वयिसमसंख्य-
पदार्थज्ञानस्य यथासंख्यान्वयबोधत्वं कार्यतावच्छेदकं वाच्यम् । एवं च ‘ कीर्तिप्रतापौ ’ इत्यत्र च यथाश्रुतानां यथासंख्यान्वयबोधो बाधनिश्चय-पराहत इति मुख्यार्थहतिसद्भावात्क्रमभड्रस्य दोषत्वसाम्राज्यम् । नन्व-न्वयिसमसंख्यपदार्थानां यदि यथासंख्यान्वयबोधो व्युत्पत्तिसिद्धस्तदा ‘ यथासंख्यमनुदेश: समानाम् ’ इति सूत्रं व्यर्थं स्यात् । तदुदाहरणेषु
‘ लोमादिपामादिपिच्छादिभ्य: शनेलच: ’ इत्यादिषु लैकिकसामग्रीबलादेव यथासंख्यान्वयबोधोपपत्ते: । योग्यतामात्रबलात् तथाबोधोपपादकमते तु शास्त्रमात्रचक्षुष्कै: प्रकृतिविशेषप्रत्ययविशेषसंबन्धरूपाया योग्यताया अज्ञानात्तेषां यथासंख्यान्वयबोधारर्थं ‘ यथासंख्यं ’ इति सूत्रमिति चेतू ’ न । ममापि प्रागुक्तव्युत्पत्तिरहितानां तादृशबोधार्थं सूत्रसार्थक्यात् ” इत्याहु: ।
इदं तु बोध्यम्-यथासंख्यान्वयबोधो यथातथास्तु नाम । नात्रागृ-ह्लीम: । यथासंख्यमलंकारपदवीमेव तावत्कथमारोढुं प्रभवतीति तु विचा-रणीयम् । नह्यस्मिंल्लोकसिद्धे कविप्रतिभानिर्मितत्वस्यालंकारताजीवातोर्लेशतो ऽप्युपलब्धिरस्ति, येनालंकारव्यपदेशो मनागपि स्थाने स्यात् । अतोऽ-पक्तमत्वरूपदोषाभाव एव यथासंख्यम् । एवं चोद्भटमतानुयायिनामुक्तय:कूतकार्षापणवदरमणीया एव । एतेन यथासंख्यमेव क्रमालंकारसंज्ञया व्यवहरतो वामनस्यापि गिरो व्याख्याता: तु नव्या: ।
इति रसगंगाधरे यथासंख्यप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP