कौमारिकाखण्डः - अध्यायः ४१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ करधम उवाच ॥
केचिच्छिवं समाश्रित्य विष्णुमाश्रित्य वेधसम् ॥
वर्णयंति परे मोक्षं त्वं तु कस्मात्तु मन्यसे ॥१॥
॥महाकाल उवाच ॥
अपारवैभवा देवास्त्रयोऽप्येते नरर्षभ ॥
योगींद्राणामपि त्वत्र चेतो मुह्यति किं मम ॥२॥
पुरा किलैवं मुनयो नैमिषारण्यवासिनः ॥
संदिह्यांतः श्रेष्ठतायां ब्रह्मलोकमुपागमन् ॥३॥
तस्मिन्क्षणे विरिंचोऽपि श्लोकं प्रह्वोऽब्रवीत्किल ॥
अनंताय नमस्तस्मै यस्यांतो नोपलभ्यते ॥४॥
महेशाय च भक्ते द्वौ कृपायेतां सदा मयि ॥
ततः श्रेष्ठं च तं मत्वा क्षीरोदं मुनयो ययुः ॥५॥
तत्र योगेश्वरः श्लोकं प्रबुध्यन्नमुमब्रवीत् ॥
ब्रह्माणं सर्वभूतेषु परमं ब्रह्मरूपिणम् ॥६॥
सदाशिवं च वंदे तौ भवेतां मंगलाय मे ॥
ततस्ते विस्मिता विप्रा अपसृत्य ययुः पुनः ॥७॥
कैलासे ददृशुः स्थाणुं वदंतं गिरिजां प्रति ॥
एकादश्यां प्रनृत्यानि जागरे विष्णुसद्मनि ॥८॥
सदा तपस्यां चरामि प्रीत्यर्थं हरिवेधसोः ॥
श्रुत्वेति चापसृत्यैव खिन्नास्ते मुनयोऽब्रुवन् ॥९॥
यद्वा देवा न संयांति पारं ये च परस्परम् ॥
तत्सृष्टसृष्टसृष्टेषु गणना काऽस्मदादिषु ॥१०॥
उत्तमाधममध्यत्वममीषां वर्णयंति ये ॥
असत्यवादिनः पापास्ते यांति निरयं ध्रुवम् ॥११॥
एवं ते निश्चियामासुर्नैमिषेया स्तपस्विनः ॥
सत्यमेतच्च राजेंद्र ममापीदं मतं स्फुटम् ॥१२॥
जापकानां सहस्राणि वैष्णवानां तथैव च ॥
शैवानां च विधिं विष्णुं स्थाणुं चाप्यन्वमूमुचन् ॥१३॥
तस्माद्यस्य मनोरागो यस्मिन्देवे भवेत्स्फुटम् ॥
स तं भजेद्विपापः स्यान्ममेदं मतमुत्तमम् ॥१४॥
॥करंधम उवाच ॥
कानि पापानि विप्रेंद्र यैस्तु संमूढचेतसः ॥
न वेदेषु न धर्मेषु रतिमापद्यते मनः ॥१५॥
॥महाकाल उवाच ॥
अधर्मभेदा विज्ञेयाश्चित्तवृत्तिप्रभेदतः ॥
स्थूलाः सूक्ष्मा असूक्ष्माश्च कोटिभेदैरनेकशः ॥१६॥
तत्र ये पापनिचयाः स्थूला नरकहेतवः ॥
ते समासेन कथ्यंते मनोवाक्कायसाधनाः ॥१७॥ तु. महाभारत अनुशासन १३.२
परस्त्रीद्रव्यसंकल्पश्चेतसानिष्टचिंतनम् ॥
अकार्याभिनिवेशश्च चतुर्द्धा कर्म मानसम् ॥१८॥
अनिबद्धप्रलापित्वमसत्यं चाप्रियं च यत् ॥
परापवादपैशुन्यं चतुर्धा कर्म वाचिकम् ॥१९॥
अभक्ष्यभक्षणं हिंसा मिथ्या कामस्य सेवनम् ॥
परस्वानामुपादानं चतुर्धा कर्म कायिकम् ॥२०॥
इत्येतद्द्वादशविधं कर्म प्रोक्तं त्रिसंभवम् ॥
अस्य भेदान्पुनर्वक्ष्ये येषां फलमनंतकम् ॥२१॥
ये द्विषंति महादेवं संसारार्णवतारकम् ॥
सुमहात्पातकोपेतास्ते यांति नरकाग्निषु ॥२२॥
महांति पातकान्याहुर्निरंतरफलानि षट् ॥
नाभिनंदंति ये दृष्ट्वा शंकरं न स्तुवंति ये ॥२३॥
यथेष्टचेष्टा निःशंकाः संतिष्ठंति रमंति च ॥
उपचारविनिर्मुक्ताः शिवस्य गुरुसंनिधौ ॥२४॥
शिवाचारं न मन्यंते शिवभक्तान्द्विषंति षट् ॥
गुरुमार्त्तमशक्तं वा विदेशप्रस्थितं तथा ॥२५॥
अरिभिः परिभूतं वा यस्त्यजति स पापकृत् ॥
तद्भार्यापुत्रमित्रेषु यश्चावज्ञां करोति वा ॥२६॥
इत्येतत्पातकं ज्ञेयं गुरुनिंदासमं महत् ॥
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥२७॥
महापातकिनस्त्वेते तत्संसर्गी च पंचमः ॥
क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणस्य वदंति ये ॥२८॥
मर्मांतिकं महादोषं ब्रह्मघ्नः स प्रकीर्तितः ॥
ब्राह्मणं यः समाहूय याचमानमकिंचनम् ॥२९॥
पश्चान्नास्तीति यो ब्रूयात्स च वै ब्रह्महा स्मृतः ॥
यश्च विद्याभिमानेन निस्तेजयति सद्द्विजम् ॥३०॥
उदासीनः सभामध्ये ब्रह्महा स प्रकीर्तितः ॥
मिथ्यागुणैः स्वमात्मानं नयत्युत्कर्षतां बलात् ॥३१॥
विरुद्धं गुरुभिः सार्धं ब्रह्मघ्नः स प्रकीर्तितः ॥
क्षुत्तृष्णातप्तदेहानां द्विजानां भोक्तुमिच्छताम् ॥३२॥
यः समाचरते विघ्नं तमाहुर्ब्रह्मगातकम् ॥
पिशुनः सर्वलोकानां छिद्रान्वेषणतत्परः ॥३३॥
उद्वेगजननः क्रूरः स च वै ब्रह्महा स्मृतः ॥
गवां तृषाभिभूतानां जलार्थमुपसर्पताम् ॥३४॥
यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम् ॥
परदोषं परिज्ञाय नृपकर्णे जपेत यः ॥३५॥
पापीयान्पिशुनः क्रूरस्तमाहुर्ब्रह्मघातकम् ॥
न्यायेनोपार्जितं विप्रैस्तद्द्रव्यहरणं च यत् ॥३६॥
छद्मना वा बलाद्वापि ब्रह्महत्यासमं मतम् ॥
अधीत्य यश्च शास्त्राणि परित्यजति मूढधीः ॥३७॥
सुरापानसमं ज्ञेयं जीवनायैव वा पठेत् ॥
अग्निहोत्रपरित्यागः पंचयज्ञोपकर्मणाम् ॥३८॥
मातृपितृपरित्यागः कूटसाक्षी सुहृद्वधः ॥
अभक्ष्यभक्षणं वन्यजंतूनां काम्यया वधः ॥३९॥
ग्रामं वनं गवावासं यश्च क्रोधेन दीपयेत् ॥
इति घोराणि पापानि सुरापानसमानि च ॥४०॥
दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम् ॥
गोभूरत्नसुवर्णानामौषधीनां रसस्य च ॥४१॥
चंदनागरुकर्पूरकस्तूरीपट्टवाससाम् ॥
हस्तन्यासापहरणं स्कमस्तेयसमं स्मृतम् ॥४२॥
कन्यानां वरयोग्यानामदानं सदृशे वरे ॥
पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ॥४३॥
कुमारीसाहसं घोरमंत्यजस्त्रीनिषेवणम् ॥
सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम् ॥४४॥
द्विजायार्थं प्रतिश्रुत्य न प्रयच्छति यः पुनः ॥
न च चस्मारयते विप्रं तुल्यं तदुपपपातकम् ॥४५॥
अभिमानोतिकोपश्च दांभिकत्वं कृतघ्नता ॥
अत्यंतविषयासक्तिः कार्पण्यं शाठ्यमत्सरम् ॥४६॥
भृत्यानां च परित्यागः साधुबंधुतपस्विनाम् ॥
गवां क्षत्रियवैश्यानां स्त्रीशूद्राणां च ताडनम् ॥४७॥
शिवाश्रमतरूणां च पुष्पारामविनाशनम् ॥
अयाज्यानां याजनं चाप्ययाच्यानां च याचनम् ॥४८॥
यज्ञारामतडागादिदारापत्यस्य विक्रयः ॥
तीर्थयात्रोपवासानां व्रतायतनकर्मणाम् ॥४९॥
स्त्रीधनान्युपजीवंति स्त्रीभिरत्यंतनिर्जिताः ॥
अरक्षणं च नारीणां मद्यपस्त्रीनिषेवणम् ॥५०॥
ऋणानामप्रदानं च मिथ्याघृद्ध्युपजीवनम् ॥
निंदितानां धनादानं साद्वीकन्योक्तिदूषणम् ॥५१॥
विषमारणयंत्राणां प्रोयगो मूलकर्मणाम् ॥
उच्चाटनाभिचाराश्च रागविद्वेषणक्रिया ॥५२॥
जिह्वाकामोपभो गार्थं यस्यारंभः स्वकर्मसु ॥
मूल्येनाध्यापयेद्यस्तु मूल्येनाधीयते च ये ॥५३॥
व्रात्यता व्रतसंत्यागः सर्वाहारनिषेवणम् ॥
असच्छास्त्राभिगमनं शुष्कतर्काव लंबनम् ॥५४॥
देवाग्निगुरुसाधूनां निंदा गोब्राह्मणस्य च ॥
प्रत्यक्षं वा परोक्षं वा राज्ञां मंडलिनामपि ॥५५॥
उत्सन्नपतृदेवेज्याः स्वकर्मत्यागिनश्च ये ॥
दुःशीला नास्तिकाः पापा न सदा सत्यवादिनः ॥५६॥
पर्वकाले दिवा चाप्सु वियोनौ पशुयोनिषु ॥
रजस्वलास्वयोनौ च मैथुनं यः समाचरेत् ॥५७॥
स्त्रीपुत्रमित्रसुहृदामाशाच्छेदकराश्च ये ॥
जनस्याप्रियवक्तारः क्रूराः समयभेदिनः ॥५८॥
भेत्ता तडागकूपानां संक्रमाणांरसस्य च ॥
एकपंक्तिस्थितानां च पाकभेदं करोति यः ॥५९॥
इत्येतैश्च नराः पापैरुपपातकिनः स्मृताः ॥
युक्तास्तदुनकैः पापैः पापिनस्तान्निबोध मे ॥६०॥
ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् ॥
अन्तरं यांति कार्येषु ते स्मृताः पापिनो नराः ॥६१॥
परश्रियाभितप्यंते हीनां सवंति ये स्त्रियाम् ॥
पंक्त्यर्थं ये न कुर्वंति दानयज्ञादिकाः क्रियाः ॥६२॥
गोष्ठाग्निजलरथ्यासु तरुच्छायानगेषु च ॥
त्यजंति ये पुरीषाद्यमारामायतनेषु च ॥६३॥
गीतवाद्यरता नित्या मत्ताः किलकिलापराः ॥
कूटवेषक्रियाचाराः कूटसंव्यवहारिणः ॥६४॥
कूटशासनकर्तारः कूटयुद्धकराश्च ये ॥
निर्दयोऽतीव भृत्येषु पशूनां दमनश्च यः ॥६५॥
मिथ्याप्रसादितो वाक्यमाकर्णयति यः शनैः ॥
चपलश्चापि मायावी शठो मिथ्याविनीतकः ॥६६॥
यो भार्यापुत्रमित्राणि बालवृद्धकृशातुरान् ॥
भृत्यानतिथिबंधूंश्च त्यक्त्वाश्नाति बुभुक्षितान् ॥६७॥
यः स्वयं मृष्टमश्नाति विप्रायान्यत्प्रयच्छति ॥
वृथापाकः स विज्ञेयो ब्रह्मवादिविगर्हितः ॥६८॥
नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः ॥
ये ताडयंति गां नित्यं वाहयंति मुहुर्मुहुः ॥६९॥
दुर्बलान्नैव पुष्णंति प्रणष्टार्था द्विषंति च ॥
पीडयन्त्यभिचारेण सक्षतान्वाहयंति च ॥७०॥
तेषा मदत्त्वा चाश्रंति चिकित्संति न रोगिणः ॥
अजाविको माहिषिकः समुद्री वृषलीपतिः ॥७१॥
हीनवर्णात्मवृत्तिश्च वैद्यो धर्मध्वजी च यः ॥
यश्च शास्त्रमतिक्रम्य स्वेच्छयैवाहरेत्करम् ॥७२॥
सदा दण्डरुचिर्यश्च यो वा दण्डरुचिर्न हि ॥
उत्कोचकैरधिकृतैस्तस्करैस्च प्रपीड्यते ॥७३॥
यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ॥
अचौरं चौरवत्पश्येच्चौरं वाऽचौररूपिणम् ॥७४॥
आलस्योपहतो राजा व्यसनी नरकं व्रजेत् ॥
एवमादीनि चान्यानि पापान्याहुः पुराविदः ॥७५॥
यद्वातद्वा परद्रव्यमपि सर्षपमात्रकम् ॥
अपहृत्य नरः पापो नारकी नात्र संशयः ॥७६॥
एवमाद्यैर्नरः पापैरुत्क्रान्तैः समनंतरम् ॥
शरीरं यातनार्थाय पूर्वाकारमवाप्नुयात् ॥७७॥
तस्मात्त्रिविधमप्येतन्नारकीयं विवर्जयेत् ॥
सदाशिवं च शरणं व्रजेत्सच्छ्रद्धया युतः ॥७८॥
नमस्कारः स्तुतिः पूजा नामसंकीर्तनं तथा ॥
संपर्कात्कौतुकाल्लोभान्न तस्य विफलं भवेत् ॥७९॥
॥करंधम उवाच ॥
संक्षेपाच्छिवपूजाया विधानं वक्तुमर्हसि ॥
कृतेन येन मनुजः शिवपूजाफलं लभेत् ॥८०॥
॥महाकाल उवाच ॥
प्रातर्मध्याह्नसायाह्ने शंकरं सर्वदा भजेत् ॥
दर्शनात्स्पर्शनान्मर्त्यः कृततृत्यो भवेत्स्फुटम् ॥८१॥
आदौ स्नानं प्रकुर्वित भस्मस्नानमथापि वा ॥
आपद्गतः कण्ठस्नानं मन्त्रस्नानमथापि वा ॥८२॥
आविकं परिदध्याच्च ततो वासः सितं च वा ॥
धातुरक्तमथो नव्यं मलिनं संधितं न च ॥८३॥
उत्तरीयं च संदध्याद्विना तन्निष्फलार्चनम् ॥
भस्मत्रिपुण्ड्रधारी च ललाटे हृति चांसयोः ॥८४॥
पूजयेद्यो महादेवं प्रीतः पश्यति तं मुहुः ॥
सर्वदोषान्बहिः क्षिप्य शिवायतनमाविशेत् ॥८५॥
प्रविश्य च प्रणम्येशं ततो गर्भगृहं विशेत् ॥
पाणी प्रक्षाल्य तच्चित्तो निर्माल्यमवरोपयेत् ॥८६॥
येन रुद्रायते भक्त्या कुरुते मार्जनक्रियाम् ॥
तस्मान्मार्जयते त्वेवं स्थाणुनैतत्परस्परम् ॥८७॥
रुद्रभक्त्या च संतिष्ठेनमालिन्यं मार्जयेत्ततः ॥
भक्तिर्देवस्य तिष्ठेन्न मालिन्यं मार्जतः सदा ॥८८॥
गडुकान्पूरयेत्पश्चान्निर्मलेन जलेन वै ॥
गडुकास्तु समाः सर्वे सर्वे च शुभदर्शनाः ॥८९॥
निर्व्रणाः सौम्यरूपाश्च सर्वे चोदकपूरिताः ॥
वस्त्रपूतजलैः पूर्णागन्धधूपैश्च वासिताः ॥९०॥
क्षालिताः पूरिता नीताः षडक्षरजपेन च ॥
गडुकाष्चशतं कुर्यादथवाप्यष्टविंशतिः ॥९१॥
अष्टादशापि चतुरस्ततोन्यूनं न कारयेत् ॥
पयो दधि घृतं चैव क्षौद्रमिक्षुरसं तथा ॥९२॥
एवं सर्वं च तद्द्रव्यं वामतः संन्यसेद्भवात् ॥
ततो बहिर्विनिष्क्रम्य पूजयेत्प्रतिहारकान् ॥९३॥
सर्वेषां वाचका मन्त्राः कथ्यंतेऽतः परं क्रमात् ॥९४॥
ॐगं गणपतये नमः ॥ ॐक्षां क्षेत्रपालाय नमः ॥ ॐगं गुरुभ्यो नमः ॥ इति आकाशे ॥
ॐकौं कुलदेव्यै नमः ॥ ॐ नंदिने नमः ॥ ॐमहाकालाय नमः ॥ ॐधात्रे विधात्रै नमः ॥
ततः प्रविस्य लिंगाच्च किञ्चिद्दक्षिणतः शुचिः ॥
उदङ्मुखः क्षणं ध्यायेत्समकायासनस्थितः ॥९५॥
दर्भादिभिः परिवृतं मध्यपद्मार्कमंडलम् ॥
सोममण्डलमध्यस्थं ध्यायेद्वै वह्निमंडलम् ॥९६॥
तन्मध्ये विश्वरूपं च वामाद्यष्टादिशक्तिकम् ॥
पंचवक्त्रं दशभुजं त्रिनेत्रं चंद्रभूषितम् ॥९७॥
वामांकगिरिजं देवं ध्यायेत्सिद्धैः स्तुतं मुहुः ॥
ततः पूर्वं प्रदद्याच्च पाद्यार्घं शंभवे नृप ॥९८॥
पानीयमक्षता दर्भा गंधपूष्पं ससर्पिषम् ॥
क्षीरं दधि मधु पुनर्नवांगोऽर्घः प्रकीर्तितः ॥९९॥
ततः श्रद्धार्द्रचित्तस्य स्नानं लिंगस्य चाचरेत् ॥
गृहीत्वा गडुकं पूर्वं मलस्नानं समाचरेत् ॥१००॥
अर्द्धेन स्नापयेत्पूर्वं कुर्याच्च मलघर्षणम् ॥
सर्वेण स्नापयेत्पश्चात्पूजयेत्स्नापयेत्ततः ॥१०१॥
प्रणम्य च ततो भक्त्या स्नापयेन्मूलमंत्रतः ॥
ॐहूं विश्वमूर्तये शिवाय नम ॥
इति द्वादशाक्षरो मूलमंत्रः ॥१०२॥
वारिक्षरदधिक्षौद्रघृतेनेक्षुरसेन च ॥
स्नापयेन्मूलमन्त्रेण जलधूपार्चनात्पृथक् ॥१०३॥
गडुकैः स्नापयेत्सर्वैः स्नातं गन्धैर्विरूक्षयेत् ॥१०४॥
विरूक्षितं ततः स्नाप्य श्रीखण्डेन विलेपयेत् ॥
पूजयेद्विविधैः पुष्पैर्विधिना येन तच्छृणु ॥१०५॥
आग्नेयपादे ॥ ॐधर्माय नमः ॥ नैर्ऋतके ॥ ॐज्ञानाय नमः ॥ वायव्ये ॥ ॐवैराग्याय नमः ॥ ईशानपादे ॥ ॐऐश्वर्याय नमः ॥ पूर्वपादे ॥ ॐअधर्माय नमः ॥ दक्षिणे ॥ ॐअज्ञानाय नमः ॥ पश्चिमे ॥ ॐअवैराग्याय नमः ॥ उत्तरे ॐअनैश्वर्याय नमः ॥ ॐअनन्ताय नमः ॥ ॐपद्माय नमः ॐअर्कमण्डला नमः ॥ ॐसोममण्डलाय नमः ॥ ॐवह्निमण्डला नमः ॥ ॐवामाज्येष्ठादिपंचमन्त्रशक्तिभ्यो नमः ॥ ॐपरमप्रकृत्यै देव्यै नमः ॥ ॐईशानतत्पुरुषाघोरवामदेवसद्योजातपञ्चवक्त्राय रुद्रसाध्यवस्वादित्यविश्वेदेवादिदेवविश्वरूपाय अण्डजस्वेदजोद्भिज्जजरायुजरूपस्थावरजङ्गममूर्तये परमेश्वराय ॐहूं विश्वमूर्तये शिवाय नमस्त्रिशूलधनुःखड्गकपालदण्डकुठारेभ्यः ॥१०६॥
ततो जलाधारमुखे चण्डीश्वराय नमः ॥
एवं संपूज्य विधिवत्ततोऽर्घं संनिवेशयेत् ॥१०७॥
पानीयमक्षताः पुष्पमेतैर्युक्तं फलोत्तमैः ॥
गृहाणार्घ्यं महादेव पूजासंपूर्तिहेतवे ॥१०८॥
अर्घादनंतरं शक्तः पूजयेद्वसुपूजया ॥
धूपं दीपं च नैवेद्यं क्रमात्पश्चान्निवेदयेत् ॥१०९॥
घण्टां च वादयेत्तत्र ततो नीराजनं चरेत् ॥
भ्रामयेद्देवदेवस्य शंखवादित्रनिःस्वनैः ॥११०॥
नीराजनं च यः पश्ये द्देवदेवस्य शूलिनः ॥
स मुच्येत्पातकैः सर्वैः किं पुनर्यः करिष्यति ॥१११॥
नृत्यं गीतं च वाद्यं च अलीकमपि यश्चरेत् ॥
तस्य तुष्येदनंतंहि गीतवाद्यफलं यतः ॥११२॥
स्तोत्रैस्ततश्च संस्तूय दण्डवत्प्रणमेद्भुवि ॥
क्षमापयेच्च देवेशं सुकृतं कुकृतं क्षम ॥११३॥
य एवं यजते रुद्रमस्मिँल्लिंगे विशेषतः ॥
पितरं पितामहं चैव तथैव प्रपितामहम् ॥११४॥
सर्वात्पापात्समुत्तार्य रुद्रलोके वसेच्चिरम् ॥
एवं माहेश्वरो भूत्वा सदाचारव्रतस्थितः ॥११५॥
पशुपाशविमोक्षार्थं पूजयेत्तन्मना यदि ॥
य एवं यजते रुद्रं तेनैतत्तर्पितं जगत् ॥११६॥
किं त्वेतत्सफलं राजन्नाचारयो न लंघयेत् ॥
आचारात्फलते धर्मो ह्याचारात्स्वर्गमश्नुते ॥११७॥
आचाराल्लभते ह्यायुराचारो हंत्यलक्षणम् ॥
यज्ञदानतपांसीह पुरुषस्य न भूतये ॥११८॥
भवन्ति यः सदाचारं समुल्लंघ्य प्रवर्तते ॥
तस्य किञ्चित्समुद्देशं वक्ष्ये तं श्रृणु पार्थिव ॥११९॥
त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना ॥
तत्संसिद्धौ गृहस्थस्य सिद्धिरत्र परत्र च ॥१२०॥
ब्राह्मे मुहूर्ते बुध्येन धर्मार्थौ चापि चिन्तयेत् ॥
समुत्थाय तथाचम्य दंतधावनपूर्वकम् ॥१२१॥
सन्ध्यामुपासीत बुधः संशांतः प्रयतः शुचिः ॥
पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकराम् ॥१२२॥
उपासीत यथान्यायं नैनां जह्यादनापदि ॥
वर्जयेदनृतं चासत्प्रलापं परुषं तथा ॥१२३॥
असत्सेवां ह्यसद्वादं ह्यसच्छास्त्रं च पार्थिव ॥
आदर्शदर्शनं दंतधावनं केशसाधनम् ॥१२४॥
देवार्चनं च पूर्वाह्णे कार्याण्याहुर्महर्षयः ॥
पालाशमासनं चैव पादुके दंतधावनम् ॥
वर्जयेदासनं चैव पदा नाकर्षयेद्बुधः ॥१२५॥
जलमग्निं च निनयेद्यगपन्न विचक्षणः ॥१२६॥
पादौ प्रसारयेन्नैव गुरुदेवाग्निसंमुखौ ॥
चतुष्पथं चैत्यतरुं देवागारं तथा यतिम् ॥१२७॥
विद्याधिकं गुरुं वृद्धं कुर्यादेतान्प्रदक्षिणान् ॥१२८॥
आहारनीहारविहारयोगाः सुसंवृता धर्मविदानुकार्याः ॥
वाग्बुद्धिवीर्याणि तपस्तथैव वार्तायुषी गुप्ततमे च कार्ये ॥१२९॥
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ॥
दक्षिणाभिमुखो रात्रौ ह्येवमायुर्न रिष्यते ॥१३०॥
प्रत्यग्निं प्रति सूर्यं च प्रति गां व्रतिनं प्रति ॥
प्रति सोमोदकं सन्ध्यां प्रज्ञा नश्यति मेहतः ॥१३१॥
भोजने शयने स्थाने उत्सर्गे मलमूत्रयोः ॥
रथ्याचंक्रमणे चार्द्रपञ्चकश्चाचमेत्सदा ॥१३२॥
न नद्यां मेहनं कुर्यान्न श्मशाने नभस्मनि ॥
न गोमये न कृष्टे च नैवालूने न शाड्वले ॥१३३॥
उद्धृत्ताभिस्तथाद्भिस्तु शौचं कुर्याद्विचक्षणः ॥
अंतर्जलाद्देवकुलाद्वल्मीकान्मूषकस्थलात् ॥१३४॥
अपविद्धापशौचाश्च वर्जयेत्पंच मृत्तिकाः ॥
गन्धलेपापहरणं शौचं कुर्यात्तथा बुधः ॥१३५॥
नात्मानं ताडयेन्नैव दद्याद्दुः खेभ्य एव च ॥
उभाभ्यामपि पाणिभ्यां कण्डूयेन्नात्मनः शिरः ॥१३६॥
रक्षेद्दारांस्त्यजेदीष्यां तासु निष्कारणं बुधः ॥
सूर्यास्तं न विनाकाश्चित्क्रिया नैवाचरेत्तथा ॥१३७॥
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ॥
शिवचित्तोर्जयोद्वित्तं न चातिकृपणो भवेत् ॥१३८॥
नेर्ष्युः स्यान्न कृतघ्नः स्यान्न परद्रोहकर्मधीः ॥
न पाणिपादचपलो न नेत्रचपलोऽनृजुः ॥१३९॥
न च वागङ्गचपलो न चाशिष्टस्य गोचरः ॥
न शुष्कवादं कुर्वीत शुष्क्रवैरं तथैव च ॥१४०॥
उपायैः साधयेदर्थान्दण्डस्त्वगतिका गतिः ॥
भिन्नाशनं भिन्नशय्यां वर्जयेद्भिन्नभाजनम् ॥१४१॥
अंतरेण न गच्छेन द्वयोर्ज्वलनलिंगयोः ॥
नाग्न्योर्न विप्रयोश्चैव न दंपत्योर्नृपोत्तम ॥१४२॥
न सूर्यव्योमयोर्नैव हरस्य वृषभस्य च ॥
एतेषामंतरं कुर्वन्यतः पापमवाप्नुयात् ॥१४३॥
नैकवस्त्रश्च भुंजीत नाग्नौ होममथाचरेत् ॥
न चार्चयेद्द्विजान्नैव कुर्याद्देवार्चनं बुधः ॥१४४॥
खंडनं पेषणं मार्ष्टिं जलसंशोधनं तथा ॥
रंधनं भोजनं स्वाप उत्थानं गमनं क्षुतम् ॥१४५॥
कार्यारंभं समाप्तिं च वचः प्रोच्य तथा प्रियम् ॥
पिबञ्जिघ्रन्स्पृशञ्छृण्वन्विवक्षुर्मैथुनं तथा ॥१४६॥
शुचित्वं च जपं स्थाणुं यः कुर्याद्विंशतिं तथा ॥
माहेश्वरः स विज्ञेयः शेषोन्यो नामधारकः ॥१४७॥
स वै रुद्रमयो भूत्वा ततश्चांते शिवं व्रजेत् ॥
परस्त्रियं नाभिभाषेत्तथा संभाषयेद्यदि ॥१४८॥
मातः स्वसरथो पुत्रि आर्येति च वदेद्बुधः ॥
उचछिष्टो नालभेत्किंचिन्न च सूर्यं विलोकयेत् ॥१४९॥
नेन्दुं न तारकाश्चैव नादयेन्नात्मनः शिरः ॥
स्वस्रा दिहित्रा मात्रा वा नैकांतासन माचरेत् ॥१५०॥
दुर्जयो हींद्रियग्रामो मुह्यते पंडितोऽपि सन् ॥
गुरुमभ्यागतं गेहे स्वयमुत्थाय यत्नतः ॥१५१॥
आसनं कल्पयेत्तस्य कुर्यात्पादाभिवंदनम् ॥
नोदक्छिराः स्वपेज्जातु न च प्रत्यक्छिरा बुधः ॥१५२॥
शिरस्यगस्त्यमाधाय तथैव च पुरंदरम् ॥
उदक्यादर्शनं स्पर्शं वर्ज्यं संभाषणं तथा ॥१५३॥
नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् ॥
कृत्वा विभवतो देवमनुष्यर्षिसमर्चनाम् ॥१५४॥
पितॄणां च ततः शेषं भोक्तुं माहेश्वरोऽर्हति ॥
वाग्यतः शुचिराचांतः प्राङ्मुखोदङ्मुखोऽपि वा ॥१५५॥
अन्तर्जानुश्च तच्चित्तो भुञ्जीतान्नमकुत्सयन् ॥
नोपघातं विना दोषान्न तस्योदाहरेद्बुधः ॥१५६॥
नग्नस्नानं न कुर्वीत न शयीत व्रजेत वा ॥
दुष्कृतं न गुरोर्ब्रूयात्क्रुद्धं चैनं प्रसादयेत् ॥१५७॥
परिवादं न श्रृमुयादन्येषामपि जल्पताम् ॥
सदा चा कर्णयेद्धमास्त्यक्त्वा कृत्यशतान्यपि ॥१५८॥
नित्यं नित्यं हि संमार्ष्टि गेहदर्पणयोरिव ॥
शुक्लायां च चतुर्दश्यां नक्तभोजी सदा भवेत् ॥१५९॥
तिस्रो रात्रीर्न शक्तश्चेदेवं माहेश्वरो भवेत् ॥
संयावकृशरामांसं नात्मानमुपसाधयेत् ॥१६०॥
सायंप्रातश्च भोक्तव्यं कृत्वा ह्यतिथि भोजनम् ॥
स्वप्नाध्ययनभोज्यानि संध्ययोश्च विवर्जयेत् ॥१६१॥
भुंजानः संध्ययोर्मोहादसुरावसथो भवेत् ॥
स्नातो न धूनयेत्केशान्क्षुते निष्ठीवितेऽध्वनि ॥१६२॥
आलभेद्दक्षिणं कर्णं सर्वभूतानि क्षामयेत् ॥
न चापि नीलीवासाः स्यान्न विपर्यस्तवस्त्रधृक् ॥१६३॥
वर्ज्यं च मलिनं वस्त्रं दशाभिश्च विवर्जितम् ॥
प्रक्षाल्य मुखहस्तौ च पादौ चाप्युपविश्य च ॥१६४॥
अंतजानुस्त्रिराचामेद्दिर्मुखं परिमार्जयेत् ॥
तोयेन स्पर्शयेत्खानि स्वमूर्धानं तथैव च ॥१६५॥
आचम्य पुनराचम्य क्रियाः कुर्वीत सर्वशः ॥
क्षुते निष्ठीविते चैव दंतलग्ने तथैव च ॥१६६॥
पतितानां च संभाषे कुर्यादाचमनिक्रियाम् ॥
अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ॥१६७॥
धर्मतो धनमाहार्य यष्टव्यं चापि यत्नतः ॥
हीनेभ्योपि न युंजीत त्वंकारं कर्हिचिद्बधः ॥
त्वंकारो वा वधो वापि गुरूणामुभयं समम् ॥१६८॥
सत्यं वाच्यं नित्यमैत्रेण भाव्यं कार्यं त्याज्यं नित्यमायासकारि ॥
लोकेऽमुष्मिन्यद्दिनं स्यात्तथास्मिन्नात्मा योगे येजनीयो गभीरैः ॥१६९॥
तीर्थस्नानैः सोपवासैर्व्रतैश्च पात्रे दानैर्होमजप्यैश्चयज्ञैः ॥
भवार्चनैर्देवपूजाविशेषैरात्मा नित्यं शोधनीयो मलाक्तः ॥१७०॥
यत्रापि कुर्वतो नात्मा जुगुप्सामेति पार्थिव ॥
तत्कर्तव्यसमसंगेन यन्नगोप्यं महाजने ॥१७१॥
इति ते वै समुद्देशः कीर्तितः किंचिदेव च ॥
शेषः स्मृतिपुराणेभ्यस्त्वया श्रोतव्य एव च ॥१७२॥
एवमाचरतो धर्मं महेशस्य गृहे सतः ॥
धर्मार्थकामसंप्राप्तौ परत्रेह च शोभनम् ॥१७३॥
एवं नानाविधान्धर्मान्महाकालस्य फाल्गुन ॥
वदतो ध्वनिराकाशे सुमहानभ्यजायत ॥१७४॥
यावत्पश्यंति ये तत्र समाजग्मुः श्रृणुष्व तान् ॥
ब्रह्मा विष्णुः स्वयं रुद्रो दे वी रुद्रगणास्तथा ॥१७५॥
इंद्रादयस्तथा देवा वसिष्ठाद्या मुनीश्वराः ॥
तुंबरुप्रवराश्चापि गंधर्वाप्सरसां गणाः ॥१७६॥
तान्महेशमुखान्सर्वान्महाकालो महामतिः ॥
अर्चयामास बहुधा भक्त्युद्रेकातिपूरितः ॥१७७॥
ततो ब्रह्मादिभिर्देवैर्वरे रत्नमयासने ॥
उपविष्टोऽभिषिक्तश्च महीसागरसंगमे ॥१७८॥
ततो देव्या समालिंग्य नीत्वोत्संगं स्वकं मुदा ॥
पुत्रत्वे कल्पितः पार्थ महाकालो महामतिः ॥१७९॥
उक्तञ्च यावद्ब्रह्माण्डमिदमास्ते शिवव्रत ॥
तावत्तिष्ठ शिवस्थाने शिववच्छिवभक्तितः ॥१८०॥
देवेन च वरो दत्तस्त्वल्लिंगं योऽर्चयिष्यति ॥
जितेन्द्रियः शुचिर्भूत्वा ऊर्ध्वं मल्लोकमेष्यति ॥१८१॥
दर्शनं स्तवनं पूजा प्रणामश्च ततो जपः ॥
दानं चात्र कृतं लिंगे ममातितृप्तिकारणम् ॥१८२॥
इत्युक्ते विस्मिता देवाः साधु साध्विति ते जगुः ॥
ब्रह्मविष्णुमुखाश्चैव महाकालं प्रतुष्टुवुः ॥१८३॥
ततः सुरैःस्तूयमानो वंद्यमानश्च चारणैः ॥
नृत्यद्भिरप्सरोभिश्च कीतैर्गंधर्वजैः शुभैः ॥१८४॥
कोटिकोटिगणैश्चैव स्तुवद्भिः सर्वतो वृतः ॥१८५॥
महाकालो रुद्रभवनं गतो भवपुरस्सरः ॥
एवमेतन्महालिंगमुत्पन्नं कुरुनंदन ॥१८६॥
कूपश्चापि सरः पुण्यं महाकालस्य सिद्धिदम् ॥
अत्र ये मनुजाः पार्थ लिंगस्याराधने रताः ॥१८७॥
महाकालः समालिंग्य ताञ्छिवाय निवेदयेत् ॥
एतदत्यद्भुतं लिंगं त्रिषु लोकेषु विश्रुतम् ॥१८८॥
दृष्टं स्पृष्टं पूजितं च गतास्ते भवसद्म तत् एवमेतानि लिंगानि सप्त जातानि फाल्गुन ॥१८९॥
ये श्रृण्वंति गृणंत्येतत्तेपि धन्या नरोत्तमाः ॥१९०॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीमहाकालमाहात्म्ये महाकालकरंधमसंवादे शिवपूजनविधिनित्यकर्तव्यधर्मनिरूपणपूर्वकमहाकालशिवलोकप्राप्तिवर्णनंनामैकचत्वारिंशोऽध्यायः ॥४१॥
N/A
References : N/A
Last Updated : July 23, 2024
TOP