रसगंगाधरः - प्रहर्षण अलंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ प्रहर्षणम्-
साक्षात्तदुद्देश्यकयत्नमन्तरेणाप्यभीष्टार्थलाभ: प्रहर्षणम् ॥
इदं च सामान्यलक्षणं त्रिविधप्रहर्षणसाधारणम् । तत्राकस्मादभी-प्सितार्थलाभ इत्येका विधा, वाञ्छितार्थसिद्धयर्थं यत्ने क्रियमाणे ततोऽप्य-धिकतरार्थलाभ इत्यपरा । उपायसिद्धयर्थाद्यत्नात्साक्षात्फलस्य लाभ इति तृतीया । अस्यामेवाव्याप्तिनिरासार्थं लक्षणे साक्षादित्युक्तम् । क्रमेणो-दाहरणानि-
‘ तिरस्कृतो रोषवशात्परिष्वजन्प्रियो मृगाक्ष्या शयित: पराड्मुख: । किं मूर्च्छितोऽसाविति कांदिशीकया कयाचिदाचुम्ब्य चिराय सस्वजे ॥ ’
अत्र यत्रसामान्यशून्यस्यापीष्टलाभ: ।
‘ केलीमन्दिरमागतस्य शनकैरालीरपास्येड्रितै: सुप्ताया: सरुष: सरोरुहदृश: संजीजनं कुर्वत: । जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममाधीयत ॥ ’
अत्र भामिन्या रोषनिवारणाय यत्ने क्तियमाणे रोषनिवारणादप्यधि-कतरसुखप्रद: कामुकस्य भामिनीकर्तृक: स्वकरकर्मकस्तत्कुचाधिकरणक आसड्र: । न चात्र तृतीयभेद: शड्कय: । व्यजनवीजनसमये कामुकस्य माननिवारणस्यैव मुख्योद्देश्यत्वेन तदुपेयकुचस्पर्शादिफलान्तरस्यानुप-स्थिते: । यथा वा-
‘ लोभाद्वराटिकानां विक्तेतुं तक्रमानिशमटन्त्या । लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणि: ॥ ’
अत्र प्रहर्षणद्वितीयभेद: स्फुट एव । अननुरूपसंबन्धमादाय विषमा-लंकारश्च । तत्र महेन्द्रनीलमणिरित्यतिशयोक्त्यालीढयोर्विषयविषयि-णोरुभयोरपि प्रहर्षणेऽनुगुणत्वम् । वाञ्छिताधिकार्थत्वस्य मणि-भगवदु-भयसाधारणत्वात् । विषमे तु नीलमणिरूपस्य विषयिमात्रस्य । यतो वराटिकार्थिनो यथा महेन्द्रनीलमणे: कोटिमूल्यस्य संसर्गोऽननुरूपो न तथा भगवत्संसर्गो भवितुं प्रभवति । न चाज्ञानिनां भगवत्संसर्गोऽननु-रूप एवेति वाच्यम् । एवं तर्हि तक्रविक्तयकर्तृत्वेनैवाज्ञानित्वलाभे वरा-टिकालोभरू पहेतूपन्यासस्यानतिप्रयोजनकत्वापत्ते: । यादृशवाञ्छित-सिद्धयर्थं यत्न: क्रियते तादृषवाञ्छितसिद्धौ तु समालंकार एव ।
तद्दर्शनोपायविमर्शनार्थं मया तदालीसदनं गतेन । तत्रैव सालक्ष्यत पक्ष्मलाक्षी दाक्षायणीमर्चयितुं प्रयाता ॥ ’
अत्र तद्दर्शनोपायसिद्धयर्थं प्रयुक्तात्तत्सखीसदनगमनयत्नात्साक्षादेव
तद्दर्शनलाभ: । यत्तु-
‘ चातकस्त्रिचतुरान्पय:कणान्याचते जलधरं पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ ’
इति पद्यम् ‘ वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् ’ इति प्रहर्षणद्वितीय-प्रभेदं लक्षयित्वोदाह्लतं कुवलयानन्दकृता । तदसत् । वाञ्छितादधि-कार्थस्य संसिद्धिरिति लक्षणे संसिद्धिपदेन निष्पत्तिमात्रं न वक्तुं युक्तम् । सत्यामपि निष्पत्तौ वाञ्छितुस्तल्लाभकृतसंतोषानतिशये प्रहर्षणशब्दयोगा-
र्थासंगत्या तदलंकारत्वायोगात् । किं तु लाभेन कृत: संतोषातिशय: । एवं च प्रकृते चातकस्य त्रिचतुरकणमात्रार्थितया जलदकर्तृकजलकरणक-विश्वपूरणेन हर्षाधिक्याभावात्प्रहर्षणं कथंकारं पदमाधत्ताम् । वाञ्छिता-दधिकप्रदत्वेन दातुरुत्कर्षो भवंस्तु न वार्यते । अत एव हन्त हन्तेत्यादिनार्थान्तरन्यासेन स एव पोष्यते । लोभाद्वाराटिकानामित्यस्मदीये तूदाहरणे वाञ्छितुर्वाञ्छितार्थादधिकवस्तुलाभेन संतोषाधिक्यात्तद्युक्तम् ।
इति रसगंगाधरे प्रहर्षणप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP