संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः २९

कौमारिकाखण्डः - अध्यायः २९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
व्रजंती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम् ॥
कुसुमामोदिनींनाम तस्य शैलस्य देवताम् ॥१॥

सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा ॥
क्वपुनर्गच्छसीत्युच्चैरालिंग्योवाच देवता ॥२॥

सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम् ॥
पुनश्चोवाच गिरिजा देवतां मातृसंमताम् ॥३॥

नित्यं शैलाधिराजस्य देवता त्वमनिंदिते ॥
सर्वं च सन्निधानं च मयि चातीव वत्सला ॥४॥

तदहं संप्रवक्ष्यामि यद्विधेयं तवाधुना ॥
अथान्य स्त्रीप्रवेशे तु समीपे तु पिनाकिनः ॥५॥

त्वयाख्येयं मम शुभे युक्तं पश्चात्करोम्यहम् ॥
तथेत्युक्ते तया देव्या ययौ देवी गिरिं प्रति ॥६॥

रम्ये तत्र महाशृंगे नानाश्चर्योपशोभिते ॥
विभूषणादि संन्यस्य वृक्षवल्कलधारिणी ॥७॥

तपस्तेपे गिरिसुता पुत्रेण परिपालिता ॥
ग्रीष्मे पंचाग्निसंतप्ता वर्षासु च जलोषिता ॥८॥

स्थंडिलस्था च हेमंते निराहारा तताप सा ॥
एतस्मिन्नंतरे दैत्यो ह्यंधकस्य सुतो बली ॥९॥

ज्ञात्वा गतां गिरिसुतां पितुर्वैरमनुस्मरन् ॥
आडिर्नाम बकभ्राता रहस्यांतरप्रेक्षकः ॥१०॥

जिते किलांधके दैत्ये गिरिशेनामरद्विषि ॥
आडिश्चकार विपुलं तपो हरजिगीषया ॥११॥

तमागत्याब्रवीद्ब्रह्मा तपसा परितोषितः ॥
ब्रूहि किं वासुरश्रेष्ठ तपसा प्राप्तुमिच्छसि ॥१२॥

ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे ॥
॥ ब्रह्मोवाच ॥
न कश्चिच्च विना मृत्युं जंतुरासुर विद्यते ॥१३॥

यतस्ततोऽपि दैत्येंद्र मृत्युः प्राप्यः शरीरिणा ॥
इत्युक्तस्तं तथेत्याह तुष्टः कमलसंभवम् ॥१४॥

रूपस्य परिवर्तो मे यदा स्यात्पद्मसंभव ॥
तदा मृत्युर्मम भवेदन्यथा त्वमरो ह्यहम् ॥१५॥

इत्युक्तस्तं तथेत्याह तुष्टः कमलसंभवः ॥
इत्युक्तोऽमरतां मेने दैत्यराज्यस्थितोऽसुरः ॥१६॥

आजगाम स च स्थानं तदा त्रिपुरघातिनः ॥
आगतो ददृशे तं च वीरकं द्वार्यवस्थितम् ॥१७॥

तं चासौ वंचयित्वा च आडिः सर्पशरीरभृत् ॥
अवारितो वीरकेण प्रविवेश हरांतिकम् ॥१८॥

भुजंगरूपं संत्यज्य बभूवाथ महासुरः ॥
उमारूपी छलयितुं गिरिशं मूढचेतनः ॥१९॥

कृत्वोमायास्ततो रूपमप्रतर्क्यमनोहरम् ॥
सर्वावयवसंपूर्णं सर्वाभिज्ञानसंवृतम् ॥२०॥

चक्रे भगांतरे दैत्यो दंतान्वज्रोपमान्दृढान् ॥
तीक्ष्णाग्रान्बुद्धिमोहेन गिरिशं हंतुमुद्यतः ॥२१॥

कृत्वोमारूपमेवं स स्थितो दैत्यो हरांतिके ॥
तां दृष्ट्वा गिरिशस्तुषुटः समालिंग्य महासुरम् ॥२२॥

मन्यमानो गिरिसुतां सर्वै रवयवांतरैः ॥
अपृच्छत्साधु ते भावो गिरिपुत्री ह्यकृत्रिमा ॥२३॥

या त्वं मदशयं ज्ञात्वा प्राप्तेह वरवर्णिनि ॥
त्वया विरहितः शून्यं मन्योस्मिन्भुवनत्रये ॥२४॥

प्राप्ता प्रसन्ना या त्वं मां युक्तमेवंविधं त्वयि ॥
इत्युक्ते गूहयंश्चेष्टामुमारूप्यसुरोऽब्रवीत् ॥२५॥

यातास्मि तपसश्चर्तुं कालीवाक्यात्तवातुलम् ॥
रतिश्च तत्र मे नाभूत्ततः प्राप्ता तवांतिकम् ॥२६॥

इत्युक्तः शंकरः शंकां किंचित्प्राप्यवधारयत् ॥
कुपिता मयि तन्वंगी प्रत्यक्षा च दृढव्रता ॥२७॥

अप्राप्तकामा संप्राप्ता किमेतत्संशयो मम ॥
रहसीति विचिंत्याथ अभिज्ञानाद्विचारयन् ॥२८॥

नापश्यद्वामपार्श्वे तु तस्यांकं पद्मलक्षणम् ॥
लोम्नामावर्तचरितं ततो देवः पिनाकधृक् ॥२९॥

बुद्धा तां दानवीं मायां किंचित्प्रहसिताननः ॥
मेढ्रे रौद्रास्त्रमाधाय चक्रे दैत्यमनोरथम् ॥३०॥

स रुदन्भैरवाज्रावानवसादं गतोऽसुरः ॥
अबुध्यद्वीरको नैतदसुरेंद्रनिषूदनम् ॥३१॥

हते च मारुतेनाशुगामिना नगदेवता ॥
अपरिच्छिन्नतत्त्वार्था शैलपुत्र्यां न्यवेदयत् ॥३२॥

श्रुत्वा वायुमुखाद्देवी क्रोधरक्तातिलोचना ॥
अपस्यद्वीरकं पुत्रं हृदयेन विदूयता ॥३३॥

मातरं मां परित्यज्य यस्मात्त्वं स्नेहविह्वलाम् ॥
विहितावसरः स्त्रीणां शंकरस्य रहोविधौ ॥३४॥

तस्मात्ते परुषा रूक्षा जडा हृदय वर्जिता ॥
गणेशाक्षरसदृशा शिला माता भविष्यति ॥३५॥

एवमुत्सृष्टशापाया गिरिपुत्र्यास्त्वनंतरम् ॥
निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः ॥३६॥

पश्चात्तापं समश्रित्य तया देव्या विसर्जितः ॥
स तु सिंहः करालास्यो महाकेसरकंधरः ॥३७॥

प्रोद्धूतबललांगूलदंष्ट्रोत्कट गुहामुखः ॥
व्यावृतास्यो ललज्जिह्वः क्षामकुक्षिश्चिखादिषुः ॥३८॥

तस्यास्ये वर्तितुं देवी व्यवस्यत सती तदा ॥
ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः ॥३९॥

आजगामाश्रमपंद संपदामाश्रयं ततः ॥
आगम्योवाच तां ब्रह्मा गिरिजां मृष्टया गिरा ॥४०॥

किं देवी प्राप्तुकामासि किमलभ्यं ददामि ते ॥
तच्छ्रुत्वोवाच गिरिजा गुरुगौरवगर्भितम् ॥४१॥

तपसा दुष्करेणाप्तः पतित्वे शंकरो मया ॥
स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः ॥४२॥

स्यामहं कांचनाकारा वाल्लभ्येन च संयुता ॥
भर्तुर्भूतपतेरंगे ह्येकतो निर्विशंकिता ॥४३॥

तस्यास्तद्भाषितं श्रुत्वा प्रोवाच जलजासनः ॥
एवं भवतु भूयस्त्वं भर्तुर्देहार्धधारिणी ॥४४॥

ततस्तस्याः शरीरात्तु स्त्री सुनीलांबुजत्विषा ॥
निर्गता साभवद्भीमा घंटाहस्ता त्रिलोचना ॥४५॥

नानाभरणपूर्णांगी पीतकौशेयवासिनी ॥
तामब्रवीत्ततो ब्रह्मा देवीं नीलांबुजत्विषम् ॥४६॥

अस्माद्भूधरजा रदेहसंपर्कात्त्वं ममाज्ञया ॥
संप्राप्ता कृतकृत्यत्वमेकानंशा पुराकृतिः ॥४७॥

य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने ॥
स तेस्तु वाहनो देवी केतौ चास्तु महाबलः ॥४८॥

गच्छ विंध्याचले तत्र सुरकार्यं करिष्यति ॥
अत्र शुंभनिशुंभौ च हत्वा तारकसैन्यपौ ॥४९॥

पांचालोनाम यक्षोऽयं यक्षलक्षपदानुगः ॥
दत्तस्ते किंकरो देवी महामायाशतैर्युतः ॥५०॥

इत्युक्ता कौशिकी देवी ततेत्याह पितामहम् ॥
निर्गतायां च कौशिक्यां जाता स्वैराश्रिता गुणैः ॥५१॥

सर्वैः पूर्वभवोपात्तैस्तदा स्वयमुपस्तितैः ॥
उमापि प्राप्तसंकल्पा पश्चात्तापपरायणा ॥५२॥

मुहुः स्वं परिनिंदंती जगाम गिरिशांतिकम् ॥
संप्रयांतीं च तां द्वारी अपवार्य समाहितः ॥५३॥

रुरोध वीरको देवीं हेमवेत्रलताधरः ॥
तामुवाच च कोपेन तिष्ठ तिष्ठ क्व यासि च ॥५४॥

प्रयोजनं न तेऽस्तीह गच्छ यावन्न भर्त्स्यसे ॥
देव्या रूपधरो दैत्यो देवं वंचयितुं त्विह ॥५५॥

प्रविष्टो न च दृष्टोऽसौ स च देवेन घातितः ॥
घातिते चाहमाक्षिप्तो नीलकण्ठेन धीमता ॥५६॥

कापि स्त्री नापि मोक्तव्या त्वया पुत्रेति सादरम् ॥
तस्मात्त्वमत्र द्वारिस्था वर्षपूगान्यनेकशः ॥५७॥

भविष्यसि न चाप्यत्र प्रवेशं लप्स्यसे व्रज ॥
एका मे प्रविशेदत्र माता या स्नेहवत्सला ॥५८॥

नगाधिराजतनया पार्वती रुद्रवल्लभा ॥
इत्युक्ता तु ततो देवी चिंतयामास चेतसा ॥५९॥

न सा नारी तु दैत्योऽसौ वायोर्नैवावबासत ॥
वृथैव वीरकः शप्तो मया क्रोधपरीतया ॥६०॥

अकार्यं क्रियते मूढैः प्रायः क्रोधसमन्वितैः ॥
क्रोधेन नश्यते कीर्तिः क्रोधो हंति स्थिरां श्रियम् ॥६१॥

अपरिच्छिन्नसर्वार्था पुत्रं शापितवत्यहम् ॥
विपरीतार्थबोद्धॄणां सुलभा विपदो यतः ॥६२॥

संचिंत्यैवमुवाचेदं वीरकं प्रति शैलजा ॥
अधो लज्जाविकारेण वदनेनांबुजत्विषा ॥६३॥

अहं वीरक ते माता मा तेऽस्तु मनसो भ्रमः ॥
शंकरस्यास्मि दयिता सुता तु हिमभूभृतः ॥६४॥

मम गात्रस्थितिभ्रांत्या मा शंकां पुत्र भावय ॥
तुष्टेन गौरता दत्ता ममेयं पद्मयोनिना ॥६५॥

मया शप्तोऽस्यविदिते वृत्तांते दैत्यनिर्मिते ॥
ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्तिते ॥६६॥

न निवर्तयितुं शक्यः शापः किं तु ब्रवीमि ते ॥
मानुष्यां तु शिलायां त्वं शिलादात्संभविष्यसि ॥६७॥

पुण्ये चाप्यर्बुदारण्ये स्वर्गमोक्षप्रदे नृणाम् ॥
अचलेश्वरलिंगं तु वर्तते यत्र वीरक ॥६८॥

वाराणस्यां विश्वनाथसमं तत्फलदं नृणाम् ॥
प्रभासस्य च यात्राभिर्दशभिर्यत्फलं नृणाम् ॥६९॥

तदेकयात्रया प्रोक्तमर्बुदस्य महागिरेः ॥
यत्र तप्त्वा तपो मर्त्या देहधातून्विहाय च ॥७०॥

संसारी न पुनर्भूयान्महेश्वरवचो यथा ॥
अर्बुदो यदि लभ्येत सेवितुं जन्मदुःखितैः ॥७१॥

वाराणसीं च केदारं किं स्मरंति वृथैव ते ॥
तत्राराध्य भवं देवं भवान्नन्दीति नामभृत् ॥७२॥

शीघ्रमेष्यसि चात्रैव प्रतीहारत्वमाप्स्यसि ॥
एवमुक्ते हृष्टरोमा वीरकः प्रणिपत्य ताम् ॥७३॥

संस्तूय विविधैर्वाक्यैर्मातरं समभाषत ॥
धन्योऽहं देवि यो लप्स्ये मानुष्यमतिदुर्लभम् ॥७४॥

शापोऽनुग्रहरूपोऽयं विशेषादर्बुदाचले ॥
समीपे यस्य पुण्योऽस्ति महीसागरसंगमः ॥७५॥

ऊधः पृथिव्या देशोऽयं यो गिरेश्चार्णवांतरे ॥
तत्र गत्वा महत्पुण्यमवाप्य भवभक्तितः ॥७६॥

पुनरेष्यामि भो मातरित्युक्त्वाभूच्छिलासुतः ॥
देवी च प्रविवेशाथ भवनं शशिमौलिनः ॥७७॥

 ॥इत्यार्बुदाख्यानम् ॥
ततो दृष्ट्वा च तां प्राह धिग्नार्य इति त्र्यंबकः ॥७८॥

सा च प्रण्म्य तं प्राह सत्यमेतन्न मिथ्यया ॥
जडः प्रकृतिभागोयं नार्यश्चार्हंति निन्दनाम् ॥७९॥

पुरुषाणां प्रसादेन मुच्यंते भवसागरात् ॥
ततः प्रहृष्टस्तामाह हरो योग्याऽधुना शुभे ॥८०॥

पुत्रं दास्यामि येन त्वं ख्यातिमाप्स्यसि शोभने ॥
ततो रेम हि देव्या स नानाश्चर्यालयो हरः ॥८१॥

ततो वर्षसहस्रेषु देवास्त्वरितमानसाः ॥
ज्वलनं नोदयामासुर्ज्ञातुं शंकरचेष्टितम् ॥८२॥

द्वारि स्थितं प्रतिहारं वंचयित्वा च पावकः ॥
पारावतस्य रूपेण प्रविवेश हरांतिकम् ॥८३॥

ददृशे तं च देवेशो विनतां प्रेक्ष्य पार्वतीम् ॥
ततस्तां ज्वलनं प्राह नैतद्योग्यं त्वया कृतम् ॥८४॥

यदिदं भुक्षुतं स्थानान्मम तेजो ह्यनुत्तमम् ॥
गृहाण त्वं सुदुर्बुद्धे नो वा धक्ष्यामि त्वां रुषा ॥८५॥

भीतस्ततोऽसौ जग्राह सर्वदेवमुखं च सः ॥
तेन ते वह्निसहिता विह्वलाश्च सुराः कृताः ॥८६॥

विपाट्य जठराण्येषां वीर्यं माहेश्वरं ततः ॥
निष्क्रांतं तत्सरो जातं पारदं शतयोजनम् ॥८७॥

वह्निश्च व्याकुलीभूतो गंगायां मुमुचे सकृत् ॥
दह्यमाना च सा देवी तरंगैर्वहिरुत्सृजत् ॥८८॥

जातस्त्रिभुवनक्यातस्तेन च श्वेतपर्वतः ॥
एतस्मिन्नंतरे वह्निराहूतश्च हिमालये ॥८९॥

सप्तर्षिभिर्वह्निहोमं कुर्वद्भिर्मंत्रवीर्यतः ॥
आगत्य तत्र जग्राह वह्निर्भागं च तं हुतम् ॥९०॥

गतेऽह्न्यत्वस्मिंश्च तत्रस्थः पत्नी स्तेषामपश्यत ॥
सुवर्णकदलीस्तंभनिभास्ताश्चंद्रलेखया ॥९१॥

पश्यमानः प्रफुल्लाक्षो वह्निः कामवशं गतः ॥
स भूयश्चिंतयामास न न्याय्यं क्षुभितोऽस्मि यत् ॥९२॥

साध्वीः पत्नीर्द्विजेंद्राणामकामाः कामयाम्यहम् ॥
पापमेतत्कर्म चोग्रं नश्यामि तृमवत्स्फुटम् ॥९३॥

कृत्वैतन्नश्यते कीर्तिर्यावदाचंद्रतारकम् ॥
एवं संचिंत्य बहुधा गत्वा चैव वनांतरम् ॥९४॥

संयन्तुं नाभवच्छक्त उपायैर्बहुभिर्मनः ॥
ततः स कामसंतप्तो मूर्छितः समपद्यत ॥९५॥

ततः स्वाहा च भार्यास्य बुबुधे तद्विचेष्टितम् ॥
ज्ञात्वा च चिंतयामास प्रहृष्टा मनसि स्वयम् ॥९६॥

स्वां भार्यामथ मां त्यक्त्वा बहुवासादवज्ञया ॥
भार्याः कामयते नूनं सप्तर्षीणां महात्मनाम् ॥९७॥

तदासां रूपमाश्रित्य रमिष्ये तेन चाप्यहम् ॥
ततस्त्वंगिरसो भार्या शिवानामेति शोभना ॥९८॥

तस्या रूपं समाधाय पावकं प्राप्य साब्रवीत् ॥
मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि ॥९९॥

न चेत्करिष्यसे देव मृतां मामुपधारय ॥
अहमंगिरसो भार्या शिवानाम हुताशन ॥१००॥

सर्वाभिः सहिता प्राप्ता ताश्च यास्यंत्यनुक्रमात् ॥
अस्माकं त्वं प्रियो नित्यं त्वच्चित्ताश्च वयं तथा ॥१०१॥

ततः स कामसंतप्तः संबभूव तया सह ॥
प्रीते प्रीता च सा देवी निर्जगाम वनांतरात् ॥१०२॥

चिंतयंती ममेदं चेद्रूपं द्रक्ष्यंति कानने ॥
ते ब्राह्मणीनामनृतं दोषं वक्ष्यंति पावकात् ॥१०३॥

तस्मादेतद्रक्षमाणा गरुडी संभवाम्यहम् ॥
सुपर्णा सा ततो भूत्वा ददृशे श्वेतपर्वतम् ॥१०४॥

शरस्तंबैः सुसंपृक्तं रक्षोभिश्च पिशाचकैः ॥
सा तत्र सहसा गत्वा शैलपूष्ठं सुदुर्गमम् ॥१०५॥

प्राक्षिपत्कांचने कुंडे शुक्रं तद्धारणेऽक्षमा ॥
शिष्टानामपि देवीनां सप्तर्षीणां महात्मनाम् ॥१०६॥

पत्नीसरूपतां कृत्वा कामयामास पावकम् ॥
दिव्यं रूपमरूंधत्याः कर्तुं न शकितं तया ॥१०७॥

तस्यास्तपःप्रभावेण भर्तुः शुश्रूषणेन च ॥
षट्कृत्वस्तत्तु निक्षिप्तमग्निरेतः कुरुद्वह ॥१०८॥

कुंडेऽस्मिंश्चैत्रबहुले प्रतिपद्येव स्वाहया ॥
ततश्च पावको दुःखाच्छुशोच च मुमोह च ॥१०९॥

आः पापं कृतमित्येव देहन्यासेऽकरोन्मतिम् ॥
ततस्तं खेचरी वाणी प्राह मा मरणं कुरु ॥११०॥

भाव्यमेतच्च भाव्यर्थात्को हि पावक मुच्यते ॥
भाव्यर्थेनापि यत्ते च परदारोप सेवनम् ॥१११॥

कृतं तच्चेतसा तेन त्वामजीर्णं प्रवेक्ष्यति ॥
श्वेतकेतोर्महायज्ञे घृतधाराभितर्पितम् ॥११२॥

शोकं च त्यज नैतास्ताः स्वाहै वेयं तव प्रिया ॥
श्वेतपर्वतकुंडस्थं पुत्रं त्वं द्रष्टुमर्हसि ॥
ततो वह्निस्तत्र गत्वा ददृशे तनयं प्रभुम् ॥११३॥

 ॥अर्जुन उवाच ॥
कस्मात्स्वाहा करोद्रूपं षण्णां तासां महामुने ॥११४॥

यत्ता भर्तृपराः साध्व्यस्तपस्विन्योग्निसंनिभाः ॥
न बिभेति च किं ताभ्यः षड्भ्यः स्वाहाऽपराधिनी ॥
भर्तृभक्त्या जगद्दग्धुं यतः शक्ताश्च ता मुने ॥११५॥

॥ नारद उवाच ॥
सत्यमेतत्कुरुश्रेष्ठ श्रृणु तच्चापि कारणम् ॥
येन तासां कृतं रूपं न वा शापं ददुश्च ताः ॥११६॥

यत्र तद्वह्निना क्षिप्तं रुद्रतेजः सकृत्पुरा ॥
गंगायां तत्र सस्नुस्ताः षटत्न्योऽज्ञनाभावतः ॥११७॥

ततस्ता विह्वलीभूतास्तेजसा तेन मोहिताः ॥
लज्जया च स्वभर्तॄणां गंगातीरस्थिता रहः ॥११८॥

एतदंतमालोक्य चिकीर्षंती मनीषितम् ॥
स्वाहा शरीरमाविश्यतासां तेजो जहार तत् ॥११९॥

चिक्रीड वह्निजायापि यथा ते कथितं मया ॥१२०॥

उपकारमिमं ताभिः स्मरंतीभिश्च भारत ॥
न शप्ता सा यतः शापो न देयश्चोपकारिणि ॥१२१॥

ततः सप्तर्षयो ज्ञात्वा ज्ञानेनासुचितां गताः ॥
तत्यजुः षट् तदा पत्नीर्विना देवीमरुंधतीम् ॥१२२॥

विश्वामित्रस्तु भगवान्कुमारं शरणं गतः ॥
स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः ॥१२३॥

अष्टोत्तरशतं नाम्नां श्रृणु त्वं तानि फाल्गुन ॥
जपेन येषां पापानि यांति ज्ञानमवाप्नुयात् ॥१२४॥

त्वं ब्रह्मवादी त्वं ब्रह्मा ब्राह्मणवत्सलः ॥
ब्रह्मण्यो ब्रह्मदेवश्च ब्रह्मदो ब्रह्मसंग्रहः ॥१२५॥

त्वं परं परमं तेजो मंगलानां च मंगलम् ॥
अप्रमेयगुणश्चैव मंत्राणां मंत्रगो भवान् ॥१२६॥

त्वं सावित्रीमयो देव सर्वत्रैवापराजितः ॥
मंत्र शर्वात्मको देवः षडक्षरवतां वरः ॥१२७॥

माली मौली पताकी च जटी मुंडी शिखंड्यपि ॥
कुण्डली लांगली बालः कुमारः प्रवरो वरः ॥१२८॥

गवांपुत्रः सुरारिघ्नः संभवो भवभावनः ॥
पिनाकी शत्रुहा श्वेतो गूढः स्कन्दः कराग्रणीः ॥१२९॥

द्वादशो भूर्भुवो भावी भुवः पुत्रो नमस्कृतः ॥
नागराजः सुधर्मात्मा नाकपृष्ठः सनातनः ॥१३०॥

त्वं भर्ता सर्वभूतात्मा त्वं त्राता त्वं सुखावहः ॥
शरदक्षः शिखी जेता षड्वक्त्रो भयनाशनः ॥१३१॥

हेमगर्भो महागर्भो जयश्च विजयेश्वरः ॥
त्वं कर्ता त्वं विधाता च नित्यो नित्यारिमर्दनः ॥१३२॥

महासेनो महातेज वीरसेनश्च भूपतिः ॥
सिद्धासनः सुराध्यक्षो भीमसेनो निरामयः ॥१३३॥

शौरिर्यदुर्महातेजा वीर्यवान्सत्यविक्रमः ॥
तेजोगर्भोऽसुररिपुः सुरमूर्तिः सुरोर्ज्जितः ॥१३४॥

कृतज्ञो वरदः सत्यः शरण्यः साधुवत्सलः ॥
सुव्रतः सूर्यसंकाशो वह्निगर्भः कणो भुवः ॥१३५॥

पिप्पली शीघ्रगो रौद्री गांगेयो रिपुदारणः ॥
कार्त्तिकेयः प्रभुः क्षंता नीलदंष्ट्रो महामनाः ॥१३६॥

निग्रहो निग्रहाणां च नेता त्वं सुरनंदनः ॥
प्रग्रहः परमानंदः क्रोधघ्नस्तार उच्छ्रितः ॥१३७॥

कुक्कुटी बहुली दिव्यः कामदो भूरिवर्धनः ॥
अमोघोऽमृतदो ह्यग्निः शत्रुघ्नः सर्वमोदनः ॥१३८॥

अव्ययो ह्यमरः श्रीमानुन्नतो ह्यग्निसंभवः ॥
पिशाचराजः सूर्याभः शिवात्मा शिवनंदनः ॥१३९॥

अपारपारो दुर्ज्ञेयः सर्वभूतहिते रतः ॥
अग्राह्यः कारणं कर्ता परमेष्ठी परं पदम् ॥१४०॥

अचिंत्यः सर्वभूतात्मा सर्वात्मा त्वं सनातनः ॥
एवं स सर्वभूतानां संस्तुतः परमेश्वरः ॥१४१॥

नाम्नामष्टशतेनायं विश्वामित्रमहर्षिणा ॥
प्रसन्नमूर्तिराहेदं मुनींद्रं व्रियतामिति ॥१४२॥

मम त्वया द्विजश्रेष्ठ स्तुतिरेषा निरूपिता ॥
भविष्यति मनोऽभीष्टप्राप्तये प्राणिनां भुवि ॥१४३॥

विवर्धते कुले लक्ष्मीस्तस्य यः प्रपठेदिमम् ॥
न राक्षसाः पिशाचा वा न भूतानि न चापदः ॥१४४॥

विघ्नकारीणि तद्गेहे यत्रैव संस्तुवंति माम् ॥
दुःस्वप्नं च न पश्येत्स बद्धो मुच्यते बंधनात् ॥१४५॥

स्तवस्यास्य प्रभावेण दिव्यभावः पुमान्भवेत् ॥
त्वं च मां श्रुतिसंस्कारैः सर्वैः संस्कर्तुमर्हसि ॥१४६॥

संस्काररहितं जन्म यतश्च पशुवत्स्मृतम् ॥
त्वं च मद्वरदानेन ब्रह्मर्षिश्च भविष्यसि ॥१४७॥

ततो मुनिस्तस्य चक्रे जातकर्मादिकाः क्रियाः ॥
पौरोहित्यं तथा भेजे स्कंदस्यैवाज्ञया प्रभुः ॥१४८॥

ततस्तं वह्निरभ्यागाद्ददर्श च सुतं गुहम् ॥
षट्छीर्षं द्विगुणश्रोत्रं द्वादशाक्षिभुजक्रमम् ॥१४९॥

एकग्रीवं चैककायं कुमारं स व्यलोकयत् ॥
कलिलं प्रथमे चाह्नि द्वितीये व्यक्तितां गतम् ॥१५०॥

दृतीयायां शिशुर्जातश्चतुर्थ्यां पूर्ण एवच ॥
पंचम्यां संस्कृतः सोऽभूत्पावकं चाप्यपश्यत ॥१५१॥

ततस्तं पावकः पार्थ आलिलिंग चुचुंब च ॥
पुत्रेति चोक्त्वा तस्मै स शक्त्यस्त्रम ददात्स्वयम् ॥१५२॥

स च शक्तिं समादाय नमस्कृत्य च पावकम् ॥
श्वेतश्रृंगं समारूढो मुखैः पश्यन्दिशो दश ॥१५३॥

व्यनदद्भैरवं नादं त्रास यन्सासुरं जगत् ॥
ततः श्वेतगिरेः श्रृंगं रक्षः पद्मदशावृतम् ॥१५४॥

बिभेद तरसा शक्त्या शतयोजनविस्तृतम् ॥
तदेकेन प्रहारेण खंडशः पतितं भुवि ॥१५५॥

चूर्णीकृता राक्षसास्ते सततं धर्मशत्रवः ॥
ततः प्रव्यथिता भूमिर्व्यशीर्यत समंततः ॥१५६॥

भीताश्च पर्वताः सर्वे चुक्रुशुः प्रलयाद्यथा ॥
भूतानि तत्र सुभृशं त्राहित्राहीति चोज्जगुः ॥१५७॥

एवं श्रुत्वा ततो देवा वासवं सह तेऽब्रुवन् ॥
येनैकेन प्रहारेण त्रैलोक्यं व्याकुली कृतम् ॥१५८॥

स संक्रुद्धः क्षणाद्विश्वं संहरिष्यति वासव ॥
वयं च पालनार्थाय सृष्टा देवेन वेधसा ॥१५९॥

तच्च त्राणं सदा कार्यं प्राणैः कंठगतैरपि ॥
अस्माकं पश्यतामेवं यदि संक्षोभ्यते जगत् ॥१६०॥

धिक्ततो जन्म वीराणां श्लाघ्यं हि मरणं क्षणात् ॥
तदस्माभिः सहैनं त्वं क्षतुमर्हसि वासव ॥१६१॥

एवमुक्तस्तथेत्युक्त्वा देवैः सार्धं तमभ्ययात् ॥
विधित्सुस्तस्य वीर्यं स शक्रस्तूर्णतरं तदा ॥१६२॥

उग्रं तच्च महावेगं देवानीकं दुरासदम् ॥
नर्दमानं गुहऋ प्रेक्ष्य ननाद जलधिर्यथा ॥१६३॥

तस्य नादेन महता समुद्धूतोदधिप्रभम् ॥
बभ्राम तत्रतत्रैव देव सैन्यमचेतनम् ॥१६४॥

जिघांसूनुपसंप्राप्तान्देवान्दृष्ट्वा स पावकिः ॥
विससर्ज्ज मुखात्तत्र प्रवृद्धाः पावकार्चिषः ॥१६५॥

अदहद्देवसैन्यानि चेष्ट मानानि भूतले ॥
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः ॥१६६॥

प्रच्युताः सहसा भांति दिवस्तारागणा इव ॥
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम् ॥१६७॥

देवा वज्रधरं प्रोचुस्त्यज वज्रं शतक्रतो ॥
उक्तो देवैस्तदा शक्रः स्कंदे वज्रवासृजत् ॥१६८॥

तद्विसृष्टं जघानाशु पार्श्व स्कंदस्य दक्षिणम् ॥
बिभेद च कुरुश्रेष्ठ तदा तस्य महात्मनः ॥१६९॥

वज्रप्रहारात्स्कंदस्य संजातः पुरुषोऽपरः ॥
युवा कांचनसन्नाहः शक्तिधृग्दिव्य कुंडलः ॥१७०॥

शाख इत्यभिविख्यातः सोपि व्यनददद्भुतम् ॥
ततश्चेंद्रः पुनः क्रुद्धो हृदि स्कंदं व्यदारयत् ॥१७१॥

तत्रापि तादृशो जज्ञे नैगमेय इति श्रुतः ॥
ततो विनद्य स्कंदाद्याश्चत्वारस्तं तदाभ्ययुः ॥१७२॥

तदेंद्रो वज्रमुत्सृज्य प्रांजलिः शरणं ययौ ॥
तस्याभयं ददौ स्कंदः सहसैन्यस्य सत्तमः ॥१७३॥

ततः प्रहृष्टास्त्रभिदशा वादित्राण्यभ्यवादयन् ॥
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः ॥१७४॥

या हरं ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः ॥
काकी च हिलिमा चैव रुद्रा च वृषभा तथा ॥१७५॥

आया पलाला मित्रा च सप्तैताः शिशुमातरः ॥
एतासांवीर्यसंपन्नः शिशुश्चाभूत्सुदारुणः ॥१७६॥

स्कंदप्रसादजः पुत्रो लोहिताक्षो भयंकरः ॥
एष वीराष्टकः प्रोक्तः स्कंदमातृगणोऽद्भुतः ॥१७७॥

पूजनीयः सदा भक्त्या सर्वापस्मारशांतिदः ॥
उपातिष्ठत्ततः स्कंदं हिरण्यकवचस्रजम् ॥१७८॥

लोहितांबरसंवीतं त्रैलोक्यस्यापि सुप्रभम् ॥
युवानं श्रीः स्वयं भेजे तं प्रणम्य शरीरिणी ॥१७९॥

श्रिया जुष्टं च तं प्राहुः सर्वे देवाः प्रणम्य वै ॥
हिरण्यवर्ण्ण भद्रं ते लोकानां शंकरो भव ॥१८०॥

भवानिंद्रोऽस्तु नो नाथ त्रैलोक्यस्य हिताय वै ॥१८१॥

॥ स्कंद उवाच ॥
किमिंद्रः सर्वलोकानां करोतीह सुरोत्तमाः ॥
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः ॥१८२॥

 ॥देवा ऊचुः ॥
इंद्रो दिशति भूतानां बलं तेजः प्रजाः सुखम् ॥
प्रज्ञां प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः ॥१८३॥

दुर्वृत्तानां स हरति वृत्तस्थानां प्रयच्छति ॥
अनुशास्ति च भूतानि कार्येषु बलवत्तरः ॥१८४॥

असूर्ये च भवेत्सूर्यस्तथाऽचंद्रे च चंद्रमाः ॥
भवत्यग्निश्च वायुश्च पृथिव्यां जीवकारणम् ॥१८५॥

एतदिंद्रेण कर्तव्यमिंद्रो हि विपुलं बलम् ॥
त्वं चेंद्रो भव नो वीर तारकं जहि ते नमः ॥१८६॥

॥ इंद्र उवाच ॥
त्वं भवेंद्रो महाबाहो सर्वेषां नः सुखावहः ॥
प्रणम्य प्रार्थये स्कंद तारकं जहि रक्ष नः ॥१८७॥

॥ स्कंद उवाच ॥
शाधि त्वमेव त्रैलोक्यं भवानिंद्रोस्तु सर्वदा ॥
करिष्ये चेंद्रकर्माणि न ममेंद्रत्वमीप्सितम् ॥१८८॥

त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च ॥
करोमि किं च ते शक्रशासनं ब्रूहि तन्मम ॥१८९॥

॥ इंद्र उवाच ॥
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया ॥
अभिषिच्छस्व देवानां सैनापत्ये महाबल ॥
अहमिंद्रो भविष्यामि तव वाक्याद्यशोऽस्तु ते ॥१९०॥

॥ स्कंद उवाच ॥
दानवानां विनाशाय देवानामर्थसिद्धये ॥
गोब्राह्मणस्य चार्थाय एवमस्तु वचस्तव ॥१९१॥

इत्युक्ते सुमहानादः सुराणामभ्यजायत ॥
भूतानां चापि सर्वेषां त्रैलोक्यांकपकारकः ॥१९२॥

जयेति तुष्टुवुश्चैनं वादित्राण्यभ्यवादयन् ॥
ननृस्तष्टुवुश्चैवं कराघातांश्च चक्रिरे ॥१९३॥

तेन शब्देन महता विस्मिता नगनंदिनी ॥
शंकरं प्राह को देव नादोऽयमतिवर्तते ॥१९४॥

॥ रुद्र उवाच ॥
अद्य नुनं प्रहृष्टानां सुराणां विविधा गिरः ॥
श्रूयंते च तथा देवी यथा जातः सुतस्तव ॥१९५॥

गवां च ब्राह्मणानां च साध्वीनां च दिवौकसाम् ॥
मार्जयिष्यति चाश्रूणि पुत्रस्ते पुण्यवत्यपि ॥१९६॥

एवं वदति सा देवी द्रष्टुं तमुत्सुकाऽभवत् ॥
शंकरश्च महातेजाः पुत्रस्नेहाधिको यतः ॥१९७॥

वृषभं तत आरुह्य देव्या सह समुत्सुकः ॥
सगणो भव आगच्छत्पुत्र दर्शनलालसः ॥१९८॥

ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत् ॥
अभिगच्छ महादेवं पितरं मातरं प्रभो ॥१९९॥

अनयोर्वीर्यसंयोगात्तवोत्पत्तिस्तु प्राथमी ॥
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम् ॥२००॥

अपूजयदमेयात्मा पितरं मातरं च ताम् ॥
ततस्तमालिंग्य सुतं चिरं संयोज्य चाशिषः ॥२०१॥

चिरं जहृषतुश्चोभौ पार्वतीपरमेश्वरौ ॥
सिद्धसारस्य तत्त्वं च ददौ तुष्टोऽस्य शंकरः ॥२०२॥

देवी प्रकृतिमोक्षं च तुष्टा हर्षपरिप्लुता ॥
एतस्मिन्नेव काले तु षड्देव्यस्तं समागमन् ॥२०३॥

ऋषिभिस्ताः परित्यक्तास्तं पुत्रेति जगुस्तदा ॥
पार्वती च ततः प्राह मम पुत्रो न वस्त्वयम् ॥२०४॥

स्वाहा ममेति च प्राह पावकश्च ममेति च ॥
रुद्रो ममेति च प्राह मम देवनदीति च ॥२०५॥

चक्रुस्ते कलहं घोरं विवदंतः परस्परम् ॥
पुत्रस्नेहो हि बलवान्पार्थ किंकिं न कारयेत् ॥२०६॥

ततस्तान्प्रहसन्नाह विवादो युज्यते न च ॥
सर्वेषां वो गुहः पुत्रो मत्तो वै व्रियतां वरः ॥२०७॥

ततः प्राहुश्च षड्देव्यः स्वर्गो नो ह्यक्षयो भवेत् ॥
तथेति ता गृहः प्राह शक्रस्तत्रांतरेऽब्रवीत् ॥२०८॥

रोहिण्याश्चानुजा स्कंद स्पर्धमानाभिजित्खला ॥
इत्छंती ज्येष्ठतां देवी पृथत्क्वं च तपोरता ॥२०९॥

ततः प्रभृति मूढोऽस्मि तत्स्थाने स्थापयप्रभो ॥
ततस्तथेति च प्रोक्ते कृत्तिकास्ता दिवं गताः ॥२१०॥

नक्षत्रं सप्तशीर्षाभं भाति तद्वह्निदैवतम् ॥
अथैनमब्रवीत्स्वाहा प्रिया नाहं महार्चिषः ॥
तदग्नेः प्रियतां देहि सहवासं सदैव च ॥२११॥

॥ स्कंद उवाच ॥
हव्यं कव्यं च यत्किंचिद्द्विजा होष्यंति पावके ॥२१२॥

तत्ते नाम्ना प्रदास्यंति वासः सार्धं भवेत्तव ॥
पावकः प्रार्थयामास यज्ञभागान्पुनः सुतान् ॥२१३॥

स चाप्याहाद्यप्रभृति यज्ञभागानवाप्नुहि ॥
इतरे प्रार्थयामासुः ख्यातो नस्त्वं सुतो भव ॥२१४॥

एवमेवेति तानाह स्कंदस्तद्धि सुदुर्लभम् ॥
ततस्तं योगिनः सर्वे संभूय सनकादयः ॥
अभ्यषिंचन्गिरौ तस्मिन्योगिनामादिपत्यके ॥२१५॥

योगीश्वरमिति प्राहुस्ततस्तं योगिनस्तथा ॥
जहृपुर्देवताश्चैव नानावाद्यन्यवादयन् ॥२१६॥

अभिषिक्तेन तेनासौ शुशुभे श्वेतपर्वतः ॥
आदित्येनेवांशुमता सुरम्य उदयाचलः ॥२१७॥

ततो देवाः सगन्धर्वा नृत्यंत्यप्सरसस्तथा ॥
हृष्टानां सर्वभूतानां श्रूयते निनदो महान् ॥२१८॥

एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम् ॥
प्रहृष्टं प्रेक्ष्य तं स्कन्दं न च तृप्यति दर्शनात् ॥२१९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये स्कन्दकुमारस्य सर्वदेवसैनाधिपत्यभिषेकोत्सववर्मनंनामैकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP