रसगंगाधरः - अतद्गुण अलंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथातद्गुण:-
तद्विपर्ययोऽतद्गुण: ॥
यथा-
‘ कुचाभ्यामालीढं सहजकठिनाभ्यामपि रमे न काठिन्यं धत्ते तव ह्लदयमत्यन्तमृदुलम । मृगाड्रानामन्तर्जननि निवसन्ती खलु चिरं न कस्तूरी दूरीभवति निजसौरभ्यविभवात् ॥ ’
अत्र पूर्वार्धे परगुणाग्रहणं शाब्दम्, स्वगुणत्यागाभावस्त्वार्थ: । उत्त-रार्धगते दृष्टान्ते तु स्वगुणत्यागाभाव: शाब्द:, परगुणाग्रहणं त्वार्थम् । न चायमव ज्ञाया नातिरिच्यते । उल्लासविपर्ययो ह्यवज्ञा । तद्गुणविपर्ययश्चात-द्गुण इति प्रतियोगिभेदादेव भेदस्य सिद्धे: । ‘ अत्र गुणाग्राहकापेक्षया संनिहितस्य गुणवत उत्कृष्टत्व-समत्वाभ्यां द्वैविध्यम् ’ इति सर्वस्वकार: । तस्यायमाशय:-अपकृष्टसंबन्धिगुणाग्रहणस्य साहजिकत्वेन वैचित्र्या-
नाधायकत्वादनल्मकारतैवेत्यपकृष्टत्वेन तृतीयविधा तु न संभवतीति । अन्ये तु-‘ अवान्तरचमत्कारविशेषस्याभावाहैउविध्यमपि न’ इति वदन्ति । अन्ये तु-‘ सति गुणग्रहणहेतावत्कृष्टगुणवस्तुसंनिधाने तद्गुणग्रह-णरूपकार्याभावात्मकोऽयमतद्गुणो विशेषोक्तेरवान्तरभेद:, न त्वलंकारा-न्तरम् । कार्यकारणभावो नात्र विवक्षित: । किं तु संनिधोनऽपि तद्गुण-ग्रहणाभाव इत्येतावन्मात्रम् । अतो विशेषोक्तेरतद्गुणो भिन्न इति तु न युक्तम् । संनिधानेऽपीत्यपिना विरोधोऽपि विवक्षित: इति गम्यते । अन्यथा
जीवातोरभावादलंकारतैव न स्यात् । स च कार्यकारणभावाविवक्षणे न भवतीति कथमुच्यते न विवक्षित इति ’ इत्यप्याहु: ।
इति रसगंगाधरेऽतद्रुणप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP