संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ४४

कौमारिकाखण्डः - अध्यायः ४४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥अर्जुन उवाच ॥
दिव्यप्राकारमिच्छामि श्रोतुं चाहं मुनीश्वर ॥
कथं कार्याणि कानीह स्फुटं यैः पुण्यपापकम् ॥१॥

॥ नारद उवाच ॥
शपषाः पोशघटकौ विषाग्न तप्तमाषकौ ॥
फलं च तंदुलं चैव दिव्यान्यष्टौ विदुर्बुधाः ॥२॥

असाक्षिकेषु चार्थेषु मिथो विवदमानयोः ॥
राजद्रोहाभिशापेषु साहसेषु तथैव च ॥३॥

अविदस्तत्त्वतः सत्यं शपथेनाभिलंघयेत् ॥
महर्षिभिश्च देवैश्च सत्यार्थाः शपथाः कृताः ॥४॥

जवनो नृपतिः क्षीणो मिथ्याशपथमाचरेत् ॥
वसिष्ठाग्रे वर्षमध्ये सान्वयः किल भारत ॥५॥

अंधः शत्रुगृहं गच्छेद्यो मिथ्याशपथांश्चरेत् ॥
रौरवस्य स्वयं द्वारमुद्धाटयति दुर्मतिः ॥६॥

मन्यंते वै पापकृतो न कश्चितपश्यतीति नः ॥
तांश्च देवाः प्रपश्यंति स्वस्यैवांतरपौरुषाः ॥७॥

आदित्यचंद्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च ॥
अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥८॥

एवं तस्मादभिज्ञाय सत्यर्थशपथांश्चरेत् ॥
वृथा हि शपथान्कुर्वन्प्रेत्य चेह विनश्यति ॥९॥

इदं सत्यं वदामीति ब्रुवन्साक्षी भवान्यतः ॥
शुभाशुभफलं देहि शुचिः पादौ रवेः स्वृशेत् ॥१०॥

अथ शास्त्रस्य विप्रोऽपि शस्त्रस्यापि च क्षत्रियः ॥
मां संस्पृशंस्तथा वैश्यः शुद्रः स्वगुरुमेव च ॥११॥

मातरं पितरं पूज्यं स्पृशेत्साधारणं त्विदम् ॥
कोशस्य रूपं पूर्वं ते व्याख्यातं पांडुनंदन ॥१२॥

विप्रवर्ज्यं तथा केशं वर्णिनां दापयेन्नृपः ॥
यो यो यद्देवताभक्तः पाययेत्तस्य तं नरम् ॥१३॥

समभक्तं च देवानामादित्यस्यैव पाययेत् ॥
सर्वेषां चोग्रदेवानां स्नापयेदायुधास्त्रकम् ॥१४॥

स्नानोदकं वा संकल्पं गृहीत्वा पाययेन्नवम् ॥
त्रिसप्तरात्रमध्ये च फलं कोशस्य निर्दिशेत् ॥१५॥

अतः परं महादिव्यविधानं श्रृणु यद्भवेत् ॥
संशयच्छेदि सर्वेषां धार्ष्ट्यत्तद्दिव्यमेव च ॥१६॥

सशिरस्कंप्रदातव्यमिति ब्रह्मा पुराब्रवीत् ॥
महोग्राणां च दातव्यमशिरस्कमपि स्फुटम् ॥१७॥

साधूनां वर्णिनां राजा न शिरस्कं प्रदापयेत् ॥
न प्रवातेधटं देयं नोष्णकाले हुताशनम् ॥१८॥

वर्णिनां च तथा कालं तंदुलं मुखरोगिणाम् ॥१९॥

कुष्ठपित्तार्दितानां च ब्राह्मणानां च नो विषम् ॥
तप्तमाषकमर्हंति सर्वे धर्म्यं निरत्ययम् ॥२०॥

न व्याधिमरके देशे शपथान्कोशमेव च ॥
दिव्यान्यासुरकैर्मंत्रैः स्तंभयंतीह केचन ॥२१॥

प्रतिघातविदस्तेषां योजयेद्धर्मवत्सलान् ॥
दिव्यानां स्तभकाञ्ज्ञात्वा पापान्नित्यं महीपतिः ॥२२॥

विवासयेत्स्वकाद्राष्ट्रात्ते हि लोकस्य कंटकाः ॥
तेषामन्वेषणे यत्नं राजा नित्यं समाचरेत् ॥२३॥

ते हि पापसमाचारास्तस्करेभ्योऽपि तस्कराः ॥
प्राग्दृष्टदोषान्स्वल्पेषु दिव्येषु विनियोजयेत् ॥२४॥

महत्स्वपि न चार्थेषु धर्मज्ञान्धर्मवत्सलान् ॥
न मिथ्यावचनं येषां जन्मप्रभृति विद्यते ॥२५॥

श्रद्दध्यात्पार्थिवस्तेषां वचना देव भारत ॥
ज्ञात्वा धर्मिष्ठतां राजा पुरुषस्य विचक्षणः ॥२६॥

क्रोधाल्लोभात्कारयंश्च स्वयमेव प्रदुष्यति ॥
तस्मात्पापिषु दिव्यं स्यात्तत्रादौ प्रोच्यते धटे ॥२७॥

सुसमायां पृथिव्यां च दिग्भागे पूर्वदक्षिणे ॥
यज्ञियस्य तु वृक्षस्य स्थाप्यं स्यान्मुंडकद्वयम् ॥२८॥

स्तंभकस्य प्रमाणं च सप्तहस्तं प्रकीर्तितम् ॥
द्वौ हस्तौ निखनेत्काष्ठं दृश्यं स्याद्धस्तपंचकम् ॥२९॥

अंतरं तु तयोः कार्यं तथा हस्तचतुष्टयम् ॥
मुंडकोपरि काष्ठं च दृढं कुर्याद्विचक्षणः ॥३०॥

चतुर्हस्तं तुलाकाष्ठमव्रणं कारयेत्स्थिरम् ॥
खदिरार्जुनवृक्षाणां शिंशपाशालजं त्वथ ॥३१॥

तुलाकाष्ठे तु कर्तव्यं तथा वै शिक्यकद्वयम् ॥
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस्तथा ॥३२॥

पाषाणस्यापि जायेत् स्तंभेषु च धटस्तथा ॥
वणिक्सुवर्णकारो वा कुशलः कांस्यकारकः ॥३३॥

तुलाधारधरः कार्यो रिपौ मित्रे च यः समः ॥
श्रावयेत्प्राड्विवाकोऽपि तुलाधारं विचक्षणः ॥३४॥

ब्रह्मघ्ने ये स्मृता लोका ये च स्त्रीबालघातके ॥
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥३५॥

एकस्मिंस्तोलयेच्छिक्ये ज्ञातं सूपोषितं नरम् ॥
द्वितीये मृत्तिकां शुभ्रां गौरां तु तुलयेद्बुधः ॥३६॥

इष्टिकाभस्मपाषाणकपालास्थीनि वर्जयेत् ॥
तोलयित्वा ततः पूर्वं तस्मात्तमवतारयेत् ॥३७॥

मूर्ध्नि पत्रं ततो न्यस्य न्यस्तपत्रं निवेशयेत् ॥
पत्रे मंत्रस्त्वयं लेख्यो यः पुरोक्तः श्वयंभुवा ॥३८॥

ब्रह्मणस्त्वं सुता देवी तुलानाम्नेति कथ्यते ॥
तुकारो गौरवे नित्यं लकारो लघुनि स्मृतः ॥३९॥

गुरुलाघवसंयोगात्तुला तेन निगद्यसे ॥
संशयान्मोचयस्वैनमभिशस्तं नरं शुभे ॥४०॥

भूय आरोपयेत्तं तु नरं तस्मिन्सपत्रकम् ॥
तुलितो यदि वर्धेत शुद्धो भवति धर्मतः ॥४१॥

हीयमानो न शुद्धः स्यादिति धर्मविदो विदुः ॥
शिक्यच्छेदे तुलाभंगे पुनरारोपयेन्नरम् ॥४२॥

एवं निःसंशयं ज्ञानं यच्चान्यायं न लोपयेत् ॥
एतत्सर्वं रवौ वारे कार्यं संपूज्य भास्करम् ॥४३॥

अथातः संप्रवक्ष्यामि विषदिव्यं श्रृणुष्व मे ॥४४॥

द्विप्रकारं च तत्प्रोक्तं घटसर्पविषं तथा ॥
शृंगिणो वत्सनाभस्य हिमशैलभवस्य वा ॥४५॥

यवाः सप्त प्रदातव्या अथवा षड्घृतप्लुताः ॥
मूर्ध्नि विन्यस्तपत्रस्य पत्रे चैवं निवेशयेत् ॥४६॥

त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थितः ॥
त्रायस्वैनं नरं पापात्सत्येनास्य भवामृतम् ॥४७॥

येन वेगैर्विना जीर्णं छर्दिमूर्च्छाविवर्जितम् ॥
तं तु शुद्धं विजानीयादिति धर्मविदो विदुः ॥४८॥

क्षुधितं क्षुधितः सर्पं घटस्थं प्रोच्य पूर्ववत् ॥
संस्पृशेत्तालिकाः सप्त न दशेच्छुध्यतीति सः ॥४९॥

अग्निदिव्यं यथा प्राह विरंचिस्तच्छृणुष्व मे ॥
सप्तमंडलकान्कुर्याद्देवस्याग्रे रवेस्तथा ॥५०॥

मंडलान्मंडलं कार्यं पूर्वेणेति विनिश्चयः ॥
षोडशांतुलकं कार्यं मंडलात्तावदं तरम् ॥५१॥

आर्द्रवाससमाहूय तथा चैवाप्युपोपितम् ॥
कारयेत्सर्वदिव्यानि देवब्राह्मणसंनिधौ ॥५२॥

प्रत्यक्षं कारयेद्दिव्यं राज्ञो वाधिकृतस्य वा ॥
ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥५३॥

पश्चिमे दिनकाले हि प्राङ्मुखः प्राञ्जलिः शुचिः ॥
चतुरस्रे मंडलेऽन्ये कृत्वा चैव समौ करौ ॥५४॥

लक्षयेयुः कृतादीनि हस्तयोस्तस्य हारिणः ॥
सप्ताश्वत्थस्य पत्राणि भध्नीयुः करयोस्ततः ॥५५॥

नवेन कृतसूत्रेण कार्पासेन दृढं यथा ॥
ततस्तु सुसमं कृत्वा अष्टांगुलमथायसम् ॥५६॥

पिंडं हुताशसंतप्तं पंचाशत्पलिकं दृढम् ॥
आदौ पूजां रवेः कृत्वा हुताशस्याथ कारयेत् ॥५७॥

रक्तचंदनधूपाभ्यां रक्तपुष्पैस्तथैव च ॥
अभिशस्तस्य पत्रं च बध्नीयाच्चैव मूर्धनि ॥५८॥

मंत्रेणानेन संयुक्तं ब्राह्मणाभिहितेन च ॥
त्वमग्ने वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे ॥५९॥

पापं पुनासि वै यस्मात्तस्मात्पावक उच्यसे ॥
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥६०॥

जठरस्थोऽसि भूतानां ततो वेत्सि शुभाशुभम् ॥
पापेषु दर्शयात्मानमर्चिष्मान्भव पावक ॥६१॥

अथवा शुद्धभावेषु शीतो भवमहाबल ॥
ततोऽभिशस्तः शनकैर्मंडलानि परिक्रमेत् ॥६२॥

परिक्रम्य शनैर्जह्याल्लोहपिंडं ततः क्षितौ ॥
विपत्रहस्तं तं पश्चात्कारयेद्व्रीहिमर्दनम् ॥६३॥

निर्विकारौ करौ दृष्ट्वा शुद्धो भवति धर्मतः ॥
भयाद्वा पातयेद्यस्तु तदधो वा विभाव्यते ॥६४॥

पुनस्त्वाहारयेल्लोहं विधिरेष प्रकीर्तितः ॥
अथातः संप्रऐवक्ष्यामि तप्तमाषविधिं श्रृणु ॥६५॥

कारयेदायसं पात्रं ताम्रं वा षोडशांगुलम् ॥
चतुरंगुलखातं तु मृन्मयं वापि कारयेत् ॥६६॥

पूरयेद्‌घृततैलाभ्यां पलैर्विशतिभिस्ततः ॥
सुतप्ते निक्षिपेत्तत्र सुवर्णस्य तु माषकम् ॥६७॥

वह्न्युक्तं विन्यसेन्मंत्रमभिशस्तस्य मूर्धनि ॥
अंगुष्ठांगुलियोगेन तप्तमाषं समुद्धरेत् ॥६८॥

शुद्धं ज्ञेयमसंदिग्धं विस्फोटादिविवर्जितम् ॥
फालशुद्धिं प्रवक्ष्यामि तां श्रृणु त्वं धनंजय ॥६९॥

आयसं द्वादशपलं घटितं फालमुच्यते ॥
अष्टांगुलमदीर्घं च चतुरंगुलविस्तृतम् ॥७०॥

वह्न्युक्तं विन्यसेन्मंत्रमभिशस्तस्य मूर्धनि ॥
त्रिःपरावर्तयेज्जिह्वा लिहन्नस्मात्षडंगुलम् ॥७१॥

गवां क्षीरं प्रदातव्यं जिह्वाशोधनमुत्तमम् ॥
जिह्वापरीक्षणं कुर्याद्दग्धा चेन्न तु विमोच्यते ॥७२॥

तं विशुद्धं विजानीयाद्विशुद्धा चेत्तु जायते ॥
तंदुलस्याथ वक्ष्यामि विधिधर्मं सनातनम् ॥७३॥

चौर्ये तु तंदुला देया न चान्यत्र कथंचन ॥
तंदुलानुदके सिक्त्वा रात्रौ तत्रैव स्थापयेत् ॥७४॥

प्रभाते कारिणे देया भक्षणाय न संशयः ॥
त्रिःकॉत्वः प्राङ्‌मुखश्चैव पत्रे निष्ठीवयेत्ततः ॥७५॥

पिप्पलस्याथ भूर्जस्य न त्वन्यस्य कथंचन ॥
तांस्तु वै कारयेच्छुद्धांस्तंदुलाञ्छालिसंभवान् ॥७६॥

मृन्मये भाजने कृत्वा सवितुः पुरतः स्थितः ॥
तन्दुलान्मंत्रयेच्छुद्धान्मन्त्रेणानेन धर्मतः ॥७७॥

दीयसे धर्मतत्त्वज्ञैर्मानुषाणां विशोधनम् ॥
स्तुतस्तन्दुल सत्येन धर्मतस्त्रातुमर्हसि ॥७८॥

निष्ठीवने कृते तेषां सवितुः पुरतः स्थिते ॥
शोणितं दृश्यते यस्य तमशुद्धं विनिर्दिशेत् ॥७९॥

एवमष्टविधं दिव्यं पापसंशयच्छेदनम् ॥
भट्टादित्यस्य पुरतो जायते कुरुनंदन ॥८०॥

जलदिव्यं तथा प्राहुर्द्विप्रकारं पुराविदः ॥
जलहस्तं स्मृतं चैकं मज्जनं चापरं विदुः ॥८१॥

बाणक्षेपस्तथादानं यावद्वीर्यवता कृतम् ॥
तावत्तं मज्जयेज्जीवेत्तथा तच्छुद्धिमादिशेत् ॥८२॥

एवंविधमिदं स्थानं भट्टादित्यस्य भारत ॥
ममैव कृपया भानोर्जातमेतन्महीतले ॥८३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे भट्टादित्यमाहात्म्ये दिव्यवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP