संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
अर्थान्तरन्यास अलंकार:

रसगंगाधरः - अर्थान्तरन्यास अलंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथार्थान्तरन्यास:-

सामान्येन विशेषस्य विशेषण सामान्यस्य वा यत्समर्थनं तद-र्थान्तरन्यास: ॥
समर्थनं चेदमेवमनेवं वा स्यादिति संशयस्य प्रतिबन्धक इदमित्थमेवेति
दृढप्रत्यय: । निश्च इति यावत्‍ । तत्र प्रकृतयो: सामान्यविशेषयो: समर्थ्य-त्वम्‍ , अप्रकृतयोर्विशेषसामान्ययो: समर्थकत्वं प्रायशो दृश्यते । तच्च तावत्साधर्म्यवैधर्भ्याभ्यां द्विविधम्‍ । उदाहरणम्‍-
‘ करिकुम्भतुलामुरोजयो: क्रियमाणां कविभिर्विश्रृड्खलै: । कथमालि श्रृणोषि सादरं विपरीतग्रहणा हि योषित: ॥’
अत्र संबोध्यकर्तृकस्य तदीयकुचवृत्तिकरिकुम्भतुलासादरश्रवणस्यानौ-चित्यं प्रतिपाद्यते । तच्च तस्यानिष्टसाधनत्वे संगच्छते । अनिष्टसाधनत्व-भ्रान्तात्वं विना दुरुपपादमिति स्त्रीत्वेन भ्रान्तात्वं प्रतिपाद्यते । तच्च
संबोध्यस्त्रीविशेषभ्रान्तत्वरूपस्य विशेषस्य सामान्यं समर्थकं च ।
‘ उपकारमेव कुरुते विपद्नत: सद्‍गुणो नितराम्‍ । मूर्च्छां गतो मृतो वा रोगानपहरति पारद: सकलान्‍ ॥ ’
अत्र विपद्नतसद्‍गुणकर्तृकोपकारस्य सामान्यस्य प्रकृतस्य मूर्च्छितमृत-पारदकर्तृकं रोगापहरणं विशेष:, उदाहरणतया समर्थकं च । पारदवृत्तान्ते प्रकृते तु पूर्वार्धोत्तरार्धयोर्व्यत्यासे कृते सामान्यस्य विशेषसमर्थकताप्यत्रैव संभवति ।
‘ अहन्नेको रणे रामो यातुधानाननेकश: । असहाया महात्मानो यान्ति कांचन वीरताम्‍ ॥ ’
अत्र विशेषस्य सामान्यं समर्थकम्‍ । वैपरीत्ये तु सामान्यस्य विशेष: । ‘ असहाया-’ इत्याद्युत्तरार्धमपास्य ‘ नूनं सहायसंपत्तिमपेक्षन्ते बलेज्झिता: ’
इति कृते विशेषो वैधर्म्येण सामान्यस्य । अर्धवैपरीत्ये दुर्बलवृत्तान्ते प्रकृते तु वैपरीत्यम्‍ । अस्मिन्नलंकारे समर्थ्यसमर्थकभाव आर्थ: शाब्दश्चालंकार-ताप्रयोजक: । न तु काव्यलिड्रे हेतुहेतुमद्भाव इवार्थ एव । हि यत् यत:
इत्यादे: प्रतिपादकस्याभावे आर्थ: । स तु कथित: ‘ मूर्च्छा गतो मृतो वा ’ इत्यत्र । तत्सत्त्वे शाब्द: । सोऽपि ‘ विपरीतग्रहणा हि ’ इत्यत्र ।
 तथा वा-
भवत्या हि व्रात्याधमपतितपाखण्डपरिष-त्परित्राणस्नेह: श्लथयितुमशक्य: खलु यथा । ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहर: ॥ ’
अत्र भगवत्या भागीरथ्या: स्तोतुश्च वृत्तान्तयोर्विशेषयो: समर्थकस्य चतुर्थचरणप्रतिपाद्यस्य सामान्यस्य समर्थकता यत इत्यनेनोच्यते ।
ननु सामान्यार्थो विशेषार्थसमर्थक इत्यस्य सामान्यव्याप्तिज्ञानं विशेषा-नुमितिप्रयोजकमित्येवार्थ: पर्यवस्यति । अन्यथा स्वभावादेर्दुष्परिहरत्वा-दिव्यभिचारज्ञानदशायां तादृशार्थस्य समर्थकत्वाप्रतिपत्ते: । प्रतीतिविशदी-करणं समर्थकेन क्रियते, नानुमानमिति प्राचीनप्रवादस्त्वविचारितरमणीय इति नायं भेदोऽनुमानादतिशेते । अतिशेते च विशेषार्थेन सामान्यार्थ-
समर्थनरूपोऽधिकरणविशेषारूढसहचारज्ञानाहितव्याप्तिज्ञानदाढर्यात्मेति चेत्‍, कवि: श्रृणोति । न चैवमपि विशेषय सामान्यसमर्थनं नार्थान्तर-न्यासभेदो भवितुमीष्टे । प्रागुक्तोदाहरणालंकारेणैव गतार्थत्वादिति वाच्यम्‍ । इवादिप्रयोगाभावस्यैवात्र ततो वैलक्षण्यात्‍ । एवमपि वाचका-भावादार्थोऽयमुदाहरणालंकारोऽस्तु, न त्वर्थान्तरन्यासभेद इति चेत्‍ , इद-मस्ति वैलक्षण्यम्‍-सामान्यार्थसमर्थकस्य विशेषवाक्यार्थस्य द्वयी गति: ।
अनुवाद्यांशमात्रे विशेषत्वम्‍, विधेयांशस्तु  सामान्यगत एवेत्येका । अनुवाद्य-विधेयोभयांशेऽपि विशेषत्वमित्यपरा । तत्राद्या उदाहरणालंकारस्य विषय:,द्वितीया त्वर्थान्तरन्यासभेदस्य । एवं च ‘ मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रस: ’ इत्युदाहरणालंकारगते विशेषे उपकारमेव कुरुत इति प्राचीनसामान्यार्थगतैव यथोक्तरूपेण क्तिया विधेया । ‘ रोगानपहरति पारद: सकलान्‍ ’ इत्यर्थान्तरन्यासगते तु प्रुथगुपात्तविशेषरूपेणेति । लक्षणे त्वस्य विशेषेणत्यत्रोभयांशविशेषो ग्राह्य: । तेनोदाहरणालंकृतौ नाति-प्रसड्र: । यदि चायमल्पो विशेषो नास्योदाहरणालंकारात्पृथगलंकारतां साधयितुं प्रभवति, अपि तु तद्विशेषतामित्युच्यते, तदा उदाहरणालंकारोऽ-
र्थान्तरन्यासस्य, दृष्टान्तस्य प्रतिवस्तूपमा, रूपकस्यातिशयोक्तिश्च विशेष: उपमैव चार्थी स्मरणभ्रान्तिमत्संदेहा इत्यपि सुवचं स्यात्‍, तत्रापि विशेषस्याल्पत्वात्‍ । किं चोदाहरणालंकारो न प्राचां मन:संतोष-मावहति, उपमयैव तैस्तस्य निरासात्‍ । अतस्तेषां । विशेषेण सामान्यस्य समर्थनमर्थान्तरन्यासं विना नान्यत्र प्रवेष्टुमीष्ट इति ।
अत्र हि प्रतिज्ञा-हेत्ववयवयोरिवाकाडड्क्षाक्तमप्राप्तं समर्थ्यसमर्थक-वाक्ययो: पौर्वापर्यमिति न मन्तव्यम्‍ । नह्यत्र समर्थकं समर्थ्यानुपपत्त्युत्था-पितायामाकाड्क्षायां सत्यामेवाभिधीयत इत्यस्ति नियम: । अनुपपत्तेरभावेऽपि
प्रतीतिवैशद्यार्थ्म कविभिस्तस्याभिधानात्‍ । एवं च वैपरीत्येऽपि न दोष: । यथा-
‘ दीनानामथ परिहाय सुष्कसस्यान्यौदार्यं वहति पयोधरो हिमाद्रौ । औन्नत्यं विपुलमवाप्य दुर्मदानां ज्ञातोऽयं क्षितिप भवादृशां विवेक: ॥ ’
अत्र दानेनासंभावितस्य विदुषो राजानं प्रति कोपवचने पूर्वार्धगतो विशेष उत्तरार्धगते सामान्ये प्रस्तुते समर्थक: । एवमप्रकृतै: प्रकृतस्य समर्थनमुदाह्लतम्‍ । प्रकृतेन प्रकृतसमर्थनं यथा-
‘ कस्तृप्येन्मार्मिकस्तन्वि रमणीयेषु वस्तुषु । हित्वान्तिकं सरोजिन्या: पश्य याति न षट्‍पद: ॥ ’
जलक्तीडायां दूरं गच्छेति वदन्तीं कामिनीं प्रति नायकस्योक्तिरियम्‍ । अस्यां वृत्तान्तद्वयमपि प्रकृतम्‍ । क्कचित्प्रकृतेनाप्रकृतस्य समर्थनं सं-
भवति । परंतु तदप्रकृतं प्रान्ते प्रकृतपर्यवसन्नं भवति । आपाततस्तु तस्या-प्रकृतत्वम्‍, सर्वथैवाप्रकृतस्य समर्थनाऽप्रसक्ते: । यथा-
‘ प्रभुरपि याचितुकामो भजेत वामोरु लाघवं सहसा । यदहं त्वयाधरार्थी सपदि विमुख्या निराशतां नीत: ॥ ’
==
अत्र कामुकयो: प्रक्रान्तेन वृत्तन्तेन विशेषेण दातृयाचकवृत्तान्तोऽ-प्रस्तुत: सामान्यात्मा समर्थ्यते ।
यत्तु ‘ कारणेन कार्यस्य कार्येण वा कारणस्य समर्थनम्‍ ’ इत्यपि भेद-द्वयमर्थान्तरन्यासस्यालंकारसर्वस्वकारो न्यरूपयत्‍ , तन्न । तस्य काव्य-लिड्रविषयत्वात्‍ । अन्यथा ‘ वपु:प्रादुर्भावात्‍-’ इति सकलालंकारिक-
सिद्धं काव्यलिड्रोदाहरणमसंगतं स्यात्‍ । अपरार्धे वाक्यार्थद्वयस्य कारण-त्वेनार्थान्तरन्यासोदाहरणतापत्ते: । यदपि विमर्शिनीकार आह-“ विशेषेणापि सामान्यसमर्थने यत्र सामान्यवाक्यार्थस्योपपादनापेक्षत्वं
तत्रार्थान्तरन्यास: । यत्र पुन: स्वत:सिद्धस्यैव विशदीकरणार्थं तदेकदेश-भूतो विशेष उपादीयते तत्रोदाहरणालंकार: । यथा ‘ निमज्जतीन्दो: किरणेष्विवाड्क: ’ इत्यत्र ” इति । तदपि न ।
‘ निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम्‍ । पश्यति पित्तोपहत: शशिशुभ्रं शड्‍खमपि पीतम्‍ ॥ ’
इति प्राचीनसंमतोदाहरणे सामान्यवाक्यार्थस्यासंदिग्धत्वेनोपपादनान-पेक्षत्वात्‍ । नहि दोषेण भ्रमो भवतीत्यर्थे पामरस्याप्यस्ति संशय:,
येनोपपादनापेक्षा स्यात्‍ । अस्त्येव तर्कस्थल इवाहार्यो‍ऽत्रापि संशय इति चेत्‍, त्वदुक्तोदाहरणालंकारेऽपि तस्य साम्राज्यात्‍ । तस्मादस्मदुक्तैव व्यवस्थानुसर्तव्या ।
कुवलयानन्दकारस्तु-“-‘ यस्मिन्विशेषसामान्यविशेषा: स विक-स्वर: ’ ‘ अनन्तरत्नप्रभवस्य-’ इत्यादि ।
‘ कर्णारुंतुदमन्तरेण रणितं गाहस्व काक स्वयं माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम्‍ । धन्यानि स्थलसौष्ठवेन कतिचिद्‍वस्तूनि कस्तूरिकां नेपालक्षितिपालभालतिलके पड्के न शड्केत क: ॥ ’
पूर्वमुपमारीत्या इह त्वर्थान्तरन्यासरीत्या विकस्वरालंकार: ” इत्याह । तदपि तुच्छम्‍ । ‘ उपकारमेव कुरुते ’ इत्युदाहरणालंकारोक्तास्मदुदाहरणे प्राथमिकविशेषस्याभावात्त्वदुक्तो विकस्वरालंकारो न संभवतीति कश्चिद-लंकारस्त्वयापि वाच्य: । एवं चार्थान्तरन्यासस्य तस्य चार्थान्तरन्यास-
प्रभेदयोश्च संसृष्टयैवोदाहरणानां त्वदुक्तानां गतार्थत्वे नवीनालंकारस्वी-कारानौचित्यात्‍ । अन्यथोपमादिप्रभेदानामनुग्राह्यानुग्राहकतया संनिवेशे‍ऽ-लंकारान्तरकल्पनापत्ते: । ‘ वीक्ष्य रामं घनश्यामं ननृतु: शिखिनो बने ’ इत्यत्राप्युपमापोषितायां भ्रान्तावलंकारान्तरत्वप्रसड्राच्च ।

इति रसगंगाधरेऽथीन्तरन्यासप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP