संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ०२

कौमारिकाखण्डः - अध्यायः ०२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सूत उवाच ॥
ततो द्विजौः परिवृतं नारदं देवपूजितम् ॥
अभिगम्योपजग्राह सर्वानथ स पाण्डवः ॥१॥
ततस्तं नारदः प्राह जयारातिधनंजय ॥
धर्मे भवति ते बुद्धिर्देवेषु ब्राह्मणेषु च ॥२॥
कच्चिदेतां महायात्रां वीर द्वादशवारषिकीम् ॥
आचरन्खिद्यसे नैवमथ वा कुप्यसे न च ॥३॥
मुनीनामपि चेतांसि तीर्थयात्रासु पांडव ॥
खिद्यंति परिकृप्यंति श्रेयसां विघ्नमूलतः ॥४॥
कच्चिन्नैतेन दोषेण समाश्लिष्टोऽसि पांडव ॥
अत्र चांगिरसा गीतां गाथामेतां हि शुश्रुम ॥५॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥
निर्विकाराः क्रियाः सर्वाः स तीर्थफलमश्नुते ॥६॥
तदिदं हृदि धार्यं ते किं वा त्वं तात मन्यसे ॥
भ्राता युधिष्ठिरो यस्य सखा यस्य स केशवः ॥७॥
पुनरेतत्समुचितं यद्विप्रैः शिक्षणं नृणाम् ॥
वयं हि धर्मगुरवः स्थापितास्तेन विष्णुना ॥८॥
विष्णुना चात्र श्रृणुमो गीतां गाथां द्विजान्प्रति ॥९॥
यस्यामलामृतयशःश्रवणावगाहः सद्यः पुनाति जगदा श्वपचाद्विकुंठः ॥
सोहं भवद्भिरुपलब्ध सुतीर्थकीर्तिश्छद्यां स्वबाहुमपि यः प्रतिकूलवर्ती ॥१०॥
प्रियं च पार्थ ते ब्रूमो येषां कुशलकामुकः ॥
सर्वे कुशलिनस्ते च यादवाः पांडवास्तथा ॥११॥
अधुना भीमसेनेन कुरूणामुपतापकः ॥
शासनाद्धृतराष्ट्रस्य वीरवर्मा नृपो हतः ॥१२॥
स हि राज्ञामजेयोऽभूद्यथापूर्वं बलिर्बली ॥
कंटकं कंटकेनेव धृतराष्ट्रो जिगाय तम् ॥१३॥
इत्यादिनारदप्रोक्तां वाचमाकर्ण्य फाल्गुनः ॥
अतीव मुदितः प्राह तेषामकुशलं कुतः ॥१४॥
ये ब्राह्मणमते नित्यं ये च ब्राह्मणपूजकाः ॥
अहं च शक्त्या नियतस्तीर्थानि विचरन्ननु ॥१५॥
आगतस्तीर्थमेतद्धि प्रमोदोऽतीव मे हृदि ॥
तीर्थानां दर्शनं धन्यमवगाहस्ततोऽधिकः ॥१६॥
माहात्म्यश्रवणं तस्मादौर्वोपि मुनिरब्रवीत् ॥
तदहं श्रोतुमिच्छामि तीर्थस्यास्य गुणान्मुने ॥१७॥
एतेनैव श्राव्यमेतद्यत्त्वयांगीकृतं मुने ॥
त्वं हि त्रिलोकीं विचरन्वेत्सि सर्वां हि सारताम् ॥१८॥
तदेतत्सर्वतीर्थेभ्योऽधिकं मन्ये त्वदा हृतम् ॥१९॥
॥ नारद उवाच ॥
उचितं तव पार्थैतद्यत्पृच्छसि गुणिन्गुणान् ॥
गुणिनामेव युज्यन्ते श्रोतुं धर्मोद्भवा गुणाः ॥
साधूनां धर्मश्रवणैः कीर्तनैर्याति चान्वहम् ॥२०॥
पापानामसदालापैरायुर्याति यथान्वहम् ॥
तदहं कीर्तयिष्यामि तीर्थस्यास्य गुणान्बहून् ॥२१॥
यथा श्रुत्वा विजानासि युक्तमंगीकृतं मया ॥
पुराहं विचरन्पार्थ त्रिलोकीं कपिलानुगः ॥२२॥
गतवान्ब्रह्मणो लोकं तत्रापश्यं पितामहम् ॥
स हि राजर्षिदेवर्‌षिमूर्तामूर्तैः सुसंवृतः ॥२३॥
विभाति विमलो ब्रह्मा नक्षत्रैरुडुराडिव ॥
तमहं प्रणिपत्याथ चक्षुषा कृतस्वागतः ॥२४॥
उविष्टः प्रमुदितः कपिलेन सहैव च ॥
एतस्मिन्नंतरे तत्र वार्तिकाः समुपागताः ॥२५॥
प्रहीयंते हि ते नित्यं जगद्द्रष्टुं हि ब्रह्मणा ॥
कृतप्रणामानथ तान्समासीनान्पितामहः ॥२६॥
चक्षुषामृतकल्पेन प्लावयन्निव चाब्रवीत् ॥
कुत्र कुत्र विचीर्णं वो दृष्टं श्रुतमथापि वा ॥२७॥
किंचिदेवाद्भुतं ब्रूत श्रवणाद्येन पुण्यता ॥
एवमुक्ते भगवता तेषां यः प्रवरो मतः ॥२८॥
सुश्रवानाम ब्रह्माणं प्रणिपत्येदमूचिवान् ॥
प्रभोरग्रे च विज्ञप्तिर्यथा दीपो रवेस्तथा ॥२९॥
तथापि खलु वाच्यं मे परार्थं प्रेरितेन ते ॥
मुनिः कात्यायनोनाम श्रुत्वा धर्मान्पुनर्बहून् ॥३०॥
सारजिज्ञासया तस्थावेकांगुष्ठः शतं समाः ॥
ततः प्रोवाच तं दिव्या वाणी कात्यायन श्रृणु ॥३१॥
पुण्ये सरस्वतीतीरे पृच्छ सारस्वतं मुनिम् ॥
स ते सारं धर्मसाध्यं धर्मज्ञोऽभिवदिष्यति ॥३२॥
इति श्रुत्वा मुनिवरो मुनिश्रेष्ठमुपेत्य तम् ॥
प्रणम्य शिरसा भूमौ पप्रच्छेदं हृदि स्थितम् ॥३३॥
सत्यं केचित्प्रशंसंतितपः शौचं तथा परे ॥
सांख्यं केचित्प्रशंसंति योगमन्ये प्रचक्षते ॥३४॥
क्षमां केचित्प्रशंसंति तथैव भृशमार्ज्जवम् ॥
केचिन्मौनं प्रशंसंति केचिदाहुः परं श्रुतम् ॥३५॥
सम्यग्ज्ञानं प्रशंसंति केचिद्वैराग्यमुत्तमम् ॥
अग्निष्टोमादिकर्माणि तथा केचित्परं विदुः ॥३६॥
आत्मज्ञानं परं केचित्समलोष्टाश्मकांचनम् ॥
इत्थं व्यवस्थिते लोके कृत्याकृत्यविधौ जनाः ॥३७॥
व्यामोहमेव गच्छंति किं श्रेय इति वादिनः ॥
यदेतेषु परं कृत्यम् नुष्ठेयं महात्मभिः ॥३८॥
वक्तुमर्हसि धर्मज्ञ मम सर्वार्थसाधकम् ॥३९॥
 ॥सारस्वत उवाच ॥
यन्मां सरस्वती प्राह सारं वक्ष्यामि तच्छृणु ॥
छायाकारं जगत्सर्वमुत्पत्तिक्षयधर्मि च ॥
वारांगनानेत्रभंगस्वद्वद्भंगुरमेव तत् ॥४०॥
धनायुर्यौवनं भोगाञ्जलचंद्रवदस्थिरान् ॥
बुद्ध्या सम्यक्परामृश्य स्थाणुदानं समाश्रयेत् ॥४१॥
दानवान्पुरुषः पापं नालं कर्तुमिति श्रुतिः ॥
स्थाणुभक्तो जन्ममृत्यू नाप्नोतीति श्रुति स्तथा ॥४२॥
सावर्णिना च गाथे द्वे कीर्तिते श्रृणु ये पुरा ॥
वृषो हि भगवान्धर्मो वृषभो यस्य वाहनम् ॥४३॥
पूज्यते स महादेवः स धर्मः पर उच्यते ॥
दुःखावर्ते तमोघोरे धर्माधर्मजले तथा ॥४४॥
क्रोधपंके मदग्राहे लोभबुद्बदसंकटे ॥
मानगंभीरपाताले सत्त्वयानविभूषिते ॥४५॥
मज्जंतं तारयत्येको हरः संसारसागरात् ॥
दानं वृत्तं व्रतं वाचः कीर्तिधर्मौ तथायुषः ॥४६॥
परोपकरणं कायादसारात्सारमुद्धरेत् ॥
धर्मे रागः श्रुतौ चिंता दाने व्यसनमुत्तमम् ॥४७॥
इंद्रियार्थेषु वैराग्यं संप्राप्तं जन्मनः फलम् ॥
देशेऽस्मिन्भारते जन्म प्राप्य मानुष्यमध्रुवम् ॥४८॥
न कुर्यादात्मनः श्रेयस्तेनात्मा वंचतश्चिरम् ॥
देवासुराणां सर्वेषां मानुष्यमतिदुर्लभम् ॥४९॥
तत्संप्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा ॥
सर्वस्य मूलं मानुष्यं तथा सर्वार्थसाधकम् ॥५०॥
यदि लाभे न यत्नस्ते मूलं रक्ष प्रयत्नतः ॥
महता पुण्यमूल्येन क्रीयते कायनौस्त्वया ॥५१॥
गंतुं दुःखोदधेः पारं तर यावन्न भिद्यते ॥
अविकारिशरीरत्वं दुष्प्राप्यं वै ततः ॥५२॥
नापक्रामति संसारादात्महा स नराधमः ॥
तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः ॥
दानानि चात्र दीयंते परलोकार्थमादरात् ॥५३॥
 ॥कात्यायन उवाच ॥
दानस्य तपसो वापि भगवन्किं च दुष्करम् ॥
किं वा महत्फलं प्रेत्य सारस्वत ब्रवीहि तत् ॥५४॥
 ॥सारस्वत उवाच ॥
न दानाद्दुष्करतरं पृथिव्यामस्ति किंचन ॥
मुने प्रत्यक्षमेवैतद्दृश्यते लोकसाक्षिकम् ॥५५॥
परित्यज्य प्रियान्प्राणान्धनार्थे हि महाभयम् ॥
प्रविशंति महालोभात्समुद्रमटवीं गिरिम् ॥५६॥
सेवामन्ये प्रपद्यंते श्ववृत्तिरिति या स्मृता ॥
हिंसाप्रायां बहुक्लेशां कृषिं चैव तथा परे ॥५७॥
तस्य दुःखार्जितस्येह प्राणेभ्योपि गरीयसः ॥
आयासशतलब्धस्य परित्यागः सुदुष्करः ॥५८॥
यद्ददाति यदश्नाति तदेव धनिनो धनम् ॥
अन्ये मृतस्य क्रीडंति दारैरपि धनैरपि ॥५९॥
अहन्यहनि याचंतमहं मन्ये गुरुं यथा ॥
मार्जनं दर्पणस्येव यः करोति दिनेदिने ॥६०॥
दीयमानं हि नापैति भूय एवाभिवर्धते ॥
कूप उत्सिच्यमानो हि भवेच्छुद्धो बहूदकः ॥६१॥
एकजन्मसुखस्यार्थे सहस्राणि विलापयेत् ॥
प्राज्ञो जन्मसहस्रेषु संचिनोत्येकजन्मनि ॥६२॥
मूर्खो हि न ददात्यर्थानिह दारिद्र्यशंकया ॥
प्राज्ञस्तु विसृजत्यर्थानमुत्र तस्य शंकया ॥६३॥
किं धनेन करिष्यंति देहिनो भंगुराश्रयाः ॥
यदर्थं धनमिच्छंति तच्छरीरमशाश्वतम् ॥६४॥
अक्षरद्वयमभ्यस्तं नास्तिनास्तीति यत्पुरा ॥
तदिदं देहिदेहिति विपरीतमुपस्थितम् ॥६५॥
बोधयंति च यावंतो देहीति कृपणं जनाः ॥
अवस्थेयमदानस्य मा भूदेवं भवानपि ॥६६॥
दातुरेवोपकाराय वदत्यर्थीति देहि मे ॥
यस्माद्दाता प्रयात्यूर्ध्वमधस्तिष्ठेत्प्रतिग्रही ॥६७॥
दरिद्रा व्याधिता मूर्खाः परप्रेष्यकराः सदा ॥
अदत्तदानाज्जायंते दुःखस्यैव हि भाजनाः ॥६८॥
धनवंतमदातारं दरिद्रं वाऽतपस्विनम् ॥
उभावंभसि मोक्तव्यौ कंठे बद्धा महाशिलाम् ॥६९॥
शतेषु जायते शूरः सहस्रेषु च पंडितः ॥
वक्ता शतसहस्रेषु दाता जायेत वा न वा ॥७०॥
गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः ॥
अलुब्धैर्दानशीलैश्च सप्तभिर्धार्यते मही ॥७१॥
शिबिरौशीनरोङ्गानि सुतं च प्रियमौरसम् ॥
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ॥७२॥
प्रतर्द्दनः काशिपति प्रदाय नयने स्वके ॥
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते ॥७३॥
निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम् ॥
ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वीं सपत्तनाम् ॥७४॥
अवर्षति च पर्जन्ये सर्वभूतनिवासकृत् ॥
वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः ॥७५॥
ब्रह्मदत्तश्च पांचाल्यो राजा बुद्धिमतां वरः ॥
निधिं शंखं द्विजाग्र्येभ्यो दत्त्वा स्वर्गमवाप्तवान् ॥७६॥
सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः ॥
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ॥७७॥
एते चान्ये च बहवः स्थाणोर्दानेन भक्तितः ॥
रुद्रलोकं गता नित्यं शान्तात्मानो जितेन्द्रियाः ॥७८॥
एषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी ॥
इति संचिंत्य सारार्थी स्थाणुदानपरो भव ॥७९॥
सोऽपि मोह परित्यज्य तथा कात्यायनोऽभवत् ॥८०॥
॥ नारद उवाच ॥
एवं सुश्रवसा प्रोक्तां कथामाकर्ण्य पद्मभूः ॥
हर्षाश्रुसंयुतोऽतीव प्रशशंस मुहुर्मुहुः ॥८१॥
साधु ते व्याहृतं वत्स एवमेतन्न चान्यथा ॥
सत्यं सारस्वतः प्राह सत्या चैवं तथा श्रुतिः ॥८२॥
दानं यज्ञानां वरूथं दक्षिणा लोके दातारँसर्वभूतान्युपजीवंति दानेनारातीरँपानुदंत दानेन द्विषंतो मित्रा भवंति दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदंतीति ॥८३॥
संसारसागरे घोरे धर्माधर्मोर्मिसंकुले ॥
दानं तत्र निषेवेत तच्च नौरिव निर्मितम् ॥८४॥
इति संचिंत्य च मया पुष्करे स्थापिता द्विजाः ॥
गङ्गायमुनयोर्मध्ये मध्यदेशे द्विजाः सृते ॥८५॥
स्थापिताः श्रीहरिभ्यां तु श्रीगौर्या वेदवित्तमाः ॥
रुद्रेण नागराश्चैव पार्वत्या शक्तिपूर्भवाः ॥८६॥
श्रीमाले च तथा लक्ष्म्या ह्येवमादिसुरोत्तमैः ॥
नानाग्रहाराः संदत्ता लोकोद्धरणकांक्षया ॥८७॥
न हि दानफले कांक्षा काचिन्नऽस्ति सुरोत्तमाः ॥
साधुसंरक्षणार्थं हि दानं नः परिकीर्तितम् ॥८८॥
ब्राह्मणाश्च कृतस्थाना नानाधर्मोपदेशनैः ॥
समुद्धरंति वर्णांस्त्रींस्ततः पूज्यतमा द्विजाः ॥८९॥
दानं चतुर्विधं दानमुत्सर्गः कल्पितं तथा ॥
संश्रुतं चेति विविधं तत्क्रमात्परिकीर्तितम् ॥९०॥
वापीकूपतडागानां वृक्षविद्यासुरौकसाम् ॥
मठप्रपागृहक्षेत्रदानमुत्सर्ग इत्यसौ ॥९१॥
उपजीवन्निमान्यश्च पुण्यं कोऽपि चरेन्नरः ॥
षष्ठमंशं स लभते यावद्यो विसृजेद्द्विजः ॥९२॥
तदेषामेव सर्वेषां विप्रसंस्थापनं परम् ॥
देवसंस्थापनं चैव धर्मस्तन्मूल एव यत् ॥९३॥
देवतायतनं यावद्यावच्च ब्राह्मणगृहम् ॥
तावद्दातुः पूर्वजानां पुण्यांशश्चोपतिष्ठति ॥९४॥
एतत्स्वल्पं हि वाणिज्यं पुनर्बहुफलप्रदम् ॥
जीर्णोद्धारे च द्विगुणमेतदेव प्रकीर्तितम् ॥९५॥
तस्मादिदं त्वहमपिब्रवीमि सुरसत्तमाः ॥
नास्ति दानसमं किंचित्सत्यं सारस्वतो जगौ ॥९६॥
॥ नारद उवाच ॥
इति सारस्वतप्रोक्तां तथा पद्मभुवेरिताम् ॥
साधुसाध्वित्यमोदंत सुराश्चाहं सुविस्मिताः ॥९७॥
ततः सभाविसर्गांते सुरम्ये मेरुमूर्धनि ॥
उपविश्य शिलापृष्ठे अहमेतदचिंतयम् ॥९८॥
सत्यमाह विरंचिस्तु स किमर्थं तु जीवति ॥
येनैकमपि तद्धृत्तं नैव येन कृतार्थता ॥९९॥
तदहं दानपुण्यं हि करिष्यामि कथं स्फुटम् ॥
कौपीनदण्डात्मधनो धनं स्वल्पं हि नास्ति मे ॥१००॥
अनर्हते यद्ददाति न ददाति तथार्हते ॥
अर्हानर्हपरिज्ञानाद्दानधर्मो हि दुष्करः ॥१०१॥
देशेकाले च पात्रे च शुद्धेन मनसा तथा ॥
न्यायार्जितं च यो दद्याद्यौवने स तदश्नुते ॥१०२॥
तमोवृतस्तु यो दद्यात्क्रोधात्तथैव च ॥
भुंक्ते दान फलं तद्धि गर्भस्थो नात्र संशयः ॥१०३॥
बालत्वेऽपि च सोऽश्राति यद्दत्तं दम्भकारणात् ॥
दत्तमन्यायतो वित्तं वै चार्थकारणम् ॥१०४॥
वृद्धत्वे हि समश्राति नरो वै नात्र भविष्यति ॥
तस्माद्देशे च काले च सुपात्रे विधिना नरः ॥
शुभार्जितं प्रयुञ्जीत श्रद्धया शाठ्यवर्जितः ॥१०५॥
तदेतन्निर्धनत्वाच्च कथं नाम भविष्यति ॥
सत्यमाहुः पुरा वाक्यं पुराणमुनयोऽमलाः ॥१०६॥
नाधनस्यास्त्ययं लोको न परश्च कथंचन ॥
अभिशस्तं प्रपश्यंति दरिद्रं पार्श्वतः स्थितम् ॥१०७॥
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति ॥
पतितः शोच्यते सर्वैर्निर्धनश्चापि शोच्यते ॥१०८॥
यः कृशाश्वः कृशधनः कृशभृत्यः कृशातिथिः ॥
स वै प्रोक्तः कृशोनाम न शरीरकृशः कृशऋ१०९॥
अर्थवान्दुष्कुलीनोऽपि लोके पूज्यतमो नरः ॥
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥११०॥
ज्ञानवृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः ॥
ते सर्वे धनवृद्धस्य द्वारि तिष्ठन्ति किंकराः ॥१११॥
यद्यप्ययं त्रिभुवने अर्थोऽस्माकं पराग्नहि ॥
तथाप्यन्यप्रार्थितो हि तस्यैव फलदो भवेत् ॥११२॥
अथवैतत्पुरा सर्वं चिंतयिष्यामि सुस्फुटम् ॥
विलोकयामि पूर्वं तु किंचिद्योग्यं हि स्थानकम् ॥११३॥
स चिंतयित्वेति बहुप्रकारं देशांश्च ग्रामान्नगराणि चाश्रमान् ॥
बहूनहं पर्यटन्नाप्तवान्हि स्थानं हितं स्थापये यत्र विप्रान् ॥११४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे नारदार्जुनसंवादे दानप्रशंसावर्णनंनाम द्वितीयऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : July 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP