संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
उत्तरालंकार:

रसगंगाधरः - उत्तरालंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथोत्तरालंकार:-

प्रश्रप्रतिबन्धकज्ञानविषयीभूतोऽर्थ उत्तरम्‍ ॥

प्रश्रश्च ज्ञीप्सा । भावे नडो विधानात्‍ । सा ज्ञानविषयेच्छा । सा चोत्तरवाक्याद्विषयीभूते ज्ञाने जाते निवर्तते । ननु जिज्ञासा ज्ञानेष्टसाधन-

ताज्ञानसाध्या । जाते हि ज्ञानेष्टसाधनताज्ञाने तदूपस्यैव विषयीभूत-ज्ञानस्य सिद्धत्वात्कथमुत्पत्तुमर्हतीति । मैवम्‍ । ‘ किमेकं दैवतं लोके ’
इत्यादिप्रश्रवाक्यादेकदैवतत्वव्याप्यधर्मप्रकारकं ज्ञानमिष्टसाधनमिति ज्ञान-जन्या प्रयोक्तृगता तादृशं ज्ञानं मे जायतामितीच्छानुमीयते । साच प्रष्टु: कुतश्चिद्दैवतत्वप्रकारकोपस्थितावेकसंबन्धिज्ञानाधीनायां दैवतत्व-व्याप्यधर्मत्वेन रूपेण तादृशधर्मोपस्थितौ च सत्यां तस्यां गृहीतेन दैवत-

त्बंव्याप्यधर्मप्रकारकज्ञानत्वेन सामान्येन भाविन्युत्तरवाक्यजन्यज्ञाने इष्टसाधानताज्ञानादुत्पद्यते । तस्याश्च तादृशप्रकारकज्ञानत्वेन सामान्यरूपेण विष्णुर्दैवतमित्यादीनि ज्ञानान्येव दैवतत्वव्याप्यधर्मांशे निरवच्छिन्नप्रकार-

ताभाञ्जि विषय इति तैरेवोत्तरवाक्यादुत्पन्ने: सा प्रतिबध्यते । जनकीभूत-ज्ञानं विषय एव तस्या न भवतीति न तत्सिद्धि: प्रतिबन्धिकेति न दोष: । तच्चोत्तरं द्विविधम्‍-उन्नीतप्रश्रम्‍ , निबद्धप्रश्रं च ।

क्तमेणोदाहणानि--

‘ त्वमिव पथि क: प्रियो मे विटपिस्तोमेषु गमयति क्लेशान्‍ । किमितोऽन्यत्कुशलं मे संप्रति यत्पान्थ जीवामि ॥ ’

अत्र कस्यचित्पान्थस्य पुरंध्र्‍या: कंचित्पथिकान्तरं प्रत्युत्तरेण तत्कर्तृक:कुशलप्रश्रोऽनुमीयते कुशलमपृष्टाया:कुशलोक्तेरयोगात्‍ ।

‘ किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तै: । कथय तथापि मुदे मम कथयिष्यति याहि पान्थ तव जाया ॥ ’

अत्राद्यप्रश्रस्य हेतुं चेद्वदसि तदा प्रतिकरिष्यामीति व्यड्रयम्‍ । उत्तरस्य तु-न मया पतिव्रतया हेतुर्वक्तुं परपुरुष्म प्रति योग्य:, न च त्वया प्रति-कर्तुं शक्य इति । द्वितीयप्रश्रस्य त्वलं पातिव्रत्येनाविदग्धजनहठमात्रवि-लसितेन । स्वपरसंतोष एव संसारसार इति । द्वितीयोत्तरस्य तु-या मम दशा सैव तव जायाया अपि दशास्ति । सैव प्रतिक्तियताम्‍ । नहि स्वकीयं सदनं दह्यमानमुपेक्ष्य कश्चित्परसदनाग्रिं प्रतिकरोति । अथ यदि परोपकार: स्वकीयां क्षतिमपि सोढ्‍वा करणीय इत्यस्ति मनीषा, तदा तवैवंविधोपकारे प्रवृत्तस्य जायाया: केनचिदन्येन भवादृशेनोपकार:

करणीय इति त्वयैव तस्या ममेव परपुरुषपराड्‍मुख्या विरहो दूरीकर्तव्य इति ।

उन्नीतप्रश्रे सकृदुत्तरस्य चारुत्वम्‍, निबद्धप्रश्रे तु प्रश्रोत्तरयोरसकृदुप-न्यासे तदिति प्राञ्च: । अयं चोत्तरालंकारो द्विविधोऽपि प्रश्रोत्तरयोर-न्यतरस्योभयोश्च साभिप्रायत्वेन निरभिप्रायत्वेन च चतुर्विध इत्यष्टधा ।

‘ प्रियो ह्लदयवर्ती मे न सां मुञ्चति जातुचित्‍ । उत्तरे नावकाशोऽस्ति दूरतस्ते मनोरथ: ॥ ’

अत्र केनचित्पान्थने कांचित्साध्वीं प्रति कुत्र तव प्रियोऽस्तीति कृत:

प्रश्र उन्नीत: प्रियनैकटये तद्वञ्चनेन तदनैकटये च स्वाच्छन्द्येनावयो-र्विलासो मान्मथो भविष्यतीत्यभिप्रायगर्भित: । अन्यथा ‘ दूरतस्ते मनो-रथ: ’ इत्यस्यासंगत्यापत्ते: । उत्तरं तु स्फुटत्वात्तदगर्भितम्‍ ।

‘ सुवर्णस्य कृते तन्वि देशं देशमटाभ्यहम्‍ । तस्य दुष्प्रापताहेतोश्चिन्ताक्तान्तं मनो मम ॥ ’

अत्र कस्य हेतोश्चिन्ताक्रान्तं ते मन इति कस्याश्चित्स्फुटार्थे ग्रामी-णाया: प्रश्रे कस्यचिन्नागरिकस्योत्तरं ‘ रूप यदि ददासि तदा मम चिन्ता गमिष्यती ’ त्यभिप्रायगर्भम्‍ ।

‘ रोगस्य ते चिकित्सां निदानमालोच्य सुन्दरि करिष्टे । मा हन्त कातरा भू रसक्रियायां नितान्तनिपुणोऽस्मि ॥ ’

अत्र ‘ नापृष्ट: कस्यचिद्‍ब्रूयात ’ इत्यादिनीत्या वैद्यकर्तृकप्रतिज्ञोन्नीत: प्रश्रो-‘ वैद्य, रोगस्य मे चिकित्सां करिष्यसि ? ’ इत्याकारो विदग्धनायिका-रूपाया वक्त्र्या वैशिष्टयात्संभोगरूपेणाभिप्रायेण गर्भित: । उत्तरमपि तेनैवाभिप्रायेण गर्भितम्‍ । प्रश्रोत्तरयोर्द्वयोरपि निरभिप्रायत्वे ‘ त्वमिव पथिक: ’ इति कथितमेवोदाहरणम्‍ । एते ह्युन्नीतप्रश्रभेदा: । एवं निबद्धप्रश्रभेदा अप्युदाहार्या: । ‘ किमिति कृशासि ’ इति पद्यमपि चतुर्णां निबद्धप्रश्रभेदानामुदाहरणभावमर्हति वक्तृवैदग्ध्यावैदग्धव्यवस्थयेति ।

अत्राहु: - अलंकारे ह्यस्मिन्प्रश्रोत्तरगतमसकृदुपनिबद्धत्वं जीवातु: । तथैव चमत्कारोदयात्‍ । तेन सकृत्प्रश्रस्य सकृदुत्तरं नालंकारस्य भूमि: ।

न चोन्नीतप्रश्रोत्तरेऽव्याप्ति: उन्नीतस्य प्रश्रस्यैकत्वादनुपनिबन्धाच्चोत्तरस्या-प्येकत्वादिति वाच्यम्‍ । प्रश्रगतमुन्नीतत्वमत्रोत्तरेणाऽऽक्षिप्तत्वं न विवक्षितम्‍ । किं तु प्रश्रोत्तरपरभ्परायां प्राचीनोत्तरश्रवणजन्यत्वमात्रम्‍ । यथा-

‘ श्यामं यज्ञोपवीतं तव किमिति मषीसंगमात्कुत्र जात: सोऽयं शीतांशुकन्यापयसि कथमभूत्तज्जलं कज्जलाक्तम्‍ ।

व्याकुप्यन्नूरदीनक्षितिरमणरिपुक्षोणिभृत्पक्ष्मलाक्षी-लक्षाक्षीणाश्रुधारासमुदितसरितां सर्वत: संगमेन ॥ ’

अत्र ‘ कुत्र जात: ’ इत्यादिप्रश्रो ‘ मषीसंगमात्‍ ’ इत्याद्युत्तरश्रवणादुद्नत इत्युन्नीत उच्यते । आद्यप्रश्रस्त्वनुन्नीतो‍ऽप्युत्तरोत्थापनार्थं निबद्ध इति ।

एवं चास्मिन्मते प्राग्दर्शितान्युन्नीतप्रश्रोदाहरणान्यनुदाहरणान्येव । अलं-

कारस्यास्य द्वैविष्यमपि न प्रश्रस्योन्नीतत्व-निबद्धत्वाभ्याम्‍ । किं तून्नीतत्वा-नुन्नीतत्वाभ्यां ज्ञेयम्‍ । वस्तुतस्तु-प्रश्रोत्तरयोराकूतगर्भत्वे तावतैव चम-त्कारान्नासकृदुपादानापेक्षा । आकूतविरहे त्वसकृदुपादानकृतश्चमत्कारोऽपेक्ष्यते निबद्धप्रश्रे । आक्षिप्तप्रक्षे तु प्रश्राक्षेपकृतं चमत्कारं यदि मन्यन्ते सह्लदयास्तदा सकृदुपादानेऽप्यलंकारत्वमस्तु ।

प्रकारान्तेरणाप्यस्य भेदा: संभवन्ति । पद्यान्तर्वर्तित्वेन पद्यबहिर्वर्ति-त्वेन तावहैउविध्यम्‍ । तत्राद्यस्याभिन्नवाक्योद्नीर्णत्व-भिन्नवाक्योद्नीर्णत्वाभ्यां पुनर्द्वैविध्यम्‍ । पद्यान्तर्वर्ति-पद्यबहिर्वर्तिनोर्द्वयोरप्युत्तरयो:सकृच्छब्द-श्रुतिपर्याप्तत्वेन शब्दावृत्तिपर्याप्तत्वेन, अनेकेषां प्रश्रानामेकपदनिवेदितो-त्तरत्वेन प्रकारान्तरैश्च बहुप्रभेदत्वम्‍ । दिड्भात्रेणोदाह्लियते-

किं कुर्वते दरिद्रा: कासारवती धरा मनोज्ञतरा । कोपावनस्त्रिलोक्यां ........................... ॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP