संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
सार अलंकार:

रसगंगाधरः - सार अलंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ सार:-

सैव संसर्गस्योत्कृष्टापकृष्टभावरूपत्वे सार: ॥
तत्रापि पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षापकर्षाभ्यां द्वैविध्यम्‍ ।
‘ संसारे चेतनास्तत्र विद्वांसस्तत्र साधव: । साधुष्वपि स्पृहाहीनास्तेषु धन्या निराशया: ॥ ’
इमं चालंकारमेकानेकविषयत्वेन पुनर्द्विविधमामनन्ति । एकविषयता-यामवस्थादिभेदाश्रयणभावश्यकम्‍ । उत्कर्षापकर्षयोर्भेदनियतत्वात्‍ । नह्य-वस्थादिभेदकं विना किंचिदपि वस्तु स्वापेक्षया स्वयमधिकं न्यूनं वा भवितुं प्रभवति । एकविषय उत्तरोत्तरोत्कर्षो यथा-
‘ जब्मीरश्रियमतिलड्घय लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ । नीलाभ्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते खलु कनकाचलेन सार्धम्‍ ॥ ’
अत्र पूर्वपूर्वावस्थाविशिष्टाभ्यां कुचाभ्यामुत्तरोत्तरावस्थाविशिष्टयोस्तयो-रेवोत्कर्ष इत्येकविषयत्वम्‍ । यद्यपि परिमाणभेदेन द्रव्यभेदो‍ऽपि मतविशेषे शक्यते वक्तुम्‍, तथापि कुचत्वेनाभेदाश्रयणेन तत्राप्येकविषयत्वं सूपपा-दम्‍ । यदि च वक्ष्यमाण एकाश्रये क्रमेणानेकाधेयस्थितिरूप: पर्यायोऽत्र
प्रतीयते तदा सोऽप्यस्तु । नहि तेन पूर्वपूर्वापेक्षयोत्तरोत्तरोत्कर्षरूप: सारोऽन्यथासिद्ध: शक्य: कर्तुम्‍ ।
अनेकविषय: स एव यथा-
‘ गिरयो  गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम्‍ । जगदण्डादपि गुरव: प्रलयेऽप्यचला महात्मान: ॥ ’
वेदेऽप्ययमलंकारो दृश्यते-
‘ महत: परमव्यक्तमव्यक्तात्पुरुष: पर: । पुरुषान्न परं किंचित्सा काष्ठा सा परा गति: ॥’
पूर्वं तु गुणकृत उत्कर्ष:, इह तु स्वरूपमात्रकृत इति विशेष: । न
चात्र गुणकृत उत्कर्षो वाच्य: । पुरुषस्य निर्गुणत्वेनाभ्युपगमात्‍ । न च तत्रापि विनाशरहितत्वादिर्गभ्यमानो गुण उत्कर्षक इति वाच्यम्‍ । तस्य तादृशाधिकरणभिन्नत्वे मानाभावात्‍ । अनयैव दिशापकर्षो‍ऽप्युदाहार्य: ।
इदं तु बोध्यम्‍-एकविषये श्रृड्खलाया अचारुत्वात्तदनुप्राणित: सारो न चारुतां धत्ते । तस्या: स्वाभाविकभेदापेक्षित्वेनावस्थादिकृत्तभेदेऽनुल्ला-सात्‍ । अत एवास्मिन्विषये वर्धमानकालंकारोऽन्यैड्रीकृत: । तल्लक्षणं च ‘ रूपधर्माभ्यामाधिक्ये वर्धमानकम्‍ ’ इति कृतम्‍ । तस्मात्कारणमालदिर्यथा श्रृड्खलैकविषय:, न तथा सार: शक्यो वक्तुम्‍, एकविषयेऽलंका-
रान्तराभ्युपगमप्रसड्रात्‍ । ‘ गुणस्वरूपाभ्यां पूर्वपूर्ववैशिष्टये सार: ’ इति तु लक्षणं सारस्य युक्तम्‍ । स च क्कचिच्छृड्खलानुप्राणित: , क्कचित्स्व-तन्त्र इत्यनेकविषयत्वमेकविषयत्व च सुस्थम्‍ । एवं शृड्खलविषयाणाम-लंकाराणां विच्छित्तिवैलक्षण्यस्यानुभवसिद्धत्वात्पृथगलंकारत्वे सिद्धे श्रृड्खलाया विरोधाऽभेदसाधर्म्यादिवदनुप्राणकतैवोचिता, न पृथगलंकारता । तथात्वेऽभेदादीनामपि पृथगलंकारतापत्ते: । पूर्णालुप्तादौ तु न विच्छित्ति-वैलक्षण्यम्‍, अपि तूपमाविच्छित्तिरेवेति संप्रदाय: । ननु केयं विच्छित्ति: ?
उच्यते-अलंकाराणां परस्परविच्चेदस्य वैलक्षण्यस्य हेतुभूता जन्यतासंस-र्गेण काव्यनिष्ठा कविप्रतिभा, तज्जन्यत्वप्रयुक्ता चमत्कारिता वा विच्छित्ति: ।

इति रसगंगाधरे सारप्रकरणम्‍ ॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP