रसगंगाधरः - विशेषालंकार:
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
प्रसिद्धमाश्रयं विना आधेयं वर्ण्यमानमेको विशेषप्रकार: । यच्चै-कमाधेयं परिमितयक्तिंचिदाधारगतमपि युगपदनेकाधारगततया वर्ण्यते सोऽपरो विशेषप्रकार: ॥
युगपदिति विशेषणाद्वक्ष्यमाणे पर्याये नातिव्याप्ति: । एवं च ग्रन्था-न्तरगतानि लक्षणान्यतिप्रसक्तान्येव ।
“ यच्च किंचित्कार्यमारभमाणस्यासंभाविताशक्यवस्त्वन्तरनिर्वर्तनं स तृतीयो विशेषप्रकार: । एवं चैतदन्यतमत्वं विशेषालंकारसामान्य-लक्षणम् ”
इति प्राञ्च: ।
तत्र प्रथम: प्रकारो द्विविध:-आधारान्तरगतत्वेनाधेयं वर्ण्यमानम्, निराधारत्वेन च । क्तमेणोदाहरणानि-
‘ अये राजन्नाकर्णय कुतुकमार्णनयन त्वदाधारा कीर्तिर्वसति किल मौलौ दशदिशाम् । त्वदेकालम्बोऽयं गुणगणकदम्बो गुणनिधे मुखेषु प्रौढानां विलसति कवीनामविरतम् ॥ ’
अत्र दिड्भौलिगतत्वेन ।
‘ युक्तं तु याते दिवमासफेन्दौ तदाश्रितानां यदभूद्विनाश: । इदं तु चित्रं भुवनावकाशे निराश्रया खेलति तस्य कीर्ति: ॥ ’
द्वितीय: प्रकारो यथा-
नयने सुदृशां पुरो रिपुणां वचने वश्यगिराम महाकवीनाम् । मिथिलापतिनन्दिनीभुजान्त:स्थित एव स्थितिमाप रामचन्द्र: ॥ ’
तृतीय: प्रकारो यथा-
‘ कोदण्डच्युतकाण्डमण्डलसमाकीर्णत्रिलोकीतलं रामं दृष्टवतां रणे दशमुखप्राणापहारोद्यतम् । दुर्दर्शोऽपि नृणामभूदुरुमरुद्वेगप्रचण्डीकृत-ज्वालभिर्जगतीतलं कवलयन्कालानलो गोचर: ॥ ’
अत्र रामदर्शनं कुर्वतां कालानलदर्शनरूपाशक्यवस्त्वन्तरनिर्वर्तनम् ।
ननु-
‘ लोभाद्वराटिकानां विक्तेतुं तक्तमानिशमटन्त्या । लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणि: ॥ ’
इति वक्ष्यमाणप्रहर्षणविषमालंकारयोगे तृतीयप्रकारस्यातिव्याप्ति: । दधिविक्तयमारभमाणाया नीलमणिप्राप्तिवर्णनादिति चेत्, न । अत्र चाशक्यवस्त्वन्तरनिर्वर्तने तदभेदाध्यवसाननिबन्धनत्वं विशेषणम् । ‘ कालानलो वीक्षित: ’ इत्यनुपदमुदाह्लते विशेषालंकारे यथा अशक्यवस्त्वन्तर-रूपकालानलवीक्षणं राम-कालानलयोस्तद्दर्शनयोर्वा अभेदाध्यवसानेन
निर्वर्तितम्, न तथा ‘ दधि विक्रेतुमतन्त्या ’ इत्यत्र महेन्द्रनीलमणिदर्शन-मित्यदोष: । न च भगवति नीलमण्यभेदाध्यवसानेन निर्वर्तितमेव तदिति वाच्यम् । किंचित्कार्यमारभमानस्येत्यत्र यत्कार्यं विशेषणतया प्रविष्टं तेन सहाशक्यवस्त्वन्तरस्याभेदस्य विवक्षितत्वात् । प्रकृते च तक्तविक्तयेण सह नीलमणेरभेदस्यानध्यवसानात् । न चातिशयोक्त्या विशेषालंकारतृतीय-प्रकारस्य गतार्थत्वं वाच्यम् । एतदुदाहरणे रामस्य विषयस्य कालानलेन विषयिणा निगरणाभावात् । नापि रूपकेण । विषयविषयिणो: सामाना-
धिकरण्यविरहेणारोपासिद्धे: । न च स्मृत्या । कालानलस्य वीक्षणकर्मत्व-श्रवणेन स्मृतिकर्मत्वासिद्धे: । तस्मादशक्यवस्त्वन्तरकरणं विशेषालंकार-स्यैव प्रभेद इति प्राचामाशय: ।
अत्र विचार्यते-विशेषालंकारस्यायं प्रभेद इति कथं विज्ञायते । नहि रूपकादिवदलंकारस्यास्य किंचित्सामान्यलक्षणमस्ति, येन तदाक्तान्तत्वे-नाशक्यवस्त्वन्तरकरणत्वस्य तत्प्रकारतामभ्युपगच्छेम । न चान्यतमत्व-मेव तथाविधमस्तीति वाच्यम् । अनेनैव प्रकारेणेतरालंकारभेदत्वस्यापि
सुवचत्वात् । अनुगतलक्षणं विना प्राचीनोक्तिराज्ञामात्रमेव राज्ञा मिति तद-पेक्षया पृथगलंकारतोक्तिरेव रमणीया । अपि च ‘ येन दृष्टोऽसि देव त्वं तेन दृष्टो हुताशन: ’, ‘ तेन दृष्टा वसुंधरा ’ इत्यादौ वस्त्वन्तरस्य हुताशन-वसुधादर्शनादेरशक्यासंभावितत्वयोरभावात्प्रकृतालंकारासंभवेन निदर्शना स्वीक्रियते यदि, तदा ‘ येन दृष्टोऽसि देव त्वं तेन दृष्ट: सुरेश्वर: ’ इत्यादौ विशेषालंकारेऽपि सैव शरणीक्तियताम् । नहि हुताशन इत्यत्र सुरेश्वर इत्यत्र च विच्छित्तिभेदोऽस्ति । एवं च प्राचीनानुसारेण ‘ कोदण्डच्युत-’ इत्यादि यदस्माभिरुदाह्लतं तदपि न विशेषसरणिमारोढुमीष्टे । एतेन ‘ त्वां पश्यता मला लब्धं कल्पवृक्षनिरीक्षणम् ’ इत्यादि कुवलयानन्दोक्तमुदाहरणं गतार्थम् । तस्मादिदभुदाहरणम्-
‘ किं नाम तेन न कृतं सुकृतं पुरारे दासीकृता न खलु का भुवनेषु लक्ष्मी: । भोगा न के बुभुजिरे विबुधैरलभ्या येनार्चितोऽसि करुणाकर हेलयापि ॥ ’
अत्र यावस्त्रिवर्गप्राप्तिरशक्यकरणम् । नह्यत्र भगवदर्चनेन सुकृत-करणादीनां सादृश्यं विवक्षितम् , येन निदर्शनादि संभाव्येत । किं तु कार्यकारणभाव: । एवं चेदानीमशक्यवस्त्वन्तरनिर्वर्तने अभेदाध्यवसाननि-बन्धनत्वं न विशेषणम् । न च ‘ दधि विक्तेतुमटन्त्या ’ इत्यत्रातिव्याप्ति: । द्वयो: संकरस्य तत्रेष्टेरिति वदन्ति ।
इति रसगंगाधरे विशेषालंकारप्रकारणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP