रसगंगाधरः - परिसंख्या अलंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ परिसंख्या-
सामान्यत: प्राप्तस्यार्थस्य कस्माच्चिद्विशेषाव्द्यावृत्ति: परिसंख्या ॥
नियमोऽप्यस्मिन्दर्शने निरुक्तलक्षणाक्रान्तत्वात्परिसंख्यैव । पाक्षिक-प्राप्ति-युगपत्प्राप्तिरूपस्यावान्तरविशेषस्याविवक्षणात् । अत एव वैया-
करणानां मते परिसंख्यापि नियमशब्देनोच्यते । तथा हि-‘ कृत्तद्धित-समासाश्च ’ इत्यत्र समासग्रहणं नियमार्थमिति हि तेषां सिद्धांत: । तत्र हि समासे पाक्षिक्या: प्रातिपदिकसंज्ञाया: प्राप्तेरभावात्कथं नाम पराभिमतो
नियम उपपद्यते । युगपद्धि समास-समासेतरपदसंघातयो: ‘ अर्थवत् ’ -सूत्रं प्राप्तमिति परिसंख्या भवितुमर्हति । पूर्वतन्त्रे तु नियमपरिसंख्ययोर्भेदेन परिभाषणम् । यदाहु:-
विधिरत्यन्तमप्राप्ते, नियम: पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते ॥ ’
विधि:- ‘ स्वर्गकामो यजेत ’ इत्यादि: । यागादे: प्रकारान्तरेणाप्राप्ते: ।
नियम:-‘ व्रीहीनवहन्ति, समे देशे यजेत ’ इत्यादि: । पुरोडाशनिर्माण-फलोपधायकतावच्छेदककोटिप्रविष्टाया वितुषताया: संपादकत्वेनावहननस्य
प्राप्तेर्नखविदलनसमवधानकालावृत्तित्वेन, यागाधिकरणतया समदेश-प्रा-प्तेर्विषमदेशसमवधानकालावृत्तित्वेन, च पाक्षिकत्वात् । परिसंख्या-‘ इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते’ , ‘ पञ्च पञ्चनखा भक्ष्या: ’
इत्यादि: । रशनाग्रहणलिड्रेनाश्वाभिधानीगर्दभाभिधान्योरादानस्य युग-पत्प्राप्तत्वात् इत्यलमप्रकृतचिन्तया ।
इयं च तावहिउविधा-शुद्धा प्रश्रपूर्विका च । द्विविधाप्यार्थी शाब्दी चेति चतुर्विधा । यथा-
‘ सेवायां यदि साभिलाषमसि रे लक्ष्मीपति: सेव्यतां चिन्तायामसि सस्पृहं चिरं चक्रायुधश्चिन्त्यताम् । आलापं यदि काड्क्षसे मधुरिपोर्गाथा तदालप्यतां स्वापं वाञ्छसि चेन्निरर्गलसुखे चेत: सखे सुप्यताम् ॥ ’
अत्र यदिघटितवाक्यैर्निवेदितय रागप्राप्तस्य सेवादे: कर्मताया:
परमेश्वरे विषयान्तरे च प्राप्तत्वे न लोडर्थघटितवाक्यार्थवैयर्थ्यप्रसड्राद्-विषयान्तरं न सेव्यतामित्यादिरूपा विषयान्तरे तत्तत्क्रियाकर्मत्वव्यावृत्ति-स्तात्पर्यविषयतया कल्प्यमानत्वादार्थी शुद्धा च ।
‘ किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मति: किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदय: । किं मित्रं सततोपकाररसिंक तत्त्वावबोध: सखे क: शत्रुर्वद खेददानकुशलो दुर्वासनासंचय: ॥ ’
अत्र हरिपादभजनादिकमेव तीर्थादिकं नान्यदित्यर्थस्तात्पर्यमर्यादया प्रतीयत इत्यार्थी प्रश्रपूर्विका च ।
तीर्थं गंगा तदितरदपां निर्मल्म संघमात्रं देवौ तस्या: प्रसवनिलयौ नाकिनोऽन्ये वराका: । सा यत्रास्ते स हि जनपदो मृत्तिकामात्रमन्य-त्तां यो नित्यं नमति स बुधो बोधशून्यस्ततोऽन्य: ॥ ’
अत्र मात्रादिप दैस्तीर्थत्वादिव्यावृत्ति: प्रतीयत इति शाब्दी शुद्धा । ‘ किं मित्रमन्ते सुकृतं न लोका: किं ध्येयमीशस्य पदं न तोका: किं काम्यमव्याजसुखं न भोगा: किं जल्पनीयं हरिनाम नान्यत् ॥ ’
अत्र शाब्दी प्रश्रपूर्विका चेति प्राचां मतम् । अन्ये तु ‘ व्यावृत्ते-रार्थत्व एव परिसंख्यालंकार:, अन्यथा तु शुद्धा परिसंख्यैव । यथा
हेतुत्वस्यार्थत्व एव हेत्वलंकार:, अन्यथा हेतुमात्रम् । अतो भेदद्वय-मेवास्या: ’ इत्याहु: ।
अपरे तु “ व्यावृत्तेरार्थत्वेऽपि नालंकारत्वम् । ‘ पञ्च पञ्चनखा भक्ष्या: , समे यजेत, रात्सस्य ’ इत्यादावपि तदापत्ते: । किं तु कविप्रतिभानिर्मिता या तादृशव्यावृत्तिस्तस्या: । यथा-‘ यस्मिञ्शासति वसुमतीपाकशासने
महानसेषु संताप:, शरधिह्लदयेषु सशल्यता, मञ्जीरेषु मौखर्यम्, भेरीषु ताडनम्, कामिनीनां कुन्तलेषु कौटिल्यम्, गतिषु मान्द्यम् इत्यादौ । अत्र हि प्रथमान्तार्थ: कविप्रतिभया एकीकृत इति तहूरा तत्प्रतियोगिक-व्यावृत्तिर्निर्मिता । एवं च ‘ सेवायां यदि साभिलाषमसि ’ इत्यत्र नान्य: सेव्य इत्यर्थस्य प्रतीते: परिसंख्यास्तु, न तु परिसंख्यालंकार: । व्यावृत्ते-र्वास्तवत्वेन कविप्रतिभानपेक्षणात् । ‘ किं तीर्थं हरिपादपद्मभजनम् ’ इत्यत्र
तु प्रश्रपूर्वकं दृढारोपरूपकम् । अन्यथा ‘ न विषं विषमित्याहुर्ब्रह्मस्वं विष-मुच्यते ’ इत्यत्रापि परिसंख्यापत्ते: । ‘ किं शास्त्रं ’ इत्यंशे तु परिसंख्यामात्रम् । ‘ तीर्थं गड्रा तदितरदपां निर्मलं संघमात्रम् , इत्यत्रापि परिसंख्यैव शुद्धा । प्रागुक्ताद्धेतोरनार्थत्वात् । तस्मात् ‘ महानसेषु संताप: ’ इत्यादिकमेवास्या उदाहरणम् ” इत्याहु: ।
इति रसगंगाधरे परिसंख्याप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP