कौमारिकाखण्डः - अध्यायः १५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥वरांग्युवाच ॥
नाशितास्म्यपविद्धास्मि त्रासिता पीडितास्मि च ॥
रौद्रोण देवनाथेन नष्टनाथेन भूरिशः ॥१॥
दुःखपारमपश्यंती प्राणांस्त्यक्तुं व्यवस्थिता ॥
पुत्रं मे घोरदुःखस्य तारकं देहि चेत्कृपा ॥२॥
एवमुक्तस्तु दैत्येंद्रो दुःखितोऽचिंतयद्धृदि ॥
आसुरेष्वपि भावेषु स्पृहा यद्यपि नास्ति मे ॥३॥
तथापि मन्ये शास्त्रैभ्यस्त्वनुकंप्या प्रियेति यत् ॥
सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् ॥४॥
व्यसनार्णवमत्येति जलयानैरिवार्णवम् ॥
यामाश्रित्येंद्रियारातीन्दुर्जयानितराश्रयैः ॥५॥
गेहिनो हेलया जिग्युर्दस्यून्दूर्ग पतिर्यथा ॥
न केऽपि प्रभवस्तां चाप्यनुकर्तुं गृहेश्वरीम् ॥६॥
अथायुषा वा कार्त्स्न्येन धर्मे दित्सुर्यथैव च ॥
यस्यां भवति चात्मैव ततो जाया निगद्यते ॥७॥
भर्तव्या एव यस्माच्च तस्माद्भार्येति सा स्मृता ॥
सा एव गृहमुक्तं च गृहीणी सा ततः स्मृता ॥८॥
संसारकल्मषात्त्रात्री कलत्रमिति सा ततः ॥
एवंविधां प्रियां को वै नानुकंपितुमर्हति ॥९॥
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् ॥
भार्या कर्म च विद्या च संसाध्यं यत्नतस्त्रयम् ॥१०॥
तदेनां पीडितां चेद्यः पतिर्भूत्वा न पालये ॥
ततो यास्ये शास्त्रवादान्नरकांतं न संशयः ॥११॥
अह मप्येनमिंद्रं वै शक्तो जेतुं यथाऽनृणाम् ॥
पुनः कामं करिष्येऽस्या दास्ये पुत्रऊं महाबलम् ॥१२॥
इति संचिंत्य वज्रांगः कोपव्याकुललोचनः ॥
प्रतिकर्तुं महेंद्राय तपो भूयो व्यवस्यत ॥१३॥
ज्ञात्वा तु तस्य संकल्पं ब्रह्मा क्रूरतरं पुनः ॥
आजगाम त्वरायुक्तो यत्राऽसौ दितिनंदनः ॥१४॥
उवाचैनं स भगवान्प्रभुर्मधुरया गिरा ॥१५॥
॥ ब्रह्मोवाच ॥
किमर्थं भूय एव त्वं नियमं क्रूरमिच्छसि ॥
आहाराभिमुखो दैत्य तन्मे ब्रूहि महाव्रतः ॥१६॥
यावदब्दसहस्रेण निराहारेण वै फलम् ॥
त्यजता प्राप्तमाहारं लब्धं ते क्षणमात्रतः ॥१७॥
त्यागो ह्यप्राप्तकामानां न तथा च गुरुः स्मृतः ॥
यथा प्राप्तं परित्यज्य कामं कमललोचन ॥
श्रुत्वैतद्ब्रह्मणो वाक्यं दैत्यः प्रांजलिरब्रवीत् ॥१८॥
॥दैत्य उवाच ॥
पत्न्यर्थेऽहं करिष्यामि तपो घोरं पितामह ॥
पुत्रार्थमुद्यतश्चाहं यः स्याद्गीर्वाणदर्पहा ॥१९॥
एतच्छ्रुत्वा वचो देवः पद्मगर्भोद्भवस्तदा ॥
उवाच दैत्यराजानं प्रसन्नश्चतुराननः ॥२०॥
॥ ब्रह्मोवाच ॥
अलं ते तपसा वत्स मा क्लेशे विस्तरे विश ॥
पुत्रस्ते तारकोनाम भविष्यति महाबलः ॥२१॥
देवसीमंतिनीकाम्यधम्मिल्लकविमोक्षणः ॥
इत्युक्तो दैत्यराजस्तु प्रणम्य प्रपितामहम् ॥२२॥
विसृज्य गत्वा महिषीं नंदया मास तां मुदा ॥
तौ दंपती कृतार्थौ च जग्मतुश्चाश्रमं तदा ॥२३॥
आहितं च ततो गर्भं वरांगी वरवर्णिनी ॥
पूर्णं वर्षसहस्रं तु दधारोदर एव हि ॥२४॥
ततो वर्षसहस्रांते वरांगी समसूयत ॥
जायमाने तु दैत्येंद्रे तस्मिँल्लोकभयंकरे ॥२५॥
चचाल सकला पृथ्वी प्रोद्धूताश्च महार्णवा ॥
चेलुर्धराधराश्चापि ववुर्वाता विभीषणाः ॥२६॥
जेपुर्जप्यं मुनिवरा व्याधविद्धा मृगा इव ॥
जहुः कांतिं च सूर्याद्या नीहाराश्छांदयन्दिशः ॥२७॥
जाते महासुरे तस्मिन्सर्व एव महासुराः ॥
आजग्मुर्हर्षितास्तत्र तथा चासुरयोषितः ॥२८॥
जगुर्हर्षसमाविष्टा ननृतुश्चासुरांगनाः ॥
ततो महोत्सवे जाते दानवानां पृथासुत ॥२९॥
विषण्णमनसो देवाः समहेंद्रास्तदाभवन् ॥
जातामात्रस्तु दैत्येंद्रस्तारकश्चंडविक्रमः ॥३०॥
अभिषिक्तोऽसुरो दैत्यैः कुरंगमहिषादिभिः ॥
सर्वासुरमहाराज्ये युतः सर्वैर्महासुरैः ॥३१॥
स तु प्राप्तमहाराज्यस्तारकः पांडुसत्तम ॥
उवाच दानवश्रेष्ठान्युक्तियुक्तमिदं वचः ॥३२॥
श्रृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः ॥
श्रुत्वा वः स्थेयसी बुद्धिः क्रियतां वचने मम ॥३३॥
अस्माकं जातिधर्मेण विरूढं वैरमक्षयम् ॥
करिष्याम्यहं तद्वैरं तेषां च विजयाय च ॥३४॥
किं तु तत्तपसा साध्यं मन्येहं सुरसंगमम् ॥
तस्मादादौ करिष्यामि तपो घोरं दनोः सुताः ॥३५॥
ततः सुरान्विजेष्यामो भोक्ष्यामोऽथ जगत्त्रयम् ॥
युक्तोपायोऽहि पुरुषः स्थिरश्रीरेव जायते ॥३६॥
अयुक्तश्चपलः प्राप्तामपि रक्षितुमक्षमः ॥
तच्छ्रुत्वा दानवाः सर्वे वाक्यं तस्यासुरस्य तु ॥३७॥
साधुसाध्वित्यथोचुस्ते वचनं तस्य विस्मिताः ॥
सोऽगच्छत्पारियात्रस्य गिरेः कंदरमुत्तमम् ॥३८॥
सर्वर्तुकुसुमाकीर्णनानौषधिविदिपितम् ॥
नानाधातुरसस्राविचित्रनानागृहाश्रयम् ॥३९॥
अनेकाकारबहुलं पृथक्पक्षिकुलाकुलम् ॥
नानाप्रस्रवणोपेतं नानाविधजलाशयम् ॥४०॥
प्राप्य तत्कंदरं दैत्यश्चकार विपुलं तपः ॥
वहन्पाशुपतीं दीक्षां पंच मंत्राञ्जजाप सः ॥४१॥
निराहारः पंचतपा वर्षायुतमभूत्किल ॥
ततः स्वदेहादुत्कृत्त्य कर्षंकर्षं दिनेदिने ॥४२॥
मांसस्याग्नौ जुहावैव ततो निर्मांसतां गतः ॥
ततो निर्मांसदेहः स तपोराशिरजायत ॥४३॥
जज्वलुः सर्वभूतानि तेजसा तस्य सर्वतः ॥
उद्विग्नाश्च सुराः सर्वे तपसा तस्य भीषिताः ॥४४॥
एतस्मिन्नंतरे ब्रह्मा परमं तोषमागतः ॥
तारकस्य वरं दातुं जगाम शिखरं गिरेः ॥४५॥
प्राप्य तं शैलराजानं हंसस्यंदनमास्थितः ॥
उवाच तारकं देवो गिरा मधुरया तदा ॥४६॥
॥ ब्रह्मोवाच ॥
उत्तिष्ठ पुत्र तपसो नास्त्यसाध्यं तवाधुना ॥
वरं वृणीष्वाभिमतं यत्ते मनसि वर्तते ॥४७॥
इत्युक्तस्तारको दैत्यः प्रांजलिः प्राह तं विभुम् ॥४८॥
॥तारक उवाच ॥
वयं प्रभो जातिधर्माः कृतवैराः सहमरैः ॥
तैश्च निःशेषिता दैत्याः कृताः क्रूरैनृशं सवत् ॥४९॥
तेषामहं समुद्धर्ता भवेयमिति मे मतिः ॥
अवध्यः सर्वभूतानामस्त्राणां च महौजसाम् ॥५०॥
स्यामहं चामरैश्चैष वरो मम हृदिस्थितः ॥
एतन्मे देहि देवेश नान्यं वै रोचये वरम् ॥५१॥
तमुवाच ततो दैत्यं विरंचोऽमरनायकः ॥
न युज्यते विना मृत्युं देहिनो देहधारणम् ॥
जातस्य हि ध्रुवो मृत्युः सत्यमेतच्छ्रुतीरितम् ॥५२॥
इति संचिंत्य वरय वरं यस्मान्न शंकसे ॥
ततः संचिंत्य दैत्येंद्रः शिशुतः सप्तवासरात् ॥५३॥
॥तारक उवाच ॥
वासराणां च सप्तानां वर्जयित्वा तु बालकम् ॥
देवानामप्यवध्योऽहं भूयासं तेन याचितः ॥५४॥
वव्रे महासुरो मृत्युं ब्रह्माणं मानमोहितः ॥
ब्रह्मा प्रोचे ततस्तं च तथेति हरवाक्यतः ॥५५॥
जगाम त्रिदिवं देवो दैत्योऽपि स्वकमालयम् ॥
उत्तीर्णं तपसस्तं च दैत्यं दैत्येश्वरास्तदा ॥५६॥
परिवव्रुः फलाकीर्णं वृक्षं शकुनयो यथा ॥
तस्मिन्महति राज्यस्थे तारके दितिनंदने ॥५७॥
ब्रह्मणाभिहि तस्थाने महार्णवतटोत्तरे ॥
तरवो जज्ञिरे पार्थ तत्र सर्वर्तवः शुभाः ॥५८॥
कांतिर्द्युतिर्धृतिर्मेधा श्रीरखंडा च दानवम् ॥
परिवव्रुर्गुणा कीर्णं निश्छिद्राः सर्व एव हि ॥५९॥
कालागरुविलिप्तांगं महामुकुटमंडितम् ॥
रुचिरांगदसन्नद्धं महासिंहासने स्थितम् ॥६०॥
नृत्यंत्यप्सरसः श्रेष्ठा गन्धर्वा गाययंति च ॥
चन्द्रार्कौ दीपमार्गेषु व्यजनेषु च मारुतः ॥
ग्रहा अग्रेसरास्तस्य जीवादेशप्रभाषिणः ॥६१॥
एवं स्वकाद्बाहुबलात्स दैत्यः संप्राप्य राज्यं परिमोदमानः ॥
कदाचिदाभाष्य जगाद मंत्रिणः प्रोद्धृत्तसर्वांगबलेन दर्पितः ॥६२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकखण्डे कुमारेशमाहात्मये तारकासुरोत्पत्तिवर्णनंनाम पंचदशोऽध्यायः ॥१५॥
N/A
References : N/A
Last Updated : July 23, 2024
TOP