रसगंगाधरः - लेश अलंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ लेश:-
गुनस्यानिष्टसाधनतया दोषत्वेन, दोषस्येष्टसाधनतया गुणत्वेन च वर्णनं लेश: ॥ ’
यथा-
‘ अपि बत गुरुगर्वं मा स्म कस्तूरि यासी-रखिलपरिमलानां मौलिना सौरभेण । गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि ॥ ’
‘ नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते खण्डयन्ते चन्दनद्रुमा: ॥ ’
पुर्वत्र गुणस्य दोषत्वेन वर्णनमात्रम्, उत्तरत्र तु दोषस्य गुणत्वेन वर्णनमर्थान्तरन्यासानुविद्धम् ।
‘ स्खलन्ती स्वर्लोकादवनितलशोकापह्लतये जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा । अये निर्लोभानामपि मनसि लोभं जनयतां गुणानामेवायं तव जननि दोष: परिणत: ॥ ’
अत्र दोषोऽपराध; । तथा चापराधत्वेन गुणानां दोषत्वमुक्तं भवति । न चायमलंकारो व्याजस्तुत्या उभयरूपया गतार्थ इति शड्कयम् । मुख-प्रतिपादितार्थवैपरीत्येनात्र सर्वत्र पर्यवसानाभावात् । नहि ‘ अपि बत गुरु-गर्वं ’ इत्यत्र कस्तूर्या: स्तुतौ कवेस्तात्पर्यम्, अपि तु जनकप्राणापहारित्वेन निन्दायामेव । अत एवाप्रस्तुतकस्तूरीवृत्तान्ताभिव्यक्ते प्रस्तुतवृत्तान्तेऽपि
तस्यामेव विश्रान्ति: । एवं ‘ नैर्गुण्यमेव साधीय: ’ इत्यत्र शाख्यन्तराणां निद्धा न विवक्षिता, किं तु सुखावस्थानम् । गुणिन: स्वगुणैर्दु: खितस्य वाक्येऽस्मिन्निर्गुणानां निन्दाया अवक्तव्यत्वात्, प्रत्युत स्तुतेरेव वाच्य-त्वात् । ‘ स्खलन्ती स्वर्लोकात् ’ इति पद्ये भागीरथीस्तुतिप्रकरणपठिते यद्यस्ति भागीरथीस्तुतौ तात्पर्यं तदा व्याजस्तुतिरप्यस्तु । तस्या: साव-काशत्वेनैतद्वाधकत्वायोगात् ।
‘ रवितुरगदिग्गजेषु स्वर्णाचलजलधिधनदकोषेषु । सत्स्वेव राजपुंगव किं दातास्मीति गर्वमावहसि ॥ ’
अत्र पर्यन्ते प्रतीयमानस्य रवितुरगादिपरिसंख्यातपदार्थातिरिक्तसकल-वस्तुदानरूपस्य गुणस्य दोषत्वेनावर्णनात्, तत्त्वेन वर्ण्यमानस्य च रवि-तुरगाद्यदानस्यागुणत्वाद्गुणदोषयोर्भिन्नविषयत्वेनावस्थानेन लेशस्पर्शलेशर-हिता व्याजस्तुतिरिति स्फुटमेव सावकाशत्वम् । अत एव लेशोऽपि न-
व्याजस्तुतेर्बाधक इति प्रागुक्तजाह्लवीस्तुतौ द्वयोरपि समावेश: ।
इति रसगंगाधरे लेशप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP