कौमारिकाखण्डः - अध्यायः २०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ नारद उवाच ॥
तं दृष्ट्वा दानवाः सर्वे क्रुद्धाः स्वैःस्वैर्बलैर्वृताः ॥
सरघा इव माक्षिकं रुरुधुः सर्वतस्ततः ॥१॥
पर्वताभे गजे भीमे मदस्राविणि दुर्दमे ॥
सितचित्रपताके तु प्रभिन्नकरटामुखे ॥२॥
स्वर्णवर्णांचिते यद्वन्नगे दावाग्निसंवृते ॥
आरुह्यजौ निमिर्दैत्यो हरिं प्रत्युद्ययौ बली ॥३॥
तस्यासन्दानवा रौद्रा गजस्य परिरक्षिणः ॥
सप्तविंशतिकोट्यश्च किरीटकवचोज्जवलाः ॥४॥
अश्वमारुह्य शैलाभं हरिमाद्रवत् ॥
पंचयोजनप्रग्रीवमुष्ट्रमास्थाय जंभकः ॥५॥
शुम्भो मेषं समारुह्याव्रजद्द्वादशयोजनम् ॥
अपरे दानवेन्द्राश्च यत्ता नानास्त्रापाणयः ॥६॥
आजग्मुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम् ॥
परघेण निमिर्दैत्यो मथनो मुद्गरेण च ॥७॥
शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा ॥
चक्रेण क्रथनः क्रुद्धो जंभः शक्त्या महारणे ॥८॥
जघ्नुर्नारायणं शेषा विशिखैर्मर्मभेदिभिः ॥
तान्यस्त्राणि प्रयुक्तानि विविशुः पुरुषोत्तमम् ॥९॥
उपदेशा गुरोर्यद्वत्सच्छिष्यं बहुधेरिताः ॥
ततः क्रुद्धो हरिर्गृह्य धनुर्बाणांश्च पुष्कलान् ॥१०॥
ममर्द दैत्यसेनां तद्धर्ममर्थवचो यथा ॥
निमिं विव्याध विंशत्या वाणैरनलवर्चसैः ॥११॥
मथनं दशभिश्चैव शुम्भं पंचभिरेव च ॥
शतेन महिषं क्रुद्धो विव्याधोरसि माधवः ॥१२॥
जंभं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैक शोऽष्टभिः ॥
तस्य तल्लाघवं दृष्ट्वा दानवाः क्रोधमूर्छिताः ॥१३॥
चक्रुर्गाढतरं यत्नमावृण्वाना हरिं शरैः ॥
चिच्छेदाथ धनुर्ज्यां च निमिर्भल्लेन दानवः ॥१४॥
हस्ताच्चापं च संरंभाच्चिच्छेद महिषासुरः ॥
षीडयामासा गरुडं जंभो बाणायुतैस्त्रिभिः ॥१५॥।
भुजावस्य च विव्याध शंभो बाणायुतेन वै ॥
ततो विस्मितचित्तस्तु गदां जग्राह माधवः ॥१६॥
तां प्राहिणोत्स वेगेन मथनाय महाहवे ॥
तामाप्राप्तां निमिर्बाणैर्मुशलाभैः सहस्रशः ॥१७॥
आहत्य पातयामास विनदन्कालमेघवत् ॥
ततोंऽतरिक्षे हाहेति भूतानां जज्ञिरे कथाः ॥१८॥
नैतदस्ति बलं व्यक्तं यत्राशीर्यत सा गदा ॥
तां हरिः पतितां दृष्ट्वा अस्थाने प्रार्थनामिव ॥१९॥
जग्राह मुद्गरं घोरं दिव्यरत्नपरिष्कृतम् ॥
तं मुमोचातिवेगेन निमिमुद्दिश्य दानवम् ॥२०॥
तमायांतं वियत्येव त्रयो दैत्या ह्यवारयन् ॥
गदया दंभदैत्यस्तु ग्रसनः पट्टिशेन तु ॥२१॥
शक्त्या च महिषो दैत्यो विनदंतो महाररवम् ॥
निराकृतं तमालोक्य दुर्जनैः सुजनं यथा ॥२२॥
जग्राह शक्तिमुग्रोग्रां शतघंटामहास्वनाम् ॥
जंभाय तां समुद्दिश्य प्राहिणोद्भीषणेरणे ॥२३॥
तामायान्तीमथालोक्य जंभोऽन्यस्य रथात्त्वरात् ॥
आप्लुत्य लीलया गृह्णन्कामिनीं कामुको यथा ॥२४॥
तयैव गरुडं मूर्ध्नि जघ्ने स प्रहसन्बली ॥
ततो भूयो रथं प्राप्य घनुर्गृह्यभ्ययोजयत् ॥२५॥
विचेताश्चाभवद्युद्धे गरुडः शक्तिपीडितः ॥
ततः प्रहस्य तं विष्णुः साधुसाध्विति भारत ॥२६॥
करस्पर्शेन कृतवान्विमोहं विनतात्मजम् ॥
समाश्वास्य च तं वाग्भिः शक्तिं दृष्ट्वा च निष्फलाम् ॥२७॥
कुभार्यस्य यथा पुंसः सर्वंस्याच्चिंतितं वृथा ॥
दृठसारमहामौर्वीमन्यां संयोजयत्ततः ॥२८॥
कृत्वा च तलनिर्घोषं रौद्रमस्त्रं मुमोच सः ॥
ततोऽस्त्रतेजसा सर्वमाकाशं नैव दृश्यते ॥२९॥
भूमिर्दिशश्च विदिशो बामजालमया बुभुः ॥
दृष्ट्वा तदस्त्रमाहात्म्यं सेनानीर्ग्रसनोऽसुरः ॥३०॥
ब्राह्ममस्त्रं चकाराशु सर्वास्त्रविनिवारणम् ॥
तेन तत्प्रशमं यातं रौद्रास्त्रं लोकभीषणम् ॥३१॥
अस्त्रे प्रतिहते तस्मिन्विष्णुर्दानवसूदनः ॥
कालदंडास्त्रमकरोत्सर्वलोकभयंकरम् ॥३२॥
संधीयमानेस्त्रे तस्मिन्मारुतः परुषो ववौ ॥
चकंपे च मही देवी भिन्नाश्चांबुधयोऽभवन् ॥३३॥
तदस्त्रमुग्रं दृष्ट्वा तु दानवा युद्धदुर्मदाः ॥
चक्रुरस्त्राणि दिव्यानि नानारूपाणि संयुगे ॥३४॥
नारायणांस्त्रं ग्रसनस्तु चक्रे त्वाष्ट्रं निमिश्चास्त्रवरं मुमोच ॥
ऐषीकमस्त्रं च चकार जंभो युद्धस्य दण्डास्त्र निवारणाय ॥३५॥
यावच्च संधानवशं प्रयांति नारायणादीनि निवारणाय ॥
तावत्क्षणेनैव जघान कोटींदैत्येश्वराणां किल कालदंडः ॥३६॥
अनंतरं शांतभयं तदस्त्रं दैत्यास्त्रयोगेन च कालदण्डम् ॥
शांतं तदालोक्य हरिः स्वमस्त्रं कोपेन कालानलतुल्यमूर्तिः ॥३७॥
जग्राह चक्रं तपना युतप्रभमुग्रारमात्मानमिव द्वितीयम् ॥
चिक्षेप सेनापतये ज्वलंतं चतुर्भूजः संयति संप्रगृह्य ॥३८॥
तदाव्रजच्चक्रमथो विलोक्य सर्वात्मना दैत्यवराः स्ववीर्यात् ॥
नाशक्नुन्वारयितुं प्रचंडं दैवं यथा पूर्वमिवोपपन्नम् ॥३९॥
तदप्रतर्क्यं नवहेतितुल्यं चक्रं पपात ग्रसनस्य कण्ठे ॥
तद्रक्तधारा रुणघोरनाभि जगाम भूयोपि करं मुरारेः ॥४०॥
चक्राहतः संयति दानवश्च पपात भूमौ प्रममार चापि ॥
दैत्याश्च शेषा भृशशौकमापुः क्रोधं च केचित्पिपिषुर्भुजांश्च ॥४१॥
ततो विनिहते दैत्ये ग्रसने बलनायके ॥
निर्मर्यादमयुध्यंत हरिणा सह दानवाः ॥४२॥
पट्टिशैर्मुशलैः प्रासैग्नि दाभिः कणपैरपि ॥
तीक्ष्णाननैश्च नाराचैश्चक्रैः शक्तिभिरेव च ॥४३॥
तदस्त्रजालं तैर्मुक्तं लब्धलक्षो जनार्दनः ॥
एकैकं शतधा चक्रे बाणैरग्नि शिखोपमैः ॥४४॥
जघान तेषां संक्रुद्धः कोटिकोटिं जनार्दनः ॥
ततस्ते सहसा भूत्वा न्यपतन्केशवोपरि ॥४५॥
गरुडं जगृहुः केचित्पादयोः शतशोऽसुराः ॥
ललंबिरे च पक्षाभ्यां मुखे चान्ये ललंबिरे ॥४६॥
केशवस्यापि धनुषि भुजयोः शीर्ष एव च ॥
ललंबिरे महादैत्या निनदंतो मुहुर्मुहुः ॥४७॥
तदद्भुतं महद्दृष्ट्वा सिद्धचारणवार्तिकाः ॥
हाहेति मुमुचुर्नादसंबरे चास्तुवन्हरिम् ॥४८॥
ततो हरिर्विनिर्धूय पातयामास तान्भुवि ॥
यथा प्रबुद्धः पुरुषो दोषान्संसारसंभवान् ॥४९॥
विकोशं च ततः नंदकं खड्गमुत्तमम् ॥
चर्म चाप्यमलं विष्णुः पदातिस्तानधावत ॥५०॥
ततो मुहूर्तमात्रेण पद्मानि दश केशवः ॥
चकर्त्त मार्गे बहुभिर्विचरन्दैत्यसत्तमान् ॥५१॥
ततो निमिप्रभृतयो विनद्यासुरसत्तमाः ॥
अधावंत महेष्वासाः केशवं पादचारिणम् ॥५२॥
गरुत्मांश्चाभ्ययात्तूर्णमारुरोह च तं हरिः ॥
उवाच च गरुत्मंतं तस्मिंश्च तुमुले रणे ॥५३॥९
अश्रांतो यदि तार्क्ष्यासि मथनं प्रति तद्व्रज ॥
श्रांतश्चेच्च मुहूर्तं त्वं रणादपसृतो भव ॥५४॥
॥तार्क्ष्य उवाच ॥
न मे श्रमोऽस्ति लोकेश किंचित्संस्मरतश्च मे ॥
यन्मे सुतान्वाहनत्वे कल्पयामास तारकः ॥५५॥
इति ब्रवन्रणे दैत्यं मथनं प्रति सोऽगमत् ॥
दैत्यस्तवभिमुखं दृष्ट्वा शंखचक्रगदाधरम् ॥५६॥
जघान भिंडिपालेन शितधारेण वक्षसि ॥
तं प्रहारमचिंत्यैव विष्णुस्तस्मिन्महाहवे ॥५७॥
जघान पंचभिर्बाणैर्गिरींद्रस्यापि भेदकैः ॥
आकर्णकृष्टैर्दशभिः पुनर्विद्धः स्तनांतरे ॥५८॥
विचेतनो मुहूर्तात्स संस्तभ्य मथनः पुनः ॥
गृहीत्वा परिघं मूर्ध्नि जनार्दनमताडयत् ॥५९॥
विष्णुस्तेन प्रहारेण किंचिदाघूर्णितोऽभवत् ॥
ततः कोपविवृत्ताक्षो गदां जग्राह माधवः ॥६०॥
तया संताडयामास मथनं हृदये दृढम् ॥
स पपात तथा भूमौ चूर्णितांगो ममार च ॥६१॥
तस्मिन्निपतिते भूमौ मथने मथिते भृशम् ॥
अवसादं युयुर्दैत्याः सर्वे ते युद्धमण्डले ॥६२॥
ततस्तेषु विषण्णेषु दानवेष्वतिमानिषु ॥
चुकोप रक्तनयनो महिषो दानवेश्वरः ॥६३॥
प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमाश्रितः ॥
रीक्ष्णधारेण शूलेन महिषो हरिमर्दयन् ॥६४॥
शक्त्या च गरुडं वीरो हृदयेऽभ्यहनद्दृढम् ॥
ततो विवृत्य वदनं महामलगुहानिभम् ॥६५॥
ग्रस्तुमैच्छद्रणे दैत्यः सगरुत्मंतमच्युतम् ॥
अथाच्युतोऽपि विज्ञाय दानवस्य चिकीर्षितम् ॥६६॥
वदनं पूरयामास दिव्यैस्त्रैर्महाबलः ॥
स तैर्बाणैरभिहतो महिषोऽचलसंनिभः ॥६७॥
परिवर्तितकायार्धः पपाताथ ममार च ॥
महिषं पतितं दृष्ट्वा जीवयित्वा पुनर्हरिः ॥६८॥
महिषं प्राह मत्तस्त्वं वधं नार्हसि दानव ॥
योषिद्वध्यः पुरोक्तस्त्वं साक्षात्कमलयोनिना ॥६९॥
उत्तिष्ठ गच्छ मन्मुक्तो द्रुतमस्मान्महारणात् ॥
इत्युक्तो हरिणा तस्माद्देशादपगतोऽसुरः ॥७०॥
तस्मिन्पराङ्मुखे दैत्ये महिषे शुंभदानवः ॥
संदष्टौष्ठपुटाटोपो भृकुटीकुटिलाननः ॥७१॥
निर्मध्य पाणिना पाणिं धनुरादाय भैरवम् ॥
सज्जीकृत्य महाघोरान्मुमोच शतशः शरान् ॥७२॥
स चित्रयोधी दृढमुष्टिपातस्ततश्व विष्णुं च दैत्यः ॥
बाणैर्ज्वलद्वह्निशिखानिकाशैः क्षिप्तैरसंख्यैः प्रतिघाहीनैः ॥७३॥
विष्णुश्च दैत्येंद्रशरार्दितो भृशं भुशुंडिमादाय कृतांततुल्याम् ॥
तया मुखं चास्य पिपेष संख्ये शुंभस्य जत्रुं च धराधराभम् ॥७४॥
ततस्त्रिभिः शंभुभुजं द्विषष्ट्या सूतस्य शीर्षं दशक्षिश्च केतुम् ॥
विष्णुर्विकृष्टैः श्रवणावसानं दैत्यस्य बाणैर्ज्वलनार्कवर्णैः ॥७५॥
स तैश्च विद्धो व्यथितो बभूव दैत्येश्वरो विस्रुतशोणिताक्तः ॥
ततोऽस्य किंचिच्चलितस्य धैर्यादुवाच शंखांबुजसार्ङ्गपाणिः ॥७६॥
योषित्सुवध्योऽसि रणं विभुंच शुंभाऽशुभ स्वल्पतरैरहोभिः ॥
मत्तोर्हसि त्वं न वृथैव मूढ ततोऽपयातः स च शंभदानवः ॥७७॥
जम्भोऽथ तद्विष्णुमुखान्निशम्य जगर्ज चोच्चैः कृतसिंहनादः ॥
प्रोवाच वाक्यं च सलीलमाजौ महाट्टहासेन जगद्विकंप्य ॥७८॥
किमेभिस्ते जलावास दैत्यैर्हीनपराक्रमैः ॥
मामासादय युद्धेऽस्मिन्यदि ते पौरुषं क्वचित् ॥७९॥
यत्ते पूर्वं हता दैत्या हिरण्याक्षमुखाः किल ॥
जंभस्तदाभवन्नैव पश्य मामद्य संस्थितम् ॥८०॥
पश्य तालप्रती काशौ भुजावेतौ हरे मम ॥
वक्षो वा वज्रकठिनं मयि प्रहर तत्सुखम् ॥८१॥
इत्युक्तः केशवस्तेन सृक्किणी संलिहन्रुषा ॥
मुमोच परिघंघोरं विरीणामपि दारणम् ॥८२॥
ततस्तस्याप्यनुपदं कालायसमयं दृढम् ॥
मुमोच मुद्गरं विष्णुर्द्वितीयं पर्वतं यथा ॥८३॥
तदायुधद्वयं दृष्ट्वा जंभो न्यस्य रथे धनुः ॥
आप्लुत्य परिघं गृह्य गरुडं तेन जघ्निवान् ॥८४॥
द्वितीयं मुद्गरं चानु गृहीत्वा विनदन्रणे ॥
सर्वप्राणेन गोविंदं तेन मूर्ध्नि जघान सः ॥८५॥
ताभ्यां चातिप्रहाराभ्यामुभौ गरुडकेशवौ ॥
मोहाविष्टौ विचेतस्कौ मृतकल्पाविवासताम् ॥८६॥
तदद्भुतं महद्दृष्ट्वा जगर्जुर्दैत्यसत्तमाः ॥
नैतान्हर्षमदोद्धूतानिदं सेहे जगत्तदा ॥८७॥
सिंहनादैस्तलोन्नाहैर्धनुर्नादैश्च बाणजैः ॥
जंभं ते हर्षयामासुर्वासांस्यादुधुवुश्च ते ॥८८॥
शंखांश्च पूरयामासुश्चिक्षिपुर्देवता भृशम् ॥८९॥
संज्ञामवाप्याथ महारणे हरिः सवैनतेयः परिरभ्य जंभम् ॥
पराङ्मुखः संयुगादप्रधृष्यात्पलायनं वेगपरश्चकार ॥९०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे दैत्यैः सह विष्णोर्युद्धवर्णनंनाम विंशोऽध्यायः ॥२०॥
N/A
References : N/A
Last Updated : July 23, 2024
TOP