संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ३९

कौमारिकाखण्डः - अध्यायः ३९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
सहस्रसप्तत्युच्छ्राये पातालानि परस्परम् ॥
अतलं वितलं चैव नितलं च रसातलम् ॥१॥
तलातलं च सुतलं पातालं चापि सप्तमम् ॥
कृष्णशुक्लारुणाः पीताः शर्कराशैलकांचनाः ॥२॥
भूमयो यत्र कौरव्य वरप्रासादशोभिताः ॥
तेषु दानवदैतेयनागाश्चैव सहस्रसः ॥३॥
स्वर्लोकादपि रम्याणि दृष्टानि बहुशो मया ॥
आह्लादकारिणो नानामण्यो यत्र पन्नगः ॥४॥
दैत्यदानवकन्याभिर्महारूपाभिरन्विते ॥
पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ॥५॥
यत्र नोष्णं न वा शीतं न वर्षं दुःखमेव च ॥
भक्ष्यभोज्यमहाभोगकालो यत्रापि जायते ॥६॥
पाताले सप्तमे चास्ति लिंगं श्रीहाटकेश्वरम् ॥
ब्रह्मणा स्थापितं पार्थ सहस्रयोजनोच्छ्रितम् ॥७॥
हाटकस्य तु लिंगस्य प्रासादो योजनायुतः ॥
सर्वरत्नमयो दिव्यो नानाश्चयविभूषितः ॥८॥
तच्चार्यंति तल्लिंगं नानानागेन्द्रसत्तमाः ॥
तदधस्ताज्जलं भूरि तस्याधो नरकाः स्मृताः ॥९॥
पापिनो येषु पात्यंते ताञ्छृणुष्व महामते ॥
कोटयः पंचपंचाशद्राजानश्चैकविंशति ॥१०॥
रौरवः शूकरो रोधस्तालो विशसनस्तथा ॥
महाज्वालस्तप्तकुम्भो लवणोथ विमोहकः ॥११॥
रुधिरांधो वैतरणी कृमिशः कृमिभोजनः ॥
असिपत्रवनं कृष्णो लालाभक्ष्यश्च दारुमः ॥१२॥
तथा पूयवहः पापो वह्निज्वालोऽप्यधःशिराः ॥
संदंशः कृष्णसूत्रश्च तमश्चावीचिरेवच ॥१३॥
श्वभोजनो विसूचिश्चाप्यवीचिश्च तथाऽपरः ॥
कूटसाक्षी रौरवं च रोधं गोविप्ररोधकः ॥१४॥
सुरापः सूकरं याति तालं मिथ्याम नुष्यहा ॥
गुरुतल्पी तप्तकुम्भं तप्तलोहं च भक्तहा ॥१५॥
गुरूणामवमंता यचो महाज्वाले निपात्यते ॥
लवणं शास्त्रहंता च निर्मर्यादो विमोहके ॥१६॥
कृमिभक्ष्ये देवद्वेष्टा कृमिशे तु दुरिष्टकृत् ॥
पितृदेवात्पूर्वमश्रल्लाँलाभक्ष्ये प्रयाति च ॥१७॥
मिथ्याजीवविरोधी विशसने कूटशस्त्रकृत् ॥
अधोमुखे ह्यसद्ग्राही एकाशी पूयवाहके ॥१८॥
मार्ज्जारकुक्कुटश्वानपक्षिपोष्टा प्रयाति च ॥
बधिरांधगृहक्षेत्रतृणधान्यादिज्वालकः ॥१९॥
नक्षत्ररंगजीवी च याति वैतरणीं नरः ॥
धनयौवनमत्तो यो धनहा कृष्णमेति सः ॥२०॥
असिपत्रवनं याति वृक्षच्छेदी वृथैव यत् ॥
कुहकाजीविनः सर्वे वह्निज्वाले पतंति ते ॥२१॥
परस्त्रीं च परान्नं च गच्छन्संदंशमेति च ॥
दिवास्वप्नपरा ये व्रतलोपपराश्च ये ॥२२॥
शरीरमदमत्ताश्च यांति चैते श्वभोजनम् ॥
शिवं हरिं न मन्यंते यांत्यवीचिनमेव च ॥२३॥
इत्येवमादिभिः पापैरशास्त्रौघस्य सेवनैः ॥
पतंत्येव महाघोरनरकेषु सहस्रशः ॥२४॥
तस्माद्य इच्छेदेतेभ्यो विमोक्षं बुद्धिमान्नरः ॥
श्रुतिमार्गेण तेनार्च्यौ देवौ हरिहरावुभौ ॥२५॥
नरकाणामधोभागे स्थितः कालाग्निसंज्ञकः ॥
तदधो हट्टकश्चैव अनंतस्तदधः स्मृतः ॥२६॥
यस्यैतत्सकलं विश्वं मूर्धाग्रे सर्षपायते ॥
इत्यनंतप्रभावात्स ह्यनंत इति कीर्त्यते ॥२७॥
दिशां गजास्तत्र पद्मकुमुदांजनवामनाः ॥
तदधोंऽडकटाहश्च एकवीरास्ति तत्र च ॥२८॥
चतुर्लक्षसहस्राणि नवतिश्च शतानि च ॥
एतनैव प्रमाणेन उदकं च ततः स्मृतम् ॥२९॥
तदधो नरकाः कोट्यो द्विकोट्योऽग्निस्ततो महान् ॥
चत्वारिंशत्सहस्रैश्च तदधस्तम उच्यते ॥३०॥
चत्वारिंश्च्चकोट्यस्तु चतस्रश्च ततः पराः ॥
एकोननवतिर्लक्षाः सहस्राशीतिरेव च ॥३१॥
तदधोंऽडकटाहोथ कोटिमात्रस्तथापरः ॥
देवी युक्ता कपालीशा दंडहस्तेन चापि सा ॥३२॥
देवीनां कोटिकोटीभिः संवृता तत्र पालिनी ॥
संकर्षणस्य निःश्वासप्रेरितो दाहकोऽनलः ॥३३॥
कालाग्निं प्रेरयत्येव कल्पांते दह्यते जगत् ॥
एवंविधमधःसूत्रं निर्मितं चात्र भारत ॥३४॥
मध्यसूत्रे कटाहे च पालकांस्ताञ्छृणुष्व मे ॥
वसुधामा स्थितः पूर्वे शंखपालश्च दक्षिणे ॥३५॥
तक्षकेशः स्थितः पश्चादुत्तरे केतुमानिति ॥
हरसिद्धिः सुपर्णाक्षी भास्करा योगनंदिनी ॥३६॥
कोटिकोटी युता देवी देवीनां पालयत्यदः ॥
एवमेतन्महाश्चर्यं ब्रह्मांडं स्थापितं च यैः ॥३७॥
नमामि तानहं नित्यं ब्रह्मविष्णुमहेश्वरान् ॥
विष्णुलोको रुद्रलोको बहिश्चास्मात्प्रकीर्त्यते ॥३८॥
तं च वर्णयितुं ब्रह्मा शक्तो नैवास्मदादयः ॥
विमुक्ता यत्र संयांति नित्यं हरिहरव्रताः ॥३९॥
ब्रह्मांडं संवृतं ह्येतत्कटाहेन समंततः ॥
कपित्थस्य यथा बीजं कटाहेन सुसंवृतम् ॥४०॥
दशोत्तरेण पयसा वृतं तच्चापि तेजसा ॥
तेजश्च वायुना वायुर्नभ साहंतया च तत् ॥४१॥
अहंकारश्च महता तं चापि प्रकृतिः परा ॥
दशोत्तराणि सर्वाणि षडाहुः सप्तमं च तत् ॥४२॥
प्राकृतं चरणं पार्थ तदनंतं प्रकीर्तितम् ॥
अंडानां तु सहस्राणां सहस्राण्ययुतानि च ॥४३॥
ईदृशानां तथा चात्र कोटिकोटिशतानि च ॥
सर्वाण्येवंविधान्येव यादृशं कीर्तितंत्विदम् ॥४४॥
यस्यैवं वैभवं पार्थ तं नमामी सदाशिवम् ॥
अहो मंदः स पापात्मा को वा तस्मादचेतनः ॥४५॥
य एवंविधसंमोहतारकं न शिवं भजेत् ॥
अथ ते कीर्थयिष्यामि कालमानं निबोध तत् ॥४६॥
काष्ठा निमेषा दश पंच चाहुस्त्रिंशच्च काष्ठा गणयेत्कला हि ॥
त्रिंशत्कलाश्चापि भवेन्मुहुर्त्तं तत्त्रिंशता रात्र्यहनी उभे च ॥४७॥
दिवसे पंच कालाः स्युस्त्रिमुहूर्ताः श्रृणुष्व तान् ॥
प्रातस्ततः संगवश्च मध्याह्नश्चापराह्णकः ॥४८॥
सायाह्नः पंचमश्चापि मुहूर्ता दश पंच च ॥
अहोरात्राः पंचदश पक्ष इत्यभिधीयते ॥४९॥
मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजावृतुः ॥
ऋतुत्रयं चाप्ययनं द्वेयने वर्षमुच्यते ॥५०॥
चतुर्भेदं मासमाहुः पंचभेदं च वत्सरम् ॥
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ॥५१॥
इद्वत्सरस्तृतीयोऽसौ चतुर्थश्चानुवत्सरः ॥
पंचमश्च युगोनाम गणनानिश्चयो हि सः ॥५२॥
मासेन च मनुष्याणामहोरात्रं च पैतृकम् ॥
कृष्णपक्षस्त्वहः प्रोक्तः शुक्लपक्षश्च शर्वरी ॥५३॥
मानुषेण च वर्षेण दैविको दिवसः स्मृतः ॥
अहस्तत्रो दगयनं रात्रिः स्याद्दक्षिणायनम् ॥५४॥
वर्षेण चैव देवानां मतः सप्तर्षिवासरः ॥
सप्तर्षीणां च वर्षेण ध्रौवश्च दिवसः स्मृतः ॥५५॥
मनुष्याणां च वर्षाणि लक्षासप्तदशैव तु ॥
अष्टाविंशतिसहस्राणि कृतं त्रेतायुगं ततः ॥५६॥
लक्षद्वादशसाहस्रषण्नवत्यधिकाः पराः ॥
अष्टौ लक्षाश्चतुःषष्टिसहस्राणि च द्वापरः ॥५७॥
चतुर्लक्षं तु द्वात्रिंशत्सहस्राणि कलिः स्मृतः ॥
चतुर्भिरेतैर्देवानां युगामित्यभिधीयते ॥५८॥
आयुर्मनोर्युगानां च साधिका ह्येकसप्ततिः ॥
चतुर्दशमनूनां च कालेन ब्रह्मणो दिनम् ॥५९॥
युगानां च सहस्रेण स च कल्पः श्रृणुष्व तान् ॥
भवोद्भवस्तपभव्य ऋतुर्वह्निर्वराहकः ॥६०॥
सावित्र आसिकश्चापि गांधारः कुशिकस्तथा ॥
ऋषभश्च तथा खड्गो गांधारीयश्च मध्यमः ॥६१॥
वैराजश्च निषादश्च मेघवाहनपंचमौ ॥
चित्रको ज्ञान आकूतिर्मोनो दंशश्च बृंहकः ॥६२॥
श्वेतो लोहितरक्तौ च पीतवासाः शिवः प्रभुः ॥
सर्वरूपश्च मासोऽयमेवं वर्षशतावधिः ॥६३॥
पूर्वार्धमपरार्धं च ब्रह्ममानमिदं स्मृतम् ॥
विष्णोश्च शंकरस्यापि नाहं शक्तश्च वर्णने ॥६४॥
क्वाहमल्पमतिः पार्थ क्वापरौ हरित्र्यंबकौ ॥
देविकेनैव मानेन पातालेष्वपि गण्यते ॥६५॥
इति ते सूचितं बुद्ध्या श्रृणु तत्प्राकृतं पुनः ॥६६॥
इति वैधात्रव्यवस्थितिः ॥
 ॥श्रीनारद उवाच ॥
ऋषभोनाम यन्नाम्ना नानापाषंड कल्पनाः ॥
कलौ पार्थ भविष्यंति लोकानां मोहनात्मिकाः ॥६७॥
तस्य पुत्रस्तु भरतः शतश्रृंगस्तु तत्सुतः ॥
तस्य पुत्राष्टकं जातं तथैकाच कुमारिका ॥६८॥
इंद्रद्वीपः कसेरुश्च ताम्रद्वीपो गभस्तिमान् ॥
नागः सौम्यश्च गांधर्वो वरुणश्च कुमारिका ॥६९॥
वदनं चापि कन्यायाः पार्थ बर्करिकाकृति ॥
श्रृणु तत्कारणं सर्वं महाश्चर्यसमन्वितम् ॥७०॥
महीसागरपर्यंतं वृक्षराजिविराजिते ॥
जालीगुल्मलताकीर्णे स्तंभतीर्थस्य संनिधौ ॥७१॥
अजासमजतो मध्यात्काचिदेका च बर्करी ॥
भ्रांता सती समायाता प्रदेशे तत्र दुश्चरे ॥७२॥
इतस्ततो भ्रमंति सा जालिमध्ये समंततः ॥
निर्गंतुं नैव शक्नोति क्षुत्पिपासार्दिता शुभा ॥७३॥
विलग्ना जालिमध्ये तु ततः पंचत्वमागता ॥
कालेन कियता तस्य त्रुटित्वा शिरसो ह्यधः ॥७४॥
पपात शनिदर्शे च महीसागरसंगमे ॥
सर्वतीर्थमये तत्र सर्वपापप्रमोचने ॥७५॥
शिरस्तु तदवस्थं हि समग्रं तत्र संस्थितम् ॥
जालिगुल्मावलग्नं च तस्या नैवापतज्जले ॥७६॥
शेषकायप्रपातेन महीसागरसंगमे ॥
तत्तीर्थस्य प्रभावेन बर्करीसा कुरूद्वह ॥७७॥
शकश्रृंगस्य वै राज्ञः सिंहलेष्वभवत्सुता ॥
मुखं बर्करिकातुल्यं व्यक्तं तस्या व्यजायत ॥७८॥
दिव्यनारी शुभाकारा शेषकाये बभौ शुभा ॥
पूर्वं तस्याप्यपुत्रस्य राज्ञः पुत्रशतोपमा ॥७९॥
पुत्री जाता प्रमोदेन स्वजनानंदवर्धिनी ॥
ततस्तस्या विलोक्याथ मुखं वर्करिकाकृति ॥८०॥
विस्मयं समनुप्राप्ताः सर्वे ते राजपूरुषाः ॥
विषादं परमापन्नो राजा सांतःपुरस्तदा ॥८१॥
खिन्नाः प्रकृतयः सर्वास्तादृग्रूपविलोकनात् ॥
तत्किमित्येतदाश्चर्यमूचुः पौराः सुविस्मिताः ॥८२॥
ततः सा यौवनं प्राप्ता साक्षाद्देवसुतोपमा ॥
स्वमुखं दर्पणे वीक्ष्यस्मृतः पूर्वो भवस्तया ॥८३॥
तत्तीर्थस्य प्रभावेण मातृपित्रोर्निवेदितम् ॥
विषादो नैव कर्तव्यो मदर्थे तात निश्चितम् ॥८४॥
मा शोकं कुरु मे मातः पूर्वजन्मार्जितं फलम् ॥
ततः पूर्वं स्ववृत्तांतमुक्त्वा सा च कुमारिका ॥८५॥
पूर्वजन्मोद्भवः कायस्यस्या यत्रापतत्तथा ॥
गमनाय तमुद्देशं विज्ञप्तौ पितरौ तया ॥८६॥
अहं तात गमिष्यामि महीसागरसंगमम् ॥
भवामि तत्र संप्राप्ता यथा कुरु तथा नृप ॥८७॥
ततः पित्रा प्रतिज्ञातं शतश्रृंगेण तत्तथा ॥
तस्याः संवाहनं चक्रे राजा पोतैः सरत्नकैः ॥८८॥
स्तंभतीर्थं ततः साऽपि प्राप्य पोतार्यसंयुता ॥
भूरिदानं ततश्चक्रे दानं सर्वस्वलक्षणम् ॥८९॥
जालिगुल्मांतरेऽन्विष्य ततो दृष्टं निजं शिरः ॥
अस्थिचर्मावशेषं च तदादाय प्रयत्नतः ॥९०॥
दग्ध्वा संगमसांनिध्ये क्षिप्तान्यस्थीनि संगमे ॥
ततस्तीर्थप्रभावेण मुखं जातं शशिप्रभम् ॥९१॥
न तादृग्देवकन्यानां न तादृङनागयोषिताम् ॥
न तादृङमर्त्यनारीणां तस्या यादृङमुखं मुखम् ॥९२॥
सुरासुरनराः सर्वे तस्या रूपेण मोहिताः ॥
बहुधा प्रार्थयंत्येनां न सा वरमभीप्सति ॥९३॥
कष्टं तया मुदा तत्र प्रारब्धं दुश्चरं तपः ॥
ततः संवत्सरे पूर्णे देवदेवो महेश्वरः ॥९४॥
प्रत्यक्षतां गतस्तस्यै वरदोऽस्मीति चाब्रवीत् ॥
ततस्तं पूजयित्वा च कुमारी वाक्यमब्रवीत् ॥९५॥
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ॥
सांनिध्यं क्रियतामत्र सर्वकालं हि शंकर ॥९६॥
एवमस्त्विति शर्वेण प्रोक्ते हृष्टा कुमारिका ॥
यत्र दग्धं शिरस्तस्या बर्कर्याः कुरुसत्तम ॥९७॥
बर्करेशः शिवस्तत्र तया संस्थापितस्तदा ॥
मन्मुखान्महादाश्चर्यं श्रुत्वेदं च तलातलात् ॥९८॥
स्वस्तिकोनाम नागेंद्रः कुमारीं द्रष्टुमागतः ॥
शिरसा गच्छता तेन यत्रोत्क्षिप्ता च भूरभूत् ॥९९॥
ईशाने बर्करेशस्य कूपोऽभूत्स्वस्तिकाभिधः ॥
पूरितो गंगया पार्थसर्वतीर्थफलप्रदः ॥१००॥
दृष्ट्वा च स्थापितं लिंगं शिवस्तुष्टो वरं ददौ ॥
येषां मृतशरीराणामत्र दाहः प्रजायते ॥१०१॥
क्षिप्यंतेब्धौ तथा स्थीनि तेषां स्यादक्षया गतिः ॥
ते स्वर्गे सुचिरं कालं वसित्वात्र समागताः ॥१०२॥
राजानः सर्वसंपूर्णाः सप्रतापा भवंति ते ॥
बर्करेशं च यो भक्त्या संपूजयति मानवः ॥१०३॥
स्नात्वार्णवमहीतोये तस्य स्यान्मनसेप्सितम् ॥
कार्तिके च चतुर्द्देश्यां कृष्णायां श्रद्धयान्वितः ॥१०४॥
कूपे स्नानं नरः कृत्वा संतर्प्य च पितॄन्निजान् ॥
पूजयेद्बर्करेशं यः सर्पपापैः स मुच्यते ॥१०५॥
एवं लब्ध्वा वरान्सर्वान्सा पुनः सिंहलं ययौ ॥
शतश्रृङ्गाय पित्रे च वृत्तांतं स्वं न्यवेदयत् ॥१०६॥
तच्छ्रुत्वा विस्मितो राजा लोकाः सर्वे च फाल्गुन ॥
प्रशशंसुर्महीतीर्थमाजग्मुश्च कृतादराः ॥१०७॥
स्नात्वा दत्त्वा च दानानि विविधानि च ते ततः ॥
सिंहलं च ययुर्भूयस्तीर्थमाहात्म्यहर्षिताः ॥१०८॥
अनिच्छंत्यां कुमार्यां च वरं द्रव्यं च पार्थिवः ॥
तथान्यदपि प्रीत्यासौ यद्ददौ नृपतिः श्रृणु ॥१०९॥
इदं भारतखंडं च नवधैव विभज्य सः ॥
ददावष्टौ स्वपुत्राणां कुमार्यै नवमं तथा ॥११०॥
तेषां विभेदान्वक्ष्यामि पर्वतैरुपशोभितान् ॥
पुत्रनामानि वर्षाणि पर्वतांश्च श्रृणुष्व मे ॥१११॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥
विंध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥११२॥
महेन्द्रपरतश्चैव इन्द्रद्वीपो निगद्यते ॥
पारियात्रस्य चैवार्वाक्खण्डं कौमारिकं स्मृतम् ॥११३॥
सहस्रमेकमेकं च सर्वखण्डान्यमूनि च ॥
नदीनां संभवं चापि संक्षेपाच्छृणु फाल्गुन ॥११४॥
वेदस्मृतिमुखा नद्यः पारियात्रोद्भवा मताः ॥
नर्मदासरसाद्याश्च नद्यो विंध्याद्विनिर्गताः ॥११५॥
शतद्रूचन्द्रभागाद्या ऋक्षपर्वतसंभवाः ॥
ऋषिकुल्याकुमार्याद्याः शुक्तिमत्पादसंभवाः ॥११६॥
तापी पयोष्णी निर्विध्या कावेरी च महीनदी ॥
कृष्णा वेणी भीमरथी सह्यपादोद्भवाः स्मृताः ॥११७॥
कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः ॥
त्रिसामऋष्यकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥११८॥
एवं विभज्य पुत्रेभ्यः कुमार्यै च महीपतिः ॥
शतशृंगो गिरं गत्वा उदीच्यां तप्तवांस्तपः ॥११९॥
तत्र तप्त्वा तपो घोरं ब्रह्मलोकं जगाम सः ॥
शतश्रृंगो नृपश्रेष्ठः शतश्रृंगे नगोत्तमे ॥१२०॥
यत्र जातोऽसि कौतेय पांडोस्त्वं सोदरैः सह ॥
कुमारी च महाभागा स्तंभतीर्थस्थिता सती ॥१२१॥
खंडोद्भवेन द्रव्येण तेपे दानानि यच्छती ॥
ततः केनापि कालेन भ्रातृभ्योऽष्टभ्य एव च ॥१२२॥
महावीर्यबलोत्साहा जाता नव नवात्मजाः ॥
ते समेत्य समागम्य कुमारीं प्रोचिरे ततः ॥१२३॥
कुलदेवी त्वमस्माकं प्रसादं कुरु नः शुभे ॥
अष्टौ खण्डानि चास्माकं विभज्य स्वयमेव च ॥
देही द्वासप्ततीनां नो विभेदः स्याद्यथा न नः ॥१२४॥
इत्युक्ता सर्वधर्मज्ञा विज्ञाने ब्रह्मणा समा ॥
द्वासप्ततिविभेदैः सा नव खंडान्यचीकरत् ॥१२५॥
तेषां नामानि ग्रामांश्च पत्तनानि च फाल्गुन ॥
वेलाकूलानि संख्यां च वक्ष्यामि तव तत्त्वतः ॥१२६॥
कोटिश्चतस्रो ग्रामाणां नीवृदासीच्च मंडले ॥
सार्धकोटिद्वयग्रामैर्देशो बालाक जच्यते ॥१२७॥
सपादकोटिर्ग्रामाणां पुरसाहणके विदुः ॥
लक्षाश्चत्वार एवापि ग्रामाणामंधके स्मृताः ॥१२८॥
एको लक्षश्च नेपाले ग्रामाणां परिकीर्तितः ॥
षट्‌त्रींशल्लक्षमानं तु कान्यकुब्जे प्रकीर्तितम् ॥१२९॥
द्वासप्ततिस्तथा लक्षा ग्रामा गाजणके स्मृताः ॥
अष्टादश तथा लक्षा ग्रामाणां गौडदेशके ॥१३०॥
कामरूपे च ग्रामाणां नवलक्षाः प्रकीर्तिताः ॥
डाहले वेदसंज्ञे तु ग्रामाणां नवलक्षकम् ॥१३१॥
नवैव लक्षा ग्रामाणां कांतिपुरे प्रकीर्तिताः ॥
नवलक्षास्तथा चैव माचिपुरे प्रकीर्तिताः ॥१३२॥
ओड्डियाणे तथा देशे नवलक्षाः प्रकीर्तिताः ॥
जालंधरे तथा देशे नवलक्षाः प्रकीर्तिताः ॥१३३॥
लोहपूरे तथा देशे लक्षाः प्रोक्ता नवैव च ॥
ग्रामाणां सप्तलक्षं च पांबीपुरे प्रकीर्तितम् ॥१३४॥
ग्रामाणां सप्तलक्षं च रटराजे प्रकीर्तितम् ॥
हरीआले च ग्रामाणां लक्षपंचकसंमितम् ॥१३५॥
सार्धलक्षत्रयं प्रोक्तं द्रडस्य विषये तथा ॥
सार्धलक्षत्रयं प्रोक्तं तथावंभणवाहके ॥१३६॥
एकविंशतिसाहस्रं ग्रामणां नीलपूरके ॥
तथामलविषये पार्थ ग्राममाणामेकलक्षकम् ॥१३७॥
नरेंदुनामदेशे तु लक्षमेकं सपादकम् ॥
अतिलांगलदेशे च लक्षः प्रोक्तः सपादकः ॥१३८॥
लक्षाष्टादशसाहस्रं नवती द्वे च मालवे ॥
सयंभरे तथा देशे लक्षः प्रोक्तः सपादकः ॥१३९॥
मेवाडे च तथा प्रोक्तो लक्षश्चैकःसपादकः ॥
अशीतिश्च सहस्राणि वागुरिः परिकीर्तितः ॥१४०॥
ग्रामसप्ततिसाहस्रो गुर्जरात्रः प्रकीर्तितः ॥
तथा सप्ततिसाहस्रः पांडर्विषय एव च ॥१४१॥
जहाहुतिसहस्राणि द्वाचत्वारिंशदेव च ॥
अष्टषाष्टसहस्राणि प्रोक्तं काश्मीरमंडलम् ॥१४२॥
षष्टित्रिंशत्सहस्राणि ग्रामाणां कौंकणे विदुः ॥
चतुर्दशशतं द्वे च विंशतीलघुकौंकणम् ॥१४३॥
सिंधुः सहस्रदशके ग्रामाणां परिकीर्तितः ॥१४४॥
चतुर्दशशते द्वे च विंशतिः कच्छमंडलम् ॥
पंचपंचाशत्सहस्रं ग्रामाः सौराष्ट्रमुच्यते ॥१४५॥
एकविंशतिसहस्रो लाडदेशः प्रकीर्तितः ॥
अतिसिंधुश्च ग्रामाणां दशसहस्र उच्यते ॥
तथा चाश्वमुखं पार्थ दशसाहस्रमुच्यते ॥१४६॥
सहस्रदशकं चापि एकपादः प्रकीर्तितः ॥१४७॥
तथैव दशसाहस्रो देशः सूर्यमुखः स्मृतः ॥
एकबाहुस्तथा देशो दशसाहस्रमुच्यते ॥१४८॥
सहस्रदशकं चैव संजायुरिति देशकः ॥
शिवनामा तथा देशः सहस्रदशकः स्मृतः ॥
सहस्राणि दश ख्यातं तथा कालहयंजयः ॥१४९॥
लिंगोद्भवस्तथा देशः सहस्राणि दशैव च ॥
भद्रश्च देवभद्रश्च प्रत्येकं दशकौ स्मृतौ ॥१५०॥
षट्‌त्रिंशच्च सहस्राणि स्मृतौ चटविराटकौ ॥
षट्‌त्रिंशच्च सहस्राणि यमकोटिः प्रकीर्तिता ॥१५१॥
अष्टादश तथा कोट्यो रामको देश उच्यते ॥
तोमरश्चापि कर्णाटो युगलश्च त्रयस्त्विमे ॥१५२॥
सपादलक्षग्रामाणां प्रत्येकं परिकीर्तितः ॥
पंचलक्षाश्च ग्रामाणां स्त्रीराज्यं परिकीर्तितम् ॥१५३॥
पुलस्त्यविषयश्चापि दशलक्षक उच्यते ॥
प्रत्येकं लक्षदशकौ देशौ कांबोजकोशलौ ॥१५४॥
ग्रामाणां च चतुर्लक्षो बाल्हिकः परिकीर्त्यते ॥
षट्‌त्रिंशच्च सहस्राणि लंकादेशः प्रकीर्तितः ॥१५५॥
चतुःषष्टिसहस्राणि कुरुदेशः प्रकीर्तितः ॥
सार्धलक्षस्तथा प्रोक्तः किरातविजयो जयः ॥१५६॥
पंच प्राहुस्तथा लक्षान्विदर्भायां च ग्रामकान् ॥
चतुर्दशसहस्राणि वर्धमानं प्रकीर्तितम् ॥१५७॥
सहस्रदशकं चापि सिंहलद्वीपमुच्यते ॥
षट्‌त्रिंशच्च सहस्राणि ग्रामाणां पांडुदेशकः ॥१५८॥
लक्षैकं च तथा प्रोक्तं ग्रामाणां तु भयाणकम् ॥
षट्‌षष्टिं च सहस्राणि देशो मागध उच्यते ॥१५९॥
षष्टिसहस्राणि तथा ग्रामाणां पांगुदेशकः ॥
त्रिंशत्साहस्र उक्तश्च ग्रामाणां च वरेंदुकः ॥१६०॥
पंचविंशतिसाहस्रं मूलस्थानं प्रकीर्तितम् ॥
चत्वारिंशत्सहस्राणि ग्रामाणां यावनः स्मृतः ॥१६१॥
चत्वार्येव सहस्राणि पक्षबाहुरुदीर्यते ॥
द्वासप्ततिरमी देशाः ग्रामसंख्याः प्रकीर्तिताः ॥१६२॥
एवं भरतखंडेऽस्मिन्षण्णवत्येव कोटयः ॥
द्वासप्ततिस्तथा लक्षाः पत्तनानां प्रकीर्तिताः ॥१६३॥
षट्‌त्रिंशच्च सहस्राणि वेलाकूलानि भारत ॥
एवं विभज्य खंडानि भ्रातृव्याणां ददौ नव ॥१६४॥
आत्मीयमपि सा देवी अनिच्छुष्वपि तेषु च ॥
यतो मान्येति भगिनी प्रति क्रुध्यंति भ्रातरः ॥१६५॥
भ्रातॄन्प्रति भगिनी च विचार्यैव ददौ शुभा ॥
तत्कृत्वा सानुमान्यैतान्स्तंभतीर्थमुपागता ॥१६६॥
तदा तेषु च देशेषु चतुर्वर्गस्य साधनम् ॥
सर्वेषां प्रवरं प्रोक्तं कुमारीश्वरमेव च ॥१६७॥
तत्रापि गुप्तक्षेत्रं च वेदैतत्सा कुमारिका ॥
गुप्तक्षेत्रे कुमारेशं पूजयंति महाव्रता ॥१६८॥
तस्थौ स्नायंती षट्‌सु चैवापि संगमे ॥
ततः कालप्रकर्षाच् प्रासादे स्कंदनिर्मिते ॥१६९॥
जीर्णे नव्यं स्वर्णमयं प्रासादं साप्यकारयत् ॥
ततस्तुष्टो महादेवस्तस्या भक्त्यातितोषितः ॥१७०॥
कुमारलिंगादुत्थाय प्रत्यक्षस्तामवोचत ॥
भद्रे तवाहं भक्त्या च विज्ञानेन च तोषितः ॥१७१॥
जीर्णः पुनरुद्धृतोऽयं प्रासादस्तेन तोषितः ॥
तव नाम्ना च विख्यातो भविष्यामि कुमारिके ॥१७२॥
कर्ता चापि तथोद्धर्ता द्वौ वै समफलौ स्मृतौ ॥
कुमारेशः कुमारीश इति वक्ष्यंति मां ततः ॥१७३॥
बर्करेशे च ये दत्त वरा दत्ताः सदैव ते ॥
तवापि प्राप्तः कालश्च समीपे वरवर्णिनि ॥१७४॥
अभर्तृकाया नार्याश्च न स्वर्गो मोक्ष एव च ॥
यथैव वृद्धकन्यायाः सरस्वत्यास्तटे शुभे ॥१७५॥
तस्मात्त्वमत्र तीर्थे च महाकालमिति स्मृतम् ॥
सिद्धिं गतं वृणु भद्रे पतित्वे वरवर्णिनि ॥१७६॥
ततः सा रुद्रवाक्येन वरयामास तं पतिम् ॥
रुद्रलोकं ययौ चापि महाकालसन्विता ॥१७७॥
तत्र तां पार्वती प्राह समालिंग्य प्रहर्षिता ॥
यस्मात्त्वया चित्रवच्च लिखिता पृथिवी शुभे ॥१७८॥
चित्रलेखेतिनाम्ना त्वं तस्माद्भव सखी मम ॥
ततः सखी समभवच्चित्रलेखेति सा शुभा ॥१७९॥
ययानिरुद्धः कथित उषायाः पतिरुत्तमः ॥
योगिनीनां वरिष्ठा या महाकालस्य वल्लभा ॥१८०॥
अप्सुसा वार्षिकं बिंदुं पूर्णे वर्षशते पपौ ॥
तपश्चरंती तस्मात्सा प्रोच्यते चाप्सरा दिवि ॥१८१॥
एवंविधा कुमारी सा लिंगमेतद्धि फाल्गुन ॥
स्थापयामास शिवदं बर्करेश्वरसंज्ञितम् ॥१८२॥
तस्मादत्र नृणां दाहश्चास्थिक्षेपश्च भारत ॥
प्रयागादधिकौ प्रोक्तौ महेशस्य वचो यथा ॥१८३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्करेश्वरमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP