संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ०५

कौमारिकाखण्डः - अध्यायः ०५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.

 ॥ नारद उवाच ॥
ततोऽहं धर्मवर्माणं प्रोच्य तिष्ठेद्धनं त्वयि ॥
कृत्यकाले ग्रहीष्यामीत्यागमं रैवतं गिरिम् ॥१॥
आसं प्रमुदितश्चाहं पश्यंस्तं गिरिसत्तमम् ॥
आह्वयानं नरान्साधून्भूमेर्भुजमिवोच्छ्रितम् ॥२॥
यस्मिन्नानाविधा वृक्षाः प्रकाशंते समंततः ॥
साधुं गृहपतिं प्राप्य पुत्रभार्यादयो यथा ॥३॥
मुदिता यत्र संतृप्ता वाशंते कोकिलादयः ॥
सद्गुरोर्ज्ञानसंपन्ना यथा शिष्यगणा भुवि ॥४॥
यत्र तप्त्वा तपो मर्त्या यथेप्सितमवाप्नुयुः ॥
श्रीमहादेवमासाद्य भक्तो यद्वन्मनोरथम् ॥५॥
तस्याहं च गिरेः पार्थ समासाद्य महाशिलाम् ॥
शीतसौरभ्यमंदेन प्रीणीतोऽचिंतयं हृदि ॥६॥
तावन्मया स्थानमाप्तं यदतीव सुदुर्लभम् ॥
इदानीं ब्राह्मणार्थेऽहं कुर्वे तावदुपक्रमम् ॥७॥
ब्राह्मणाश्च विलोक्य मे ये हि पात्रतमा मताः ॥
तथा हि चात्र श्रूयंते वचांसि श्रुतिवादिनाम् ॥८॥
न जलोत्तरणे शक्ता यद्वन्नौः कर्णवर्जिता ॥
तद्वच्छ्रेष्ठोऽप्यनाचारो विप्रो नोद्धरणक्षमः ॥९॥
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति ॥
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥१०॥
दानपात्रमतिक्रम्य यदपात्रे प्रदीयते ॥
तद्दत्तं गामतिक्रम्य गर्दभस्य गवाह्निकम् ॥११॥
ऊषरे वापितं बीजं भिन्नभांडे च गोदुहम् ॥
भस्मनीव हुतं हव्यं मूर्खे दानमशाश्वतम् ॥१२॥
विधिहीने तथाऽपात्रे यो ददाति प्रतिग्रहम् ॥
न केवलं हि तद्याति शेषं पुण्यं प्रणश्यति ॥१३॥
भूराप्ता गौस्तथा भोगाः सुवर्णं देहमेव च ॥
अश्वश्चक्षुस्तथा वासो घृतं तेजस्तिलाः प्रजाः ॥१४॥
घ्नंति तस्मादविद्वांस्तु बिभियाच्च प्रतिग्रहात् ॥
स्वल्पक केनाप्यविद्वांस्तु पंके गौरिव सीदति ॥१५॥
तस्माद्ये गूढतपसो गूढस्वाध्यायसाधकाः ॥
स्वदारनिरताः शांतास्तेषु दत्तं सदाऽक्षयम् ॥१६॥
देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ॥
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥१७॥
न विद्यया केवलया तपसा वापि पात्रता ॥
यत्र वृत्तिमिमे चोभे तद्वि पात्रं प्रचक्षते ॥१८॥
तेषां त्रयाणां मध्ये च विद्या मुख्यो महागुणः ॥
विद्यां विनांधवद्विप्राश्चक्षुष्मंतो हि ते मताः ॥१९॥
तस्माच्चक्षुष्मतो विद्वान्देशे देशे परीक्षयेत् ॥
प्रश्रान्ये मम वक्ष्यंति तेभ्यो दास्याम्यहं ततः ॥२०॥
इति संचिंत्य मनसा तस्माद्देशात्समुत्थितः ॥
आश्रमेषु महर्षीणां विचराम्यस्मि फाल्गुन ॥२१॥
इमाञ्छ्लोकान्गायमानः प्रश्ररूपाञ्छृणुष्व तान् ॥
मातृकां को विजानाति कतिधा कीदृशाक्षराम् ॥२२॥
पंचपंचाद्भुतं गेहं को विजानाति वा द्विजः ॥
बहुरूपां स्त्रियं कर्तुमेकरूपां च वत्ति कः ॥२३॥
को वा चित्रकथाबंधं वेत्ति संसारगोचरः ॥
को वार्णवमहाग्राहं वेत्ति विद्यापरायणः ॥२४॥
को वाष्टविधं ब्राह्मण्यं वेत्ति ब्राह्मणसत्तमः ॥
युगानां च चतुर्णां वा को मूलदिवसान्वदेत् ॥२५॥
चतुर्दशमनूनां वा मूलवासरं वेत्ति कः ॥
कस्मिंश्चैव दिने प्राप पूर्वं वा भास्करो रथम् ॥२६॥
उद्वेजयति भूतानि कृष्णाहिरिववेत्ति कः ॥
को वास्मिन्घोरसंसारे दक्षदक्षतमो भवेत् ॥२७॥
पंथानावपि द्वौ कश्चिद्वेत्ति वक्ति च ब्राह्मणः ॥
इति मे द्वादश प्रश्रान्ये विदुर्ब्राह्मणोत्तमाः ॥२८॥
ते मे पूज्यतमास्तेषामहामाराधकश्चिरम् ॥
इत्यहं गायमानो वै भ्रमितः सकलां महीम् ॥२९॥
ते चाहुर्दुःखदाः ख्याताः प्रश्रास्ते कुर्महे नमः ॥
इत्यहं सकलां पृथ्वीं विचिंत्यालब्धब्राह्मणः ॥३०॥
हिमाद्रिशिखरासीनो भूयश्चिंतामवाप्तवान् ॥
सर्वे विलोकिता विप्राः किमतः कर्तुमुत्सहे ॥३१॥
ततो मे चिंतयानस्य पुनर्जाता मतिस्त्वियम् ॥
अद्यापि न गतश्चाहं कलापग्राममुत्तमम् ॥३२॥
यस्मिन्विप्राः संवसंति मूर्तानीव तपांसि च ॥
चतुराशीतिसाहस्राः श्रुताध्ययनशालिनः ॥३३॥
स्थाने तस्मिन्गमिष्यामीत्युक्त्वाहं चलितस्तदा ॥
खेचरो हिममाक्रम्य परं पारं गतस्ततः ॥३४॥
अद्राक्षं पुण्यभूमिस्थं ग्रामरत्नमहं महत् ॥
शतयोजनविस्तीर्णं नानावृक्षसमाकुलम् ॥३५॥
यत्र पुण्यवतां संति शतशः प्रवराश्रमाः ॥
सर्वेषामपि जीवानां यत्रान्योन्यं न दुष्टता ॥३६॥
यज्ञभाजां मुनीनां यदुपकारकरं सदा ॥
सतां धर्मवतां यद्वदुपकारो न शाम्यति ॥३७॥
मुनीनां यत्र परमं स्थानं चाप्यविनाशकृत् ॥
स्वाहास्वधावषट्कार हन्तकारो न नश्यति ॥३८॥
यत्र कृतयुगस्तार्थं बीजं पार्थावशिष्यते ॥
सूर्यस्य सोमवंशस्य ब्राह्मणानां तथैव च ॥३९॥
स्थानकं तत्समासाद्य प्रविष्टोऽहं द्विजाश्रमान् ॥
तत्र ते विविधान्वादान्विवदंते द्विजोत्तमाः ॥४०॥
परस्परं चिंतयाना वेदा मूर्तिधरा यथा ॥
तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम् ॥४१॥
विचिक्षिपुर्महात्मानो नभोगतमिवामिषम् ॥
तत्रा हं करमुद्यम्य प्रावोचं पूर्यतां द्विजाः ॥४२॥
काकारावैः किमतैर्वो यद्यस्ति ज्ञानशालिता ॥
व्याकुरुध्वं ततः प्रश्रान्मम दुर्विषहान्बहून् ॥४३॥
 ॥ब्राह्मणा ऊचुः ॥
वद ब्राह्मण प्रश्रान्स्वाञ्छ्रुत्वाऽऽधास्यामहे वयम् ॥
परमो ह्येष नो लाभः प्रक्षान्पृच्छति यद्भवान् ॥४४॥
अहं पूर्विकया ते वै न्यषेधंत परस्परम् ॥
अहं पूर्वमहं पूर्वमिति वीरा यथा रणे ॥४५॥
ततस्तानब्रवं प्रश्रानहं द्वादश पूर्वकान् ॥
श्रुत्वा ते मामवोचंत लीलायंतो मुनीश्वराः ॥४६॥
किं ते द्विज बालप्रश्नैरमीभिः स्वल्पकैरपि ॥
अस्माकं यन्निहीनं त्वं मन्यसे स ब्रवीत्वमून् ॥४७॥
ततोतिविस्मितश्चाहं मन्यमानः कृतार्थताम् ॥
तेषां निहीनं संचिंत्य प्रावोचं प्रब्रवीत्वयम् ॥४८॥
ततः सुतनुनामा स बालोऽबालोऽभ्युवाच माम् ॥
मम मंदायते वाणी प्रश्नैः स्वल्पैस्तव द्विज ॥
तथापि वच्मि मां यस्मान्निहीनं मन्यते भवान् ॥४९॥
 ॥सुतनुरुवाच ॥
अक्षरास्तु द्विपंचाशन्मातृकायाः प्रकीर्तिताः ॥५०॥
ॐकारः प्रथमस्तत्र चतुर्दश स्वरास्तथा ॥
स्पर्शाश्चैव त्रयस्त्रिंशदनुस्वारस्तथैव च ॥५१॥
विसर्ज्जनीयश्च परो जिह्वामूलीय एव च ॥
उपध्मानीय एवापि द्विपंचाशदमी स्मृताः ॥५२॥
इति ते कथिता संख्या अर्थं चैषां श्रृणु द्विज ॥
अस्मिन्नर्थे चेतिहासं तव वक्ष्यामि यः पुरा ॥५३॥
मिथिलायां प्रवृत्तोऽभूद्ब्राह्मणस्य निवेशने ॥
मिथिलायां पुरा पुर्यां ब्राह्मणः कौथुमाभिधः ॥५४॥
येन विद्याः प्रपठिता वर्तंते भुवि या द्विज ॥
एकत्रिंशत्सहस्राणि वर्षाणां स कृतादरः ॥५५॥
क्षणमप्यनवच्छिन्नं पठित्वा गेहवानभूत् ॥
ततः केनापि कालेन कौथुमस्याभवत्सुतः ॥५६॥
जडवद्वर्त्तमानः स मातृकां प्रत्यपद्यत ॥
पठित्वा मातृकामन्यन्नाध्येति स कथंचन ॥५७॥
ततः पिता खिन्नरूपी जडं तं समभाषत ॥
अधीष्व पुत्रकाधीष्व तव दास्यामि मोदकान् ॥५८॥
अथान्यस्मै प्रदास्यामि कर्णावुत्पाटयामि ते ॥५९॥
 ॥पुत्र उवाच ॥
तात किं मोदकार्थाय पठ्यते लोभहेतवे ॥
पठनंनाम यत्पुंसां परामार्थं हि तत्स्मृतम् ॥६०॥
 ॥कौथुम उवाच ॥
एवं ते वदमानस्य आयुर्भवतु ब्रह्मणः ॥
साध्वी बुद्धिरियं तेऽस्तु कुतो नाध्येष्यतः परम् ॥६१॥
 ॥पुत्र उवाच ॥
तात सर्वं परिज्ञेयं ज्ञानमत्रैव वै यतः ॥
ततः परं कंठशोषः किमर्थं क्रियते वद ॥६२॥
 ॥पितोवाच ॥
विचित्रं भाषसे बाल ज्ञातोऽत्रार्थश्च कस्त्वया ॥
ब्रूहि ब्रूहि पुनर्वत्स श्रोतुमिच्छामि ते गिरम् ॥६३॥
 ॥पुत्र उवाच ॥
एकत्रिंशत्सहस्राणि पठित्वापि त्वया पितः ॥
नानातर्कान्भ्रांतिरेव संधिता मनसि स्वके ॥६४॥
अयमयं चायमिति धर्मो यो दर्शनोदितः ॥
तेषु वातायते चेतस्तव तन्नाशयामि ते ॥६५॥
उपदेशं पठस्येव नैवार्थज्ञोऽसि तत्त्वतः ॥
पाठमात्रा हि ये विप्रा द्विपदाः पशवो हि ते ॥६६॥
तत्ते ब्रवीमि तद्वाक्यं मोहमार्तंडमद्भुतम् ॥६७॥
अकारः कथितो ब्रह्मा उकारो विष्णुरुच्यते ॥
मकारश्च स्मृतो रुद्रस्त्रयश्चैते गुणाः स्मृताः ॥६८॥
अर्धमात्रा च या मूर्ध्नि परमः स सदाशिवः ॥
एवमोंकारमाहात्म्यं श्रुतिरेषा सनातनी ॥६९॥
ॐकारस्य च माहात्म्यं याथात्म्येन न शक्यते ॥
वर्षाणामयुतेनापि ग्रंथकोटिभिरेव वा ॥७०॥
पुनर्यत्सारसर्वस्वं प्रोक्तं तच्छ्रूयतां परम् ॥
अःकारांता अकाराद्या मनवस्ते चतुर्दश ॥७१॥
स्वायंभुवश्च स्वारोचिरौत्तमो रैवतस्तथा ॥
तामसश्चाक्षुषः षष्ठस्तथा वैवस्वतोऽधुना ॥७२॥
सावर्णिर्ब्रह्मसावर्णी रुद्रसावर्णिरेव च ॥
दक्षसावर्णिरेवापि धर्मसावर्णिरेव च ॥७३॥
रौच्यो भौत्यस्तथा चापि मनवोऽमी चतुर्दश ॥
श्वेतः पांडुस्तथा रक्तस्ताम्रः पीतश्च कापिलः ॥७४॥
कृष्णः श्यामस्तथा धूम्रः सुपिशंगः पिशंगकः ॥
त्रिवर्णः शबलो वर्णैः कर्कंधुर इति क्रमात् ॥७५॥
वैवस्वतः क्षकारश्च तात कृष्णः प्रदृश्यते ॥
ककाराद्य हकारांतास्त्रयस्त्रिंशच्च देवताः ॥७६॥
ककाराद्याष्ठकारांता आदित्या द्वादश स्मृताः ॥
धाता मित्रोऽर्यमा शक्रो वरुणाश्चांशुरेव च ॥७७॥
भगो विवस्वान्पूषा च सविता दशमस्तथा ॥
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ॥७८॥
जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ॥
डकाराद्या बकारांता रुद्राश्चैकादशैव तु ॥७९॥
कपाली पिंगलो भीमो विरुपाक्षो विलोहितः ॥
अजकः शासनः शास्ता शंभुश्चण्डो भवस्तथा ॥८०॥
भकाराद्याः षकारांता अष्टौ हि वसवो मताः ॥
ध्रुवो घोरश्च सोमश्च आपश्चैव नलोऽनिलः ॥८१॥
प्रत्यूषश्च प्रभासश्च अष्टौ ते वसवः स्मृताः ॥
सौ हश्चेत्यश्विनौ ख्यातौ त्रयस्त्रिंशदिमे स्मृताः ॥८२॥
अनुस्वारो विसर्गश्च जिह्वामूलीय एव च ॥
उपध्मानीय इत्येते जरायुजास्तथांडजाः ॥८३॥
स्वेदजाश्चोद्भिजाश्चेति तत जीवाः प्रकीर्तिताः ॥
भावार्थः कथितश्चायं तत्त्वार्थं श्रृणु सांप्रतम् ॥८४॥
ये पुमांसस्त्वमून्देवान्समाश्रित्य क्रियापराः ॥
अर्धमात्रात्मके नित्ये पदे लीनास्त एव हि ॥८५॥
चतुर्णां जीवयोनीनां तदैव परिमुच्यते ॥
यदाभून्मनसा वाचा कर्मणा च यजेत्सुरान् ॥८६॥
यस्मिञ्छास्त्रे त्वमी देवा मानिता नैव पापिभिः ॥
तच्छास्त्रं हि न मंतव्यं यदि ब्रह्मा स्वयं वदेत् ॥८७॥
अमी च देवाः सर्वत्र श्रौते मार्गे प्रतिष्ठिताः ॥
पाषण्डशास्त्रे सर्वत्र निषिद्धाः पापकर्मभिः ॥८८॥
तदमून्ये व्यतिक्रम्य तपो दानमथो जपम् ॥
प्रकुर्वंति दुरात्मानो वेपते मरुतः पथि ॥८९॥
अहो मोहस्य माहात्म्यं पश्यताविजितात्मनाम् ॥
पठंति मातृकां पापा मन्यंते न सुरानिह ॥९०॥
 ॥सुतनुरुवाच ॥
इति तस्य वचः श्रुत्वा पिताभूदतिविस्मितः ॥
पप्रच्छ च बहून्प्रश्रान्सोप्यवादीत्तथातथा ॥९१॥
मयापि तव प्रोक्तोऽयं मातृकाप्रश्र उत्तमः ॥
द्वितीयं श्रृणु तं प्रश्नं पंचपंचाद्भुतं गृहम् ॥९२॥
पंचभूतानि पञ्चैव कर्मज्ञानेंद्रियाणि च ॥
पंच पंचापि विषया मनोबुद्ध्यहमेव च ॥९३॥
प्रकृतिः पुरुषश्चैव पञ्चविंशः सदाशिवः ॥
पञ्चपञ्चभिरेततैस्तु निष्पन्नं गृहमुच्यते ॥९४॥
देहमेतदिदं वेद तत्त्वतो यात्यसौ शिवम् ॥
बहुरूपां स्त्रियं प्राहुर्बुद्धिं वेदांतवादिनः ॥९५॥
सा हि नानार्थभजनान्नानारूपं प्रपद्यते ॥
धर्मस्यैकस्य संयोगाद्बहुधाप्येकिकैव सा ॥९६॥
इति यो वेदे तत्त्वार्थं नासौ नरकमाप्नुयात् ॥
मुनिभिर्यश्च न प्रोक्तं यन्न मन्येत दैवतान् ॥९७॥
वचनं तद्बुधाः प्रहुर्बंधं चित्रकथं त्विति ॥
यच्च कामान्वितं वाक्यं पंचमं वाप्यतः श्रुणु ॥९८॥
एको लोभो महान्ग्राहो लोभात्पापं प्रवर्तते ॥
लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते ॥९९॥
लोभान्मोहश्च माया च मानः स्तम्भः परेष्सुता ॥
अविद्याऽप्रज्ञता चैव सर्वं लोभात्प्रवर्तते ॥१००॥
हरणं परवित्तानां परदाराभिमर्शनम् ॥
साहसानां च सर्वेषामकार्याणआं क्रियास्तथा ॥१०१॥
स लोभः सह मोहेन विजेतव्यो जितात्मना ॥
दम्भो द्रोहश्च निंदा च पैशुन्यं मत्सरस्तथा ॥१०२॥
भवन्त्येतानि सर्वाणि लुब्धानामकृतात्मनाम् ॥
सुमहां त्यपि सास्त्राणि धारयंति बहुश्रुताः ॥१०३॥
छेत्तारः संशयानां च लोभग्रस्ता व्रजंत्यधः ॥
लोभक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः ॥१०४॥
अन्तःक्षुरा वाङ्मधुराः कूपाश्धन्नास्तृणौरिव ॥
कुर्वते ये बहून्मार्गांस्तांस्तान्हेतुबलन्विताः ॥१०५॥
सर्वमार्गं विलुंमपंति लोभाज्जातिषु निष्ठुराः ॥
धर्मावतंसकाः क्षुद्रा मुष्णंति ध्वजिनो जगत् ॥१०६॥
एतेऽतिपापिनो ज्ञेया नित्यं लोभसमन्विताः ॥
जनको युवनाश्वश्च वृषादर्भिः प्रसेनजित् ॥१०७॥
लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः ॥
तस्मात्त्यजंति ये लोभं तेऽतिक्रामंति सागरम् ॥१०८॥
संसाराख्यमतोऽनये ये ग्राहग्रस्ता न संशयः ॥
अथ ब्राह्मणभेदांस्त्वमष्टो विप्रावधारय ॥१०९॥
मात्रश्च ब्राह्मणश्चैव श्रोत्रियश्च ततः परम् ॥
अनूचानस्तथा भ्रूण ऋषिकल्प ऋषिर्मुनिः ॥११०॥
एते ह्यष्टौ समुद्दिष्टा ब्राह्मणाः प्रथमं श्रुतौ ॥
तेषां परः परः श्रेष्ठो विद्यावृत्तविशेषतः ॥१११॥
ब्राह्मणानां कुले जातो जातिमात्रो यदा भवेत् ॥
अनुपेतः क्रियाहीनो मात्र इत्यभिधीयते ॥११२॥
एकोद्देश्यमतिक्रम्य वेदस्याचारवानृजुः ॥
स ब्राह्मण इति प्रोक्तो निभृतः सत्यवाग्घृणी ॥११३॥
एकां शाखां सकल्पां च षड्भिरंगैरधीत्य च ॥
षट्कर्मनिरतो विप्रः श्रोत्रियोनाम धर्मवित् ॥११४॥
वेदवेदांगतत्त्वज्ञः शुद्धात्मा पापवर्जितः ॥
श्रेष्ठः श्रोत्रियवान्प्राज्ञः सोऽनूचान इति स्मृतः ॥११५॥
अनूचानगुणोपेतो यज्ञस्वाध्याययंत्रितः ॥
भ्रूण इत्युच्यते शिष्टैः शेषभोजी जितेंद्रियः ॥११६॥
वैदिकं लौकिकं चैव सर्वज्ञानमवाप्य यः ॥
आश्रमस्थो वशी नित्यमृषिकल्प इति स्मृतः ॥११७॥
ऊर्ध्वरेता भवत्यग्र्यो नियताशी नसंश यी ॥
शापानुग्रहयोः शक्तः सत्यसंधो भवेदृषिः ॥११८॥
निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः ॥
ध्यानस्थानिष्क्रियो दांतस्तुल्यमृत्कांचनो मुनिः ॥११९॥
एवमन्वयविद्याभ्यां वृत्तेन च समुच्छ्रिताः ॥
त्रिशुक्लानाम विप्रेंद्राः पूज्यन्ते सवनादिषु ॥१२०॥
इत्येवंविधविप्रत्वमुक्तं श्रृणु युगादयः ॥
नवमी कार्तिके शुक्ला कृतादिः परिकीर्तिता ॥१२१॥
वैशाखस्य तृतीया या शुक्ला त्रेतादिरुच्यते ॥
माघे पञ्चदशीनाम द्वापरादिः स्मृता बुधैः ॥१२२॥
त्रयोदशी नभस्ये च कृष्णा सा हि कलेः स्मृता ॥
युगादयः स्मृता ह्येता दत्तस्याक्षयकारकाः ॥१२३॥
एताश्चतस्रस्तिथयो युगाद्या दत्तं हुतं चाक्षयमाशु विद्यात् ॥
युगेयुगे वर्षशतेन दानं युगादिकाले दिवसेन तत्फलम् ॥१२४॥
युगाद्याः कथिता ह्येता मन्वाद्याः श्रृणु सांप्रतम् ॥
अश्वयुक्छुक्लनवमी द्वादशी कार्तिके तथा ॥१२५॥
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा ॥१२६॥
आषाढस्यापि दशमी माघमासस्य सप्तमी ॥
श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा ॥१२७॥
कार्तिकी फाल्गुनी चैत्री ज्येष्ठे पञ्चदशी सिता ॥
मन्वंतरादयश्चैता दत्तस्याक्षयकारकाः ॥१२८॥
[१]यस्यां तिथौ रथं पूर्वं प्राप देवो दिवाकरः ॥
सा तिथिः कथिता विप्रैर्माघे या रथसप्तमी ॥१२९॥
तस्यां दत्तं हुतं चेष्टं सर्वमेवाक्षयं मतम् ॥
सर्वदारिद्र्यशमनं भास्करप्रीतये मतम् ॥१३०॥
नित्योद्वेजकमाहुर्यं बुधास्तं श्रृणु तत्त्वतः ॥
यश्च याचनिको नित्यं न स स्वर्गस्य भाजनम् ॥१३१॥
उद्वेजयति भूतानि यथा चौरास्तथैव सः ॥
नरकं याति पापात्मा नित्योद्वेगकरस्त्वसौ ॥१३२॥
इहोपपत्तिर्मम केन कर्मणा क्व च प्रयातव्यमितो मयेति ॥
विचार्य चैवं प्रतिकारकारी बुधैः स चोक्तो द्विज दक्षदक्षः ॥१३३॥
मासैरष्टभिरह्ना च पूर्वेण वयसायुषा ॥
तत्कर्म पुरुषः कुर्याद्येनांते सुखमेधते ॥१३४॥
अर्चिर्धूमश्च मार्गौ द्वावाहुर्वेदांतवादिनः ॥
अर्चिषा याति मोक्षं च धूमेनावर्तते पुनः ॥१३५॥
यज्ञैरासाद्यते धूमो नैष्कर्म्येणार्चिराप्यते ॥
एतयोरपरो मार्गः पाखंड इति कीर्त्यते ॥१३६॥
यो देवान्मन्यते नैव धर्मांश्च मनुसूचितान् ॥
नैतौ स याति पंथानौ तत्त्वार्थोऽयं निरूपितः ॥१३७॥
इते ते कीर्तिताः प्रश्राः शक्त्या ब्राह्मणसत्तम ॥
साधु वाऽसाधु वा ब्रूही ख्यापयात्मानमेव च ॥१३८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कलापग्रामवासिसुतनुब्राह्मणेन नारदप्रश्नोत्तरकथनंनाम पंचमोऽध्यायः ॥ ५॥ छ ॥

N/A

References : N/A
Last Updated : July 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP