संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ४२

कौमारिकाखण्डः - अध्यायः ४२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
ततो मया स्थापिते च स्थाने कालांतरेण ह ॥
चिंतितं हृदये भूयो द्विजानुग्रहकाम्यया ॥१॥
वासुदेवविहीनं हि तीर्थमेतन्न रोचते ॥
असूर्यं हि जगद्यद्वत्स हि भूषण भूषणम् ॥२॥
यत्र नैव हरिः स्वामी तीर्थे गेहेऽथ मानसे ॥
शास्त्रे वा तदसत्सर्वं हांसं तीर्थं न वायसम् ॥३॥
तस्मात्प्रसाद्य वरदं तीर्थेऽस्मिन्पुरुषोत्तमम् ॥
आनेष्ये कलया साक्षाद्विश्वनुग्रहकाम्यया ॥४॥
इति संचिंत्य कौरव्य ततोऽहं चात्र संस्थितः ॥
ज्ञानयोगेन योगींद्रं शतं वर्षाण्यतोषयम् ॥५॥
अष्टाक्षरं जपन्मंत्रं संनिगृह्येंद्रियाणि च ॥
वासुदेवमयो भूत्वा सर्वभूतकृपापरः ॥६॥
एवं मयाराध्यमानो गरुडं हरिरास्थितः ॥
गणकोटिपरिवृतः प्रत्यक्षः समजायत ॥७॥
तमहं प्रांजलिर्भूत्वा दत्त्वार्घ्यं विधिवद्धरेः ॥
प्रत्यवोचं प्रमम्याथ प्रबद्धकरसं पुटः ॥८॥
श्वेतद्वीपे पुरा दृष्टं मया रूपं तव प्रभो ॥
अजं सनातनं विष्णो नरनारायणात्मकम् ॥९॥
तद्रूपस्य कलामेकां स्थापयात्र जनार्दन ॥
यदि तुष्टोऽसि मे विष्णो तदिदं क्रियतां त्वया ॥१०॥
एवं मया प्रार्थितोऽथ प्रोवाच गरुडध्वजः ॥
एवमस्तु ब्रह्मपुत्र यत्त्वयाभीप्सितं हृदि  ॥११॥
तत्तथा भविता सर्वमप्यत्रस्थं सदैव हि ॥
एवमुक्त्वा गते विष्णौ निवेश्य स्वकलां प्रभो ॥१२॥
मया संस्थापितो विष्णुर्लोकानुग्रहकाम्यया ॥
यस्मात्स्वयं श्वेतद्वीपनिवास्यत्र हरिः स्थितः ॥१३॥
वृद्धो विश्वस्य विश्वाख्यो वासुदेवस्ततः स्मृतः ॥
कार्तिके शुक्लपक्षे या भवत्ये कादशी शुभा ॥१४॥
स्नानं कृत्वा विधानेन तोयप्रस्रवणादिषु ॥
योर्चयेदच्युतं भक्त्या पंचोपचारपूजया ॥१५॥
उपोष्य जागरं कुर्याद्गीतवाद्यं हरेः पुरः ॥
कथां वा वैष्णवीं कुर्याद्दंभक्रोधविवर्जितः ॥१६॥
दानं दद्याद्यथाशक्त्या नियतो हृष्टमानसः ॥
अनेकभवसंभूतात्कल्मषादखिलादपि ॥१७॥
मुच्यतेऽसौ न संदेहो यद्यपि ब्रह्मघातकः ॥
गारुडेन विमानेन वैकुंठं पदमाप्नुयात् ॥१८॥
कुलानां तारयेत्पार्थ शतमेकोत्तरं नरः ॥
श्रद्धायुक्तं मुदा युक्तं सोत्साहं सस्पृहं तथा ॥१९॥
अहंकारविहीनं च स्नानं धूपानुपनम् ॥
पुष्पनैवेद्यसंयुक्तमर्घदानसमन्वितम् ॥२०॥
यामेयामे महाभक्त्या कृतारार्तिकसंयुतम् ॥
चामराह्लादसंयुक्तं भेरीनादपुरस्कृतम् ॥२१॥
पुराणश्रुतिसंपन्नं भक्तिनृत्यसमन्वितम् ॥
विनिद्रंक्षृत्तृषास्वादस्पृहाहीनं च भारत ॥२२॥
तत्पादसौरभघ्राणसंयुतं विष्णुवल्लभम् ॥
सगीतं सार्चनकरं तत्क्षेत्रगमनान्वितम् ॥२३॥
पायुरोधेन संयुक्तं ब्रह्मचर्यसमन्वितम् ॥
स्तुतिपाठेन संयुक्तं पादोदकविभूषितम् ॥२४॥
सत्यान्वितं सत्ययोगसंयुतं पुण्यवार्तया ॥
पंचविंशतिभिर्युक्तं गुणैर्यो जागरं नरः ॥
एकादश्यां प्रकुर्वीत पुनर्न जायते भुवि ॥२५॥
अत्र तीर्थवरे पूर्वमैतरेय इति द्विजः ॥
सिद्धिं प्राप्तो महाभागो वासुदेवप्रसादतः ॥२६॥
 ॥अर्जुन उवाच ॥
ऐतरेयः कस्य पुत्रो निवासः क्वास्य वा मुने ॥
कथं सिद्धिमागाद्धीमान्वासुदेवप्रसादतः ॥२७॥
॥ नारद उवाच ॥
अस्मिन्नेव मम स्थाने हारीतस्यान्वयेऽभवत् ॥२८॥
मांडूकिरिति विप्राग्र्यो वेदवेदांगपारगः ॥२९॥
तस्यासी दितरा नाम भार्या साध्वीगुणैर्युता ॥
तस्यामुत्पद्यत सुतस्त्वैतरेय इति स्मृतः ॥३०॥
स च बाल्यात्प्रभृत्येव प्राग्जन्मन्यनुशिक्षितम् ॥
जजापमंत्रं त्वनिशं द्वादशाक्षरसंज्ञितम् ॥३१॥
न श्रृणोति न वक्त्येव मनसापि च किंचन ॥
एवंप्रभावः सोऽभूच्च बाल्ये विप्रसुतस्तदा ॥३२॥
ततो मूकोऽयमित्येव नानोपायैः प्रबोधितः ॥
पित्रा यदा न कुरुते व्यवहाराय मानसम् ॥३३॥
ततो निश्चित्य मनसा जडोयमिति भारत ॥
अन्यां विवाहयामास दारान्पुत्रांस्तथादधे ॥३४॥
पिंगानाम च सा भार्या तस्याः पुत्राश्च जज्ञिरे ॥
चत्वारः कर्मकुशला वेदवेदांगवादिनः ॥३५॥
यज्ञेषु शांतिहोमेषु द्विजैः सर्वत्र पूजिताः ॥
ऐतरेयोपि नित्यं च त्रिकालं हरिकंदिरे ॥३६॥
जजाप परमं जाप्यं नान्यत्र कुरुते श्रमम् ॥
ततो माता निरीक्ष्यैव सपत्नीतनयांस्तथा ॥३७॥
दार्यमाणेन मनसा तनयं वाक्यमब्रवीत् ॥
क्लेशायैव च जातोऽसि धिग्मे जन्म च जीवितम् ॥३८॥
नार्यास्तस्या नृलोकेऽत्र वरैवाजननिः स्फुटम् ॥
विमानिता या भर्त्रास्यान्न पुत्रः स्याद्गुणैर्युतः ॥३९॥
पिंगेयं कृतपुण्या वै यस्याः पुत्रा महागुणाः ॥
वेदवेदांगतत्त्वज्ञाः सर्वत्राभ्यर्चिता गुणैः ॥४०॥
तदहं पुत्र दुर्भाग्या महीसागरसंगमे ॥
निमज्जीष्ये वरं मृत्युर्जीविते किं फलं मम ॥
त्वमप्येवं महामौनी नन्द भक्तो हरेश्चिरम् ॥४१॥
॥ नारद उवाच ॥
इति मातुर्वचः श्रुत्वा प्रहसन्नैतरेयकः ॥४२॥
ध्यात्वा मुहुर्तं धर्मज्ञो मातरं प्रणतोऽब्रवीत् ॥
मातर्मिथ्याभिभूतासि अज्ञाने ज्ञानवत्यसि ॥४३॥
अशोच्ये शोचसि शुभे शोच्ये नैवाऽपि शोचसि ॥
देहस्यास्य कृते मिथ्यासंसारे किं विमुह्यसि ॥४४॥
मूर्खाचरितमेतद्धि मन्मातुरुचितं न हि ॥
अन्यत्संसारसारं च सारमन्यच्च मोहिताः ॥४५॥
प्रपश्यंति यथा रात्रौ खद्योतं दीपवत्स्थितम् ॥
यदिदं मन्यसे सारं श्रृणु तस्याप्यसारताम् ॥४६॥
एवंविधं हि मानुऽयमा गर्भादिति कष्टदम्
अस्थिपट्टतुलास्तम्भे स्नायुबन्धेन यंत्रिते ॥४७॥
रक्तमांसमदालिप्ते विण्मूत्रद्रव्यभाजने ॥
केशरोमतृणच्छन्ने सुवर्णत्वक्सुधूतके ॥४८॥
वदनैकमहाद्वारे षड्गवाक्षवितभूषिते ॥
ओष्ठद्वयकाटे च तथा दंतार्गलान्विते ॥४९॥
नाडीस्वेदप्रवाहे च कालवक्त्रानलस्थिते ॥
एवंविधे गृहे गेही जीवो नामास्ति शोभने ॥५०॥
गुणत्रयमयी भार्या प्रकृतिस्तस्य तत्र च ॥
बोधाहंकारकामाश्च क्रोधलोभादयोऽपि च  ॥५१॥
अपत्यान्यस्य हा कष्टमेवं मूढः प्रवर्तते ॥
तस्य योयो यथा मोहस्तथा तं श्रृणु तत्त्वतः ॥५२॥
स्रोतांसि यस्य सततं प्रस्रवंति गिरेरिव ॥
कफमूत्रादिकान्यस्य कृते देहस्य मुह्यति ॥५३॥
सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ॥
शुचिरेकप्रदेशोऽपि विण्मूत्रस्य दृतेरिव ॥५४॥
स्पृष्ट्वा स्वदेहस्रोतांसि मृत्तोयैः शोध्यते करः ॥
तथाप्यशुचिभांडस्य न विरज्यति किं नरः ॥५५॥
कायः सुगन्धतोयाद्यैर्यत्नेनापि सुसंस्कृतः ॥
न जहाति स्वकं भावं श्वपुच्छमिव नामितम् ॥५६॥
स्वदेहाशुचिगंधेन न विरज्यति यो नरः ॥
विरागे कारणं तस्य किमन्यदु पदिश्यते ॥५७॥
गन्धलेपापनोदार्थं शौचं देहस्य कीर्तितम् ॥
द्वयस्यापगमात्पश्चाद्भावशुद्ध्या विशुध्यति ॥५८॥
गंगातोयेन सर्वेण मृद्भारैः पर्वतोपमैः ॥
आ मृत्योराचरञ्छौचं भावदुष्टो न शुध्यति ॥५९॥
तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति ॥
स्वेदितः क्षालितस्तीर्थे किं शुद्धिमधिगच्छति ॥६०॥
अंतर्भावप्रदुष्टस्य विशतोऽपि हुताशनम् ॥
न स्वर्गो नापपर्गश्च देहनिर्दहनं परम् ॥६१॥
भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु ॥
अन्यथालिंग्यते कांता भावेन दुहिताऽन्यथा ॥६२॥
अन्यथैव स्तनं पुत्रश्चिंतयत्यन्यथा पतिः ॥
चित्तं विशोधयेत्तस्मात्किमन्यैर्बाह्यशोधनैः ॥६३॥
भावतः संविशुद्धात्मा स्वर्गं मोक्षं च विंदति ॥
ज्ञानामलांभसा पुंसः सद्वैराग्यमृदा पुनः ॥६४॥
अविद्यारागविण्मूत्रलेपगंधविशोधनम् ॥
एवमेतच्छरीरं हि निसर्गादशुचि विदुः ॥६५॥
त्वङ्मात्रसारनिःसारं कदलीसारसंनिभम् ॥
ज्ञात्वैवं दोषवद्देहं यः प्राज्ञः शिथिलीभवेत् ॥६६॥
स निष्क्रामति संसारे दृढग्राही स तिष्ठति ॥
एवमेतन्महाकष्टं जन्म दुःखं प्रकीर्तितम् ॥६७॥
पुंसामज्ञातदोषेण नानाकर्मवशेन च ॥
यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति ॥६८॥
यथा जरायुणा देही दुःखं तिष्ठति वेष्टितः ॥
पतितः सागरे यद्वद्दृःखमास्ते समाकुलः ॥६९॥
गर्भोदकेन सिक्तांगस्तथाऽऽस्ते व्याकुलः पुमान् ॥
लोहकुम्भे यथान्यस्त पच्यते कश्चिदग्निना ॥७०॥
गर्भकुम्भे तथा क्षिप्तः पच्यते जठराग्निना ॥
सूचीभिरग्निवर्णाभिर्विभिन्नस्य निरन्तरम् ॥७१॥
यद्दुःखं जायते तस्य तद्गर्भेऽष्टगुणं भवेत् ॥
इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम् ॥७२॥
चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः ॥
तत्रस्थस्य च सर्वेषां जन्मनां स्मरणं भवेत् ॥७३॥
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ॥
नानायोनिसहस्राणि मया दृष्टान्वनेकधा ॥७४॥
अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च ॥
ततः श्रेयः करिष्यामि येन गर्भो न संभवेत् ॥७५॥
अध्येष्यामि हरेर्ज्ञानं संसारविनिवर्तनम् ॥
एवं संचिंतयन्नास्ते मोक्षोपायं विचिन्तयन् ॥७६॥
गभात्कोटिगुणं दुःखं जायमानस्य जायते ॥
गर्भवासे स्मृतिर्यासीत्सा जातस्य प्रणश्यति ॥७७॥
स्पृष्टमात्रस्य बाह्येन वायुना मूढता भवेत् ॥
संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः ॥७८॥
स्मृतिभ्रंशात्ततस्तस्य पूर्वकर्मवशेन च ॥
रतिः संजायते तूर्णं जंतोस्तत्रैव जन्मनि ॥७९॥
रक्तो मूढश्च लोकोयमकार्ये संप्रवर्तते ॥
तत्रात्मानं न जानाति न परं न च दैवतम् ॥८०॥
न श्रृणोति परं श्रेयः सति चक्षुषि नेक्षते ॥
समे पथि समैर्गच्छन्स्खलतीव पदेपदे ॥८१॥
सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि ॥
संसारे क्लिश्यते तेन रागमोहवशानुगः ॥८२॥
गर्भस्मृतेरभावेन शास्त्रमुक्तं महर्षिभिः ॥
तद्दृःखकथनार्थाय स्वर्गमोक्षप्रसाधकम् ॥८३॥
ये शास्त्रज्ञाने सत्यस्मिन्सर्वकर्मार्थसाधके ॥
न कुर्वंत्यात्मनः श्रेयस्तदत्र परमद्भुतम् ॥८४॥
अव्यक्तेन्द्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः ॥
इच्छन्नपि न शक्नोति वक्तुं कर्तुं च किञ्चन ॥८५॥
दंतोत्थाने महद्दुःखं मौलेन व्याधिना तथा ॥
बालरोगैश्च विविधैः पीडा बालग्रहैरपि ॥८६॥
तृड्बुभुक्षापरीतांगः क्वचित्तिष्ठति रारटन् ॥
विण्मूत्रभक्षणाद्यं च मोहाद्बालः समाचरेत् ॥८७॥
कौमारे कर्णवेधेन मातापित्रोर्विताडनैः ॥
अक्षराध्ययनाद्यैश्च दुःखं स्याद्गुरुशासनात् ॥८८॥
प्रमत्तेंद्रियवृत्तैश्च कामरागप्रपीडनात् ॥
रागोद्वृत्तस्य सततं कुतः सौख्यं हि यौवने ॥८९॥
ईर्ष्यया सुमहद्दुःखं मोहाद्रक्तस्य जायते ॥
मत्तस्य कुपितस्यैव रागो दोषाय केवलम् ॥९०॥
न रात्रौ विंदते निद्रा कामाग्निपरिखेदितः ॥
दिवापि हि कुतः सौख्यमर्थोपार्जनचिंतया ॥९१॥
नारीषु त्वनुभूतासु सर्वदोषाश्रयासु च ॥
विण्मुत्रोत्सर्गसदृशं सौख्यं मैथुनजं स्मृतम् ॥९२॥
सन्मानमपमानेन वियोगेनेष्टसंगमः ॥
यौवनं जरया ग्रस्तं क्व सौख्यमनुपद्रवम् ॥९३॥
वलीपलितकायेन शिथिलीकृतविग्रहः ॥
सर्वक्रियास्वशक्तश्च जरयाजर्ज्जरीकृतः ॥९४॥
स्त्रीपुंसोर्यौवनं रूपं यदन्योन्याश्रयं पुरा ॥
तदेवं जरया ग्रस्तमुभयोरपि न प्रियम् ॥९५॥
जराभिभूतःपुरुषः पत्नीपुत्रादिबांधवैः ॥
अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते ॥९६॥
धर्ममर्थं च कामं च मोक्षं च नातुरो यतः ॥
शक्तः साधयितुं तस्माद्युवा धर्मं समाचरेत् ॥९७॥
वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते ॥
वातादीनां समूहश्च देहोऽयं परिकीर्तितः ॥९८॥
तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः ॥
रोगैर्नानाविधैर्यांति देहे दुःखान्यनेकशः ॥९९॥
तानि न स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् ॥
एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम् ॥१००॥
तत्रैकः कालसंयुक्तः शेषास्त्वागंतवः स्मृताः ॥
ये त्विहागंतवः प्रोक्तास्ते प्रशाम्यन्ति भेषजैः ॥१०१॥
जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ॥
विविधा व्याधयः शस्ताः सर्पाद्याः प्राणिनस्तथा ॥१०२॥
विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम् ॥
पीडितं सर्परोगाद्यैरपि धन्वंतरिः स्वयम् ॥१०३॥
स्वस्थीकर्तुं न शक्नोति कालप्राप्तं हि देहिनम् ॥
नैषधं न तपो मंत्रा न मित्राणि न बांधवाः ॥१०४॥
शक्नुवंति परित्रातुं नरं कालेन पीडितम् ॥
रसायनतपोजप्यैर्योगसिद्धैर्महात्मभिः ॥१०५॥
कालमृत्युरपि प्राज्ञैर्नीयते नापि संयुतैः ॥
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम् ॥१०६॥
नास्ति मृत्युसमस्रासः सर्वेषामपि देहिनाम् ॥
सद्भार्यापुत्रमित्राणि राज्यैश्वर्यसुखानि च ॥१०७॥
आबद्धानि स्नेहपाशैर्मृत्युः सर्वाणि कृंतति ॥
किं न पश्यसि मातस्त्वं सहस्रस्यापि मध्यतः ॥१०८॥
जनाः शतायुषः पंचभवंति न भवन्ति वा ॥
अशीतिका विपद्यन्ते केचित्सप्ततिका नराः ॥१०९॥
परमायुः स्थिता षष्टिस्तदप्यस्ति न निष्ठितम् ॥
तस्य यावद्भवेदायुर्देहिनः पूर्वकर्म भिः ॥११०॥
तस्यार्धमायुषो रात्रिर्हरते मृत्युरूपिणी ॥
बालभावेन मोहेन वार्धके जरया तथा ॥१११॥
वर्षाणां विंशतिर्याति धर्मकामार्थवर्जितः ॥
आगन्तुकैर्भवैः पुंसां व्याधिशोकैरनेकधा ॥११२॥
ह्रियतेर्द्धं हि तत्रापि यच्छेषं तद्धि जीवितम् ॥
जीवितांतेच मरणं महाघोरमवाप्नुयात् ॥११३॥
जायते योनिकोटीषु मृतः कर्मवशात्पुनः ॥
देहभेदेन यः पुंसां वियोगः कर्मसंख्यया ॥११४॥
मरणं तद्विनिर्द्दिष्टं न नाशः परमार्थतः ॥
महातमःप्रविष्टस्य च्छिद्यमानेषु मर्मसु ॥११५॥
यद्दुःखं मरणं जंतोर्न तस्येहोपमा क्वचित् ॥
हा तात मातर्हा कांते क्रंदत्येवं सुदुःखितः ॥११६॥
मण्डूक इव सर्पेण गीर्यते मृत्युना जनः ॥
बांधवैः संपरित्यक्तः प्रियैश्च परिवारितः ॥११७॥
निःश्वसन्दीर्घमुष्णं च मुकेन परिशुष्यता ॥
चतुरंतेषु खट्वायाः परिवर्तन्मुहुर्मुहुः ॥११८॥
संमूढः क्षिपतेत्यर्थं हस्तपादावितस्ततः ॥
खट्वातो वांछते भूमिं भूमेः खट्वां पुनर्महीम् ॥११९॥
विवस्त्रो मुक्तलज्जश्च विष्ठानुलेपितः ॥
याचमानश्च सलिलं शुष्ककण्ठोष्ठतालुकः ॥१२०॥
चिंतयानः स्ववित्तानि कस्यैतानि मृते मयि ॥
पंचावटान्खनमानः कालपाशेन कर्षितः ॥१२१॥
म्रियते पश्यतामेव गले घुर्घुररावकृत् ॥
जीवस्तृणजलूकेव देहाद्देहं विशेत्क्रमात् ॥१२२॥
संप्राप्योत्तरमंशेन देहं त्यजति पूर्वकम् ॥
मरणात्प्रार्थना दुःखमधिकं हि विवेकिनः ॥१२३॥
क्षणिकं मरणे दुःखमनंतं प्रार्थनाकृतम् ॥
ज्ञातं मयैतदधुना मृतो भवति यद्गुरुः ॥१२४॥
न परः प्रार्थयेद्भूयस्तृष्णा लाघवकारणम् ॥
आदौ दुःखं तथा मध्ये ह्यन्त्ये दुःखं च दारुणम् ॥१२५॥
निसर्गात्सर्वभूतानामिति दुःखपरंपरा ॥
क्षुधा च सर्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः ॥१२६॥
स चान्नौषधिलेपेन क्षणमात्रं प्रशाम्यति ॥
क्षुद्ध्याधेर्वेदना तीव्रा निःशेषबलकृन्तनी ॥१२७॥
तयाभिभूतो म्रियते यथान्यैर्व्याधिभिर्न्नरः ॥
राज्ञोऽभिमानमात्रं हि ममैव विद्यते गृहे ॥१२८॥
सर्वमाभरणं भारं सर्वमालेपनं मम ॥
सर्वं प्रलापितं गीतं नित्यमुन्मत्तचेष्टितम् ॥१२९॥
इत्येवं राज्यसंभोगैः कुतः सौख्यं विचारतः ॥
नृपाणां व्यग्रचित्तानामन्योन्यविजिगीषया ॥१३०॥
प्रायेण श्रीमदालेपान्नहुषाद्या महानृपाः ॥
स्वर्गं प्राप्यापि पतिताः कः श्रियो विंदते सुखम् ॥१३१॥
उपर्युपरि देवानामन्योन्यातिशये स्थितम् ॥
नरैः पुण्यफलं स्वर्गे मूलच्छेदेन भुज्यते ॥१३२॥
न चान्यत्क्रियते कर्म सोऽत्र दोषः सुदारुणः ॥
छिन्नमूलतरुर्यद्वदवशः पतते क्षितौ ॥१३३॥
पुण्यमूलक्षये तद्वत्पातयंति दिवौकसः ॥
इति स्वर्गेपि देवानां नास्ति सौख्यं विचारतः ॥१३४॥
तथा नारकिणां दुःखं प्रसिद्धं किं च वर्ण्यते ॥
स्थावरेष्वपिदुःखानि दावाग्निहिमशोषणम् ॥१३५॥
कुठारैश्ठेदनं तीव्रं वल्कलानां च तक्षणम् ॥
पर्णशखाफलानां च पातनं चंडवायुना ॥१३६॥
अपमर्दश्च सततं गजैर्वन्यैश्च देहिभिः ॥
तृड्‌बुभुक्षा च सर्पाणां क्रोधो दुःखं च दारुणम् ॥१३७॥
दुष्टानां घातनं लोके पाशेन च निबन्धनम् ॥
एवं सरीसृपाणां च दुःखं मातर्मुहुर्मुहुः ॥१३८॥
अकस्माज्जन्ममरणं कीटादीनां तथाविधम् ॥
वर्षाशीतातपैर्दुःखं सुकष्टं मृगपक्षिणाम् ॥१३९॥
क्षुत्तृट्‌क्लेशेन महता संत्रस्ताश्च सदा मृगाः ॥
पशुनागनिकायानां श्रृणु दुःखानि यानि च ॥१४०॥
क्षुत्तृट्‌छीतादिदमनं वधबन्धनताडनम् ॥
नासाप्रवेधनं त्रासः प्रतोदांकुशताडनम् ॥१४१॥
वेणुकुन्तादिनिगडमुद्गरांऽकुशताडनम् ॥
भारोद्वहनसंक्लेशं शिक्षायुद्धादिपीडनम् ॥१४२॥
आत्मयूथवियोगश्च वने च नयनादिकम् ॥
दुर्भिक्षं दुर्भगत्वं च मूर्खत्वं च दरिद्रता ॥१४३॥
अधरोत्तरभावश्च मरणं राष्ट्रविभ्रमः ॥
अन्योन्याभिभवाद्दुःखमन्योन्यातिशयात्पुनः ॥१४४॥
अनित्यता प्रभावाणामुच्छ्रयाणां च पातनम् ॥
इत्येवमादिभिर्दुःखैर्यस्माद्व्याप्तं चराचरम् ॥१४५॥
निरयादिमनुष्यांतं तस्मात्सर्वं त्यजेद्बुधः ॥
स्कन्धात्सकन्धं नयेद्भारं विश्रामं मन्यतेन्यथा ॥१४६॥
तद्वत्सर्वमिदं लोके दुःखं दुःखेन शाम्यति ॥
एवमेतज्जगत्सर्वमन्योन्यातिशयोच्छ्रितम् ॥१४७॥
दुःखैराकुलितं ज्ञात्वा निर्वेदं परमाप्नुयात् ॥
निर्वेदाच्च विरागः स्याद्विरागाज्ज्ञानसंभवः ॥१४८॥
ज्ञानेन तं परं ज्ञात्वा विष्णुं मुक्तिमवाप्नुयात् ॥
नाहमेतादृशे लोके रमेयं जननि क्वचित् ॥१४९॥
राजहंसो यथा शुद्धः काकामेध्यप्रदर्शकः ॥
श्रृणु मातर्यत्र संस्थो रमेयं निरुपद्रवः ॥१५०॥
अविद्यायनमत्युग्रं नानाकर्मातिशाखिनम् ॥
संकल्पदंशमकरं शोकहर्षहिमातपम् ॥१५१॥
मोहांधकारतिमिरं लोभव्यालसरीसृपम् ॥
विषयानन्यथाध्वानं कामक्रोधविमोक्षकम् ॥१५२॥
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ॥
न तत्प्रविश्य शोचंति न प्रदुष्यंति तद्विदः ॥१५३॥
न च बिभ्यति केषांचिन्नास्य बिभ्यति केचन ॥१५४॥
तस्मिन्वने सप्तमहाद्रुमास्तु सप्तैव नद्यश्च फलानि सप्त ॥
सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम् ॥१५५॥
पंचवर्णानि दिव्यानि चतुर्वर्णानि कानिचित् ॥
त्रिद्विवर्णैकवर्णानि पुष्पाणि च फलानि च ॥१५६॥
सृजंतः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥१५७॥
सप्त स्त्रियस्तत्र वसंति सत्यस्त्ववाङ्मुख्यो भानुमतो भवंति ॥
ऊर्ध्वं रसानाददते प्रजाभ्यः सर्वाश्च तास्तत्त्वतः कोपि वदे ॥१५८॥
सप्तैव गिरयश्चात्र धृतं यैर्भुवनत्रयम् ॥
नद्यश्च सरितः सप्त ब्रह्मवारिवहाः सदा ॥१५९॥
तेजश्चाभयदानत्वमद्रोहः कौशलं तथा ॥
अचापल्यमथाक्रोधः प्रियवादश्च सप्तमः ॥१६०॥
इत्येते गिरयो ज्ञेयास्तस्मिन्विद्यावने स्थिताः ॥
दृढनिश्चयस्तथा भासा समता निग्रहो गुणः ॥१६१॥
निर्ममत्वं तपश्चात्र सन्तोषः सप्तमो ह्रदः ॥
भगवद्गुणविज्ञानाद्भक्तिः स्यात्प्रथमा नदी ॥१६२॥
पुष्पादिपूजा द्वितीया तृतीया च प्रदक्षिणा ॥
चतुर्थी स्तुतिवाग्रूपा पञ्चमी ईश्वरार्पणा ॥१६३॥
षष्ठी ब्रह्मैकता प्रोक्ता सप्तमी सिद्धिरेव च ॥
सप्त नद्योऽत्र कथिता ब्रह्मणा परमेष्ठिना ॥१६४॥
ब्रह्मा धर्मो यमश्चाग्निरिंद्रो वरुण एव च ॥१६५॥
धनदश्च ध्रुवादीनां सप्तकानर्चयंत्यमी ॥
नदीनां संगमस्तत्र वैकुंठसमुपह्वरे ॥१६६॥
आत्मतृप्ता यतो यांति शांता दांताः परात्परम् ॥
केचिद्द्रुमाः स्त्रियः केचित्केचित्तत्त्वविदोऽपरे ॥१६७॥
सरितः केचिदाहुः स्म सप्तैव ज्ञानवित्तमाः ॥
अनपेतव्रतकामोऽत्र ब्रह्मचर्यं चरामि च ॥१६८॥
ब्रह्मैव समिधस्तत्र ब्रह्माग्निर्ब्रह्म संस्तरः ॥
आपो ब्रह्म गुरुब्रह्म ब्रह्मचर्यमिदं मम ॥१६९॥
एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः ॥
गुरुं च श्रृणु मे मातर्यो मे विद्याप्रदोऽभवत् ॥१७०॥
एकः शास्ता न द्वितीयोऽस्ति शास्ता हृद्येव तिष्ठन्पुरुषं प्रशास्ति ॥
तेनाभियुक्तः प्रणवादिवोदकं यता नियुक्तोस्मि तथाचरामि ॥१७१॥
एको गुरुर्नास्ति तथा द्वितीयो हृदि स्थितस्तमहं नृ ब्रवीमि ॥
यं चावमान्यैव गुरुं मुकुन्दं पराभूता दानवाः सर्व एव ॥१७२॥
एको बंधुर्नास्ति ततो द्वितीयो हृदी स्थितं तमहमनुब्रवीमि ॥
तेनानुशिष्टा बांधवा बंधुमंतः सप्तर्षयः सप्त दिवि प्रभांति ॥१७३॥
ब्रह्मचर्यं च संसेव्यं गार्हस्थ्य श्रृणु यादृशम् ॥
पत्नी प्रकृतिरूपा मे तच्चित्तो नास्मि कर्हिचित् ॥१७४॥
मच्चित्ता सा सदा मातर्मम सर्वार्थसाधनी ॥
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पंचमम् ॥१७५॥
मनो बुद्धिश्च सप्तैते दीप्यंते पावका मम ॥
गंधो रसश्च रूपं च शब्दः स्पर्शश्च पंचमम् ॥१७६॥
मंतव्यमथ बोद्धव्यं सप्तैताः समिधो मम ॥
हुतं नारायणध्यानाद्भुंक्ते नारायणः स्वयम् ॥१७७॥
एवंविधेन यज्ञेन यजाम्यस्मि तमीश्वरम् ॥
अकामयानस्य च सर्वकामो भवेदद्विषाणस्य च सर्वदोषः ॥१७८॥
न मे स्वभावेषु भवंति लेपास्तोयस्य बिंदोरिव पुष्करेषु ॥
नित्यस्य मे नैव भवंत्यनित्या निरीक्षमाणस्य बहुस्यभावात् ॥१७९॥
न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम् ॥१८०॥
एवंविधेन पुत्रेण मा मातर्दुःखिनी भव ॥
तत्पदं त्वा च नेष्यामि न यत्क्रतुशतैरपि ॥१८१॥
इति पुत्रवचः श्रुत्वा विस्मिता इतराभवत् ॥
चिंतयामास यद्येवं विद्वान्मम सुतो दृढम् ॥१८२॥
लोकेषु ख्यातिमायाति ततो मे स्याद्यशः परम् ॥
इत्यादि चिंतयंत्यां च रजन्यां भगवान्हरिः ॥१८३॥
प्रहृष्टस्तस्य तैर्वाक्यैर्विस्मितः प्रादुरास च ॥
मूर्तेः स्वयं विनिष्क्रम्य शंखचक्रगदाधराः ॥१८४॥
जगदुद्भासयन्भासा सूर्यकोटिसमप्रभः ॥
ततो निष्पत्य धरणीं हृष्टरोमाश्रुद्गदः ॥१८५॥
मूर्ध्नि बद्धांजलिं धीमानैतरेयोऽथ तुष्टुवे ॥१८६॥
नमस्तुभ्यं भगवते वासुदेवाय धीमहि ॥
प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च ॥१८७॥
नमो विज्ञानमात्राय परमानंदमूर्तये ॥
आत्मारामाय शांताय निवृत्तद्वैतदृष्टये ॥१८८॥
आत्मानंदानुरुद्धाय सम्यक्तयक्तोर्मये नमः ॥
हृषीकेशाय महते नमस्तेऽनंतशक्तये ॥१८९॥
वचस्युपरते प्राप्यो य एको मनसा सह ॥
अनामरूपचिन्मात्रः सोऽव्यान्नः सदसत्परः ॥१९०॥
यस्मिन्निदं यतश्चेदं तिष्ठत्यपैति जायते ॥
मृन्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥१९१॥
यं न स्पृशंति न विदुर्मनोबुद्धींद्रियासवः ॥
अंतर्बहिश्च विततं व्योमवत्प्रणतोऽस्म्यहम् ॥१९२॥
देहेंद्रियप्राणमनोधियोऽमी यदंशब्द्धाः प्रचरंति कर्मसु ॥
नैवान्यदालोहमिव प्रतप्तं स्थानेषु तद्दृष्टपदेन एते ॥१९३॥
चतुर्भिश्च त्रिभिर्द्वाभ्यामेकधा प्रणमामि तम् ॥
पूर्वापरापरयुगे शास्तारं परमीश्वरम् ॥१९४॥
हित्वा गतीर्मोक्षकामा यं भजंति दशात्मकम् ॥
तं परं सत्यममलं त्वां वयं पर्युपास्महे ॥१९५॥
ॐनमो भगवते महापुरुषाय महानुभावाय विभूतिपतये
सकलसात्वतपरिवृढनिकरकरकमलोत्पलकुड्मलोपलालितचरणारविंदयुगल परमपरमेष्ठिन्नमस्ते ॥१९६॥
तवाग्निरास्यं वसुधांघ्रियुग्मं नभः शिरश्चंद्ररवी च नेत्रे ॥
समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते ॥१९७॥
जन्मानि तावंति न संति देव निष्पीड्य सर्वाणि च सर्वकालम् ॥
भूतानि यावंति मयात्र भीमे पीतानि संसारमहासमुद्रे ॥१९८॥
संपच्छिलानां हिमवन्महेंद्रकैलासमेर्वादिषु नैव तादृक् ॥
देहाननेकाननुगृह्णतो मे प्राप्तास्ति संपन्महती तथेश ॥१९९॥
न संतिते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः ॥
भूत्वा मया येषु न जंतवश्च संभक्षितो वा न च भूतसंघैः ॥२००॥
शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं पतितं भवेषु ॥
तावत्प्रमाणं न जलं पयोदा मुंचंति दिव्यैरपि वर्षलक्षैः ॥२०१॥
मन्ये धरित्रीपरमाणुसंख्यामुपैति पित्रोर्गणना न मह्यम् ॥
मित्राव्यमित्राण्यनुजीव्यबंधून्संख्यातुमीशोऽस्मिन देवदेव ॥२०२॥
त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्द्धरारि ॥
कामो वशं क्रधमुखैः सहायैः करोति किं तद्भगवन्करोमि ॥२०३॥
सोऽहं भृशार्तः करुणाकरस्त्वं संसारगर्ते पतितस्य विष्णो ॥
महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यपि दुर्गतोऽपि ॥२०४॥
परायणं रोगवतो हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य ॥
बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेव ॥२०५॥
प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार ॥
मामुद्धरास्मादुरुदुःखसंघात्संसारगर्तात्स्वपरिग्रहेण ॥२०६॥
क्षृत्तृट्‌त्रिधातुभिरिमं मुहुरर्द्यमानं शीतोष्ण वातसलिलैरितरेतराच्च ॥
कामाग्निनाच्युत रुषा च सुदुर्भरेण संपश्यतो मम उरुक्रम सीदतो हि ॥२०७॥
भवंतु भद्राणि समस्तदोषाः प्रयांतु नाशं जगतोऽखिलस्य ॥
मयाद्य भक्त्या परमेश्वरे प्रभौ स्तुते जगद्धातरि वासुदेवे ॥२०८॥
ये भूतले ये दिवि चांतरिक्षे रसातले प्राणिगणाश्च केचित् ॥
भवंतु ते सिद्धियुजो मयाद्य स्तुते जगद्धातरि वासुदेवे ॥२०९॥
अज्ञानिनो ज्ञानविदो भवंतु प्रशान्तिभाजः सततोग्रचित्ताः ॥
मया च विश्वंभरणे ह्यनंते स्तुते जगद्धातरि वासुदेवे ॥२१०॥
श्रृण्वंति ये मे स्तुवतस्तथान्ये पश्यंति ये मामिदमीरयंतम् ॥
देवासुराद्या मनुजास्तिरश्चो भवंतु तेऽप्यच्युतयोगभाजः ॥२११॥
ये चापि मूका विकलेंद्रियत्वात्पठंति नो नैव विलोकयंति ॥
पश्वादयः कीटपिपीलिकाद्या भवंतु तेऽप्यच्युतयोगभाजः ॥२१२॥
नश्यंतु दुःखानि जगत्यपेतु लोभादिको दोषगणः प्रजाभ्यः ॥
यथात्मनि भ्रातरि चात्मजे वा तथा नरस्यास्तु जनेपि भावः ॥२१३॥
संसारवैद्यैऽखिलदोषहानिविचक्षणे निर्वृतिहेतुभूते ॥
संसारबंधाः शिथिलीभवंतु हृदि स्थिते सर्वजनस्य विष्णौ ॥२१४॥
पापं प्रणाशं मम च प्रयातु यन्मानसं यच्च करोमि वाचा ॥
शरीरमप्याचरितं च यन्मे स्मृते जगद्धातरि वासुदेवे ॥२१५॥
यथा हि वा वासुदेवेति प्रोक्ते संकीर्त्तने विष्णुभक्तस्य वापि ॥
स्मृते हरौ वापि प्रयाति पापं सत्येन मे नश्यतां तेन पापम् ॥२१६॥
मूढोऽयमल्पमतिरल्पविचेष्टितोऽयं क्लिष्टं मनोऽपि विषयैर्मयि न प्रसंगि ॥
इत्थं कृपां कुरु मयि प्रणतेऽखिलेश त्वां स्तोतुमंबुजभवोऽपि हि देव नेशः ॥२१७॥
स त्वं प्रसीद भगवन्कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम् ॥
संसारसागरनिमग्नमनंत दीनमुद्धर्तुमर्हसि हरे पुरुषोत्तमोसि ॥२१८॥
इत्थं स्तुतः स भगवानैतरेयेण भारत ॥
वासुदेवो विशालात्मा सानंदमिदमाह तम् ॥२१९॥
वत्सैतरेय तुष्टोस्मि भक्त्यानेन स्तवेन ते ॥
वरं वृणुष्व मत्तस्त्वं दुर्लभं यदभीप्सितम् ॥२२०॥
 ॥ऐतरेय उवाच ॥
एष एव वरो नाथमम नित्यमभीप्सितः ॥
मज्जतो घोरसंसारे कर्णधारो हरे भव ॥२२१॥
 ॥श्रीभगवानुवाच ॥
मुक्त एवासि संसाराद्यस्य ते भक्तिरीदृशी ॥
ग्रहैर्महाग्रहैर्बद्धो नैव ते द्वित्रयोदशी ॥२२२॥
यश्च स्तोत्रेण सततं गुप्तक्षेत्रसमीहितम् ॥
स्तोष्यते वासुदेवं मां स पापक्षयमाप्स्यति ॥२२३॥
यस्मादेतेन स्तोत्रेण पापं नाशमवाप्स्यति ॥
अघनाशनमित्येव तस्मात्ख्यातिमवाप्स्यति ॥२२४॥
एकादश्यामुपोष्यैव ममाग्रे यः पठिष्यति ॥
स्तवमेनं स पूतात्मा मम लोकमवाप्स्यति ॥२२५॥
सर्वेषामेव क्षेत्राणां गुप्तक्षेत्रं प्रियं यथा ॥
तथा सर्वस्तवानां च स्तवोयं सुप्रियोमम ॥२२६॥
यानि चोद्दिश्य भूतानि जप्यतेऽसौ महात्मभिः ॥
तानि शांतिं भगं प्रज्ञां प्राप्स्यंति कृपया मम ॥२२७॥
त्वं च वत्स श्रौतधर्मान्सम्यगाचर श्रद्धया ॥
न तैर्बंधं मयि न्यस्तैराप्स्यस्यनभिसंधितैः ॥२२८॥
यज यज्ञैरवाप्यैव दारान्नन्दय मातरम् ॥
मयि ध्यानेन तीव्रेण मामवाप्स्यस्यसंशयम् ॥२२९॥
बुद्धिर्मनोथ भूतानि बुद्धिकर्मेन्द्रियाणि च ॥
त्रयोदशग्रहैर्ये स्युस्त्रयोदश महाग्रहाः ॥२३०॥
बोद्धव्यमथ मंतव्यमहंता शब्द एव च ॥
स्पर्शो रसो रूपगन्धौ वचनादानमेव च ॥२३१॥
विहृत्युत्सर्ग आनंदस्त्रयोदश महाग्रहाः ॥
एतान्महाग्रहन्पुत्र शुद्धाञ्छुद्धैः स्वकैर्ग्रहैः ॥२३२॥
गृहाण ध्यानयोगेन ममैवं मोक्षमाप्स्यसि ॥
एवं त्वं कर्मभिर्वीर नैष्कर्म्यं समवाप्स्यसि ॥२३३॥
शुल्बंरसेन संविद्धं दक्षो हेम यथाश्नुते ॥
वर्णाश्रमाचारवता मयि संन्यस्तकर्मणा ॥२३४॥
मदनुध्यानयुक्तेन मोक्षो नास्तीह दुर्लभः ॥
तस्मादेवं वर्तमानो नन्द व्रतपरायणः ॥२३५॥
उद्धृत्य सप्तपुरुषाल्लँयं मयि गमिष्यसि ॥
सांप्रतं प्रतिभास्यंति वेदश्चापठिता अपि ॥२३६॥
ततस्त्वं कोटितीर्थे च यज्ञे वै हरिमेधसः ॥
याहि तत्र भविष्यं ते सर्वं मातुरभीप्सितम् ॥२३७॥
इत्युक्त्वा भगवान्विष्णुर्मूर्तिमध्ये विवेश ह ॥
विलोक्य मानो निमिषं मात्रा चैव सुतेन च ॥२३८॥
ततो मूर्ति नमस्कृत्य वासुदेवस्य विस्मितः ॥
ऐतरेयः स्वजननीं मुदितो वाक्यमब्रवीत् ॥२३९॥
पुराहमभवं शूद्रो भीतः संसारदोषतः ॥
परिनिष्ठागतं धर्मं ब्राह्मणं शरणं गतः ॥२४०॥
स कृपालुर्मम प्राह मन्त्रं वै द्वादशाक्षरम् ॥
सदेमं जपचेत्युक्त्वा तमहं जप्तवान्सदा ॥२४१॥
तेन जाप्यप्रभावेन ममोत्पत्तिस्तवोदरात् ॥
जातस्मृतिर्विष्णुभक्तिः स्थितिरत्र च सर्वदा ॥२४२॥
इदानीं च प्रयाम्येष यज्ञं तं हरिमेधसः ॥
त्वद्रूपं विष्णुप्रीत्यर्थं प्रणम्य त्वां प्रसादये ॥२४३॥
ततो महीनगरकाख्ये कोटितीर्थतलस्थितम् ॥
यजन्तं संवृतं विप्रैः कोटिशस्तमुपागमत् ॥२४४॥
गेहाय मातरं प्रोच्य स यज्ञे प्रोक्तवान्द्विजः ॥
नमस्तस्मै भगवते विष्णवेऽकुण्ठमेधसे ॥२४५॥
यन्मायामोहितधियो भ्रमामः कर्मसागरे ॥
इति श्लोकं महार्थं ते हरिमेधमुखा द्विजाः ॥२४६॥
आकर्ण्यासनपूजाद्यैः पूजयामासुरंग तम् ॥
ततो वेदार्थनैपुण्यैस्तेन ते तोषिता द्विजाः ॥२४७॥
प्रददुर्दक्षिणां सर्वां हरिमेधाः सुतामपि ॥
द्रव्यं कन्यां च संगृह्य स्वगृहं समुपागमत् ॥२४८॥
वन्दयित्वा स्वजननीं पुत्रानुत्पाद्य चामलान् ॥
इष्ट्वा यज्ञैरैतरेयो द्वादशीव्रततत्परः ॥२४९॥
वासुदेवानुध्यानेन मोक्षं पश्चादुपागतः ॥
एवंविधो वासुदेवः स्वयमत्रास्ति भारत ॥२५०॥
योर्ययेत्पूजयेत्स्तौति सर्वं तस्याक्षयं विदुः ॥
शिवधर्मेषु यत्प्रोक्तं फलं पूर्वं मया तव ॥२५१॥
तादृशं लभते मर्त्यो वासुदेवप्रसादतः ॥२५२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीवृद्धवासुदेवमाहात्म्यवर्णन ऐतरेयब्राह्मणचरित्रवर्णनंनाम द्विचत्वारिंशोऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP